________________
७३८-३६]
सप्तमोऽध्यायः अवश्यहेयत्वे शरीरस्यावस्थानादरो जीविताशंसा ।३। शरीरमिदमवश्यं हेयं जलबुबुद्वदनित्यम् , अस्यावस्थानं कथं स्यादित्यादरो जीविताशंसा प्रत्येतव्या।
_ 'जीवनसंक्लेशात् मरणं प्रति चित्तानुरोधो मरणाशंसा ।३। रोगोपद्रवाकुलतया प्राप्तजीवनसंक्लेशस्य मरणं प्रति चित्तस्य प्रणिधानं मरणाशंसा इति व्यपदेशमर्हति ।।
पूर्वकृतसहपांशुक्रीडनाद्यनुस्मरणान्मित्रानुरागः।४। व्यसने सहायत्वमुत्सवे संभ्रम इत्ये- ५ वमादिषु कृतं बाल्ये युगपत् क्रीडनमित्येवमादीनामनुस्मरणात् मित्रेऽनुरागो भवति ।
अनुभूतप्रीतिविशेषस्मृतिसमावाहारः सुखानुवन्धः ।। एवं मया भुक्तं शयितं क्रीडितमित्येवमादि प्रीतिविशेष प्रति स्मृतिसमन्वाहारः सुखानुबन्ध इत्यभिधीयते ।
भोगाकाङ्क्षया नियतं दीयते चित्त तस्मिस्तेनेति ग निदानम् ।६। विषयसुखोत्कर्षाभिलाषो भोगाकाङ्क्षा तया नियतं चित्तं दीयते तस्मिंस्तेनेति वा निदानमिति व्यपदिश्यते । एते १० पञ्च सल्लेखनायाः व्यतिक्रमाः । .
___ अत्राह-उक्तं भवता तीर्थकरत्वकारणकर्मास्रवनिर्देशे 'शक्तितस्त्यागतपसी' इति, पुनश्चोक्तं शीलव्रतविधाने 'अतिथिसंविभाग' इति, तस्य दानस्य लक्षणमनितिं तदुच्यतामिति ? अत आह
अनुग्रहार्थं स्वस्यातिसो दानम् ॥ ३८ ॥ स्वपरोपकारोऽनुग्रहः ॥१! स्वस्य परस्य चोपकारः अनुग्रह इत्याख्यायते । स्वोपकारः पुण्य- १५ संचयः, परोपकारः सम्यग्ज्ञानादिवृद्धिः ।
स्वशब्दो धनपर्यायवचनः ।२। आत्मात्मीयज्ञातिधनपर्यायवाचित्वे स्वशब्दस्य धनपर्यावाचिनो ग्रहणमिह द्रष्टव्यम् । अनुग्रहार्थ स्वस्यातिसर्गः त्यागो दानं वेदितव्यम् ।
___ अत्राह-उक्तं दानं तत्किमविशिष्टफलमाहोस्वित् अस्ति कश्चित् प्रतिविशेप इति ? अत्रोच्यते
विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥ ३९ ॥ प्रतिग्रहादिक्रमो विधिः ।१। प्रतिग्रह उच्चदेशस्थापनं पादप्रक्षालनम् अर्चनं प्रणमनमित्येवमादिक्रियाविशेपाणां क्रमो विधिरित्याख्यायते ।
विशेषो गुणकृतस्तस्य प्रत्येकमभिसंबन्धः ।२। परस्परतो विशिष्यते विशिष्टिर्वा विशेषः, स गुणकृतः, तस्य प्रत्येकमभिसंवन्धी भवति-विधिविशेपः द्रव्यविशेपः दातृविशेपः पात्रविशेष २५ इति । तत्र विधिविशेपः प्रतिग्रहादिपु आदरानादरकृतो भेदः ।
तपःस्वाध्यायपरिवृद्धिहेतुत्वादिब्यविशेषः ।३। दीयमाने अन्नादौ प्रतिगृहीतुस्तपःस्वाध्यायपरिणामविवृद्धिकारणत्वादिद्रव्यविशेप इति भाप्यते ।
अनसूया ऽविपादादितृविशेषः ।४। प्रतिग्रहीतरि अनसूया त्यागेऽविपादः दिसतो ददती दत्तवतश्च प्रीतियोगः कुशलाभिसन्धिता दृप्रफलानपेक्षिता निरूपरोधत्वमनिदानत्वमित्ये- ३० वमादिः दातृविशेपोऽवसेयः । ... मोक्षकारणगुणसंयोगः पात्रविशेषः ।। मोक्षकारणैः सम्यग्दर्शनादिभिः गुणैः योगः पात्रविशेप इति प्रतोयते।।
ततश्च फलविशेपः क्षित्यादिविशेषाद् वीजफलविशेषवत् ।६। ततश्च विध्यादिविशेषाहानफलविशेषो भवति, यथा क्षित्यादिकारणविशेपसन्निपाते सति नानाविधबीजफलविशेष इति । ३५
जीवितसं-मु.। २ रागोप-ता०,१०।३-याविशेषादिः १०।