________________
१५
५५८
२०
तत्त्वार्थवार्तिके
तदुपशिलः संबन्धः | ३ तेन चित्तवता द्रव्येणोपश्लिष्टः संबन्ध इत्याख्यायते । संबध्यत ५ इति संबन्धः ।
तद्व्यतिकीर्णः संमिश्रः | ३ | तेन सचित्तेन द्रव्येण व्यतिकीर्णः संमिश्र इति कथ्यते । संमिश्रयत इति संमिश्रः ।
पूर्वेणा विशिष्ट इति चेत्; न; तत्र संसर्गमात्रत्वात् |४| स्यान्मतम् - संबन्धेनाविशिष्टः संमिश्र इति ? तन्न; किं कारणम् ? तत्र संसर्गमात्रत्वात् । सचित्तसंबन्धे हि संसर्गमात्रं विव१० क्षितम्, इह तु सूक्ष्मजन्तुव्याकुलत्वे विभागीकरणस्याशक्यत्वात् नानाजातीयद्रव्यसमाहारः सूक्ष्मजन्तुप्राय आहारः संमिश्र इष्टः । कथं पुनरस्य सचित्तादिषु वृत्तिः ? प्रमादसंमोहाभ्यां सचित्तादिषु वृत्तिः । क्षुत्पिपासातुरत्वात् त्वरमाणस्य सचित्तादिषु अशनाय पानायानुलेपनाय धानाय वा वृत्तिर्भवति ।
-
३०
[ ७३५-३७
सचित्तसंबन्धसंमिश्राभिषवदुः पकाहाराः ॥ ३५ ॥
सह चित्तेन वर्तत इति सचित्तः | १| चित्तं विज्ञानं तेन सह वर्तत इति सचित्तः, चेतनाद्रव्यमित्यर्थः ।
सचित्ते निक्षेपः सचित्तनिक्षेपः । १। सचित्तो व्याख्यातः । सचित्ते पद्मपत्रादौ निधानं निक्षेप इत्युच्यते । “साधनं कृता ” [जैनेन्द्र० १|३ | २० ] इति वा मयूरव्यंसकादित्वाद्वा वृत्तिः ।
प्रकरणात् सचित्त नाऽपिधानम् |२| अपिधानमावरणमित्यर्थः । प्रकरणवशात् सचितेनापिधानमिति विशेष्यते, इतरथा हि प्रागधिकरणत्वेन निर्दिष्टं सचित्तग्रहणं नाभिसंबध्येत । अन्यदातृदेयार्पणं परव्यपदेशः | ३| अन्यत्र दातारः सन्ति दीयमानोऽप्यमन्यस्येति वा २५ अर्पणं परव्यदेश इति प्रतिपाद्यते ।
प्रयच्छतोऽप्यादराभावो मात्सर्यम् |४| प्रयच्छतोऽपि सतः आदरमन्तरेण दानं मात्सर्यमिति प्रतीयते ।
अकाले भोजनं कालातिक्रमः | ५| अनगाराणाम् अयोग्यकाले भोजनं कालातिक्रम इति कथ्यते । त एते प अतिथिसंविभागशीलभ्रेषाः प्रणीताः ।
सप्तानामपि शीलानामतीचारा उक्ता उच्चावचाः । अथ सल्लेखनाया मरणविशेषापादनसमर्थाया अनुपदिष्टचित्तेनारभ्यायाः केऽतीचाराः भवन्तीति ? अत आह—
द्रवो वृष्यं वाऽभिषवः ॥ ५॥ द्रवः सौवीरादिकः वृष्यं वा द्रव्यमभिषवः इत्यभिधीयते । असम्यक्पक्वो दुष्पक्वः | ६ | अन्तस्तण्डुलभावेनाऽतिविक्लेदनेन बा दुष्ठु पक्क आहारो दुष्पक इत्युच्यते । ननु दुष्पच इति प्राप्नोतीति'; कृच्छ्रार्थविवक्षाभावात् न भवति । तस्याभ्यवहारे को दोषः ? इन्द्रियमदवृद्धिः स्यात्, सचित्तप्रयोगो वा वातादिप्रकोपो वा, तत्प्रतीकारविधाने स्यात् पापलेपः, अतिथयश्चैनं परिहरेयुरिति । त एते पञ्च उपभोगपरिभोगसंख्यानमर्यादाभ्रेषाः ।
सचित्त निक्षेपापिधानपरव्यपदेश' मात्सर्यकालातिक्रमाः ॥ ३६ ॥
जीवितमरणाशंसा मित्रानुरागसुखानुबन्धनिदानानि ॥ ३७ ॥
आकाङ्क्षणमाशंसा |१| आकाङ्क्षणमभिलाषः आशंसेत्युच्यते । जीवितं च मरणं च जीवितमरणम्', जीवितमरणस्य आशंसा जीवितमरणाशंसा ।
१ - ति तन्न किं कारणम् कृ-मु० । २ - दाभेदा:- मू०, ता० आ०, द० । अतिचारा इत्यर्थ:मु० टि० । ३-शकरणमा-श्र० । ४ अनेकद्रकाराः । ५- मरणे तयोराशं - मु० ।