________________
७।३३-३४] सप्तमोऽध्यायः
५५७ इह पुनः कल्प्यस्यैव आधिक्यमित्यतिक्रम इत्युच्यते । नन्वेवमपि तद्ब्रतातिचारान्तर्भावात् इदं वचनमनर्थकम् ? नानर्थकम् ; सचित्ताद्यतिक्रमवचनात् । असमीक्ष्याधिकरणमित्यत्र सुप्सुपेति वृत्तिः, मयूरव्यंसकादित्वाद्वा। त एते पञ्च अनर्थदण्डविरतरतीचाराः।
योगदुःप्रणिधानानादरस्मृत्यनुपस्थानानि ॥ ३३ ॥ योगशब्दो व्याख्यातार्थः ।। अयं योगशब्दो व्याख्यातार्थो द्रष्टव्यः । क ? "कायबाल्म- ५ नस्कर्म योगः" [11] इत्यत्र ।।
दुष्ट प्रणिधानमन्यथा वा दुःप्रणिधानम।।प्रणिधानं प्रयोगः परिणाम इत्यनर्थान्तरम। दुष्ठु पापं प्रणिधानं दुःप्रणिधानम् , अन्यथा वा प्रणिधानं दुःप्रणिधानम् । तत्र क्रोधादिपरिणामवशात् दुष्ठु प्रणिधानं शरीरावयवानाम् अनिभृतमवस्थानम् , वर्णसंस्काराभावार्थागमकत्वचापलादि वाग्गतम् , मनसोऽनर्पितत्वंचेत्यन्यथा प्रणिधानम् ।
अनादरोऽनुत्साहः ।। इतिकर्तव्यं प्रत्यसाकल्यात् यथाकथञ्चित् प्रवृत्तिरनुत्साहः अनादर इत्युच्यते।
____ अनैकाप्रयं स्मृत्यनुपस्थानम् ।४। अनैकाग्यमसमाहितमनस्कता स्मृत्यनुपस्थानमित्याख्यायते ।
___ मनोदुःप्रणिधानं तदिति चेत् । न; तत्रान्याचिन्तनात् ।। स्यादेतत्-स्मृत्यनुपस्थानं १५ तन्मनोदुःप्रणिधानमेवेति तस्य ग्रहणमनर्थकमिति; तन्नः किं कारणम् ? तत्रान्याचिन्तनात् । तत्र हि अन्यत् किञ्चित् अचिन्तयतश्चिन्तयत एव वा विषये क्रोधाद्यावेशः आदा स्थानं मनसः, इह पुनः परिस्पन्दनात् चिन्ताया एकाग्येणानवस्थानमिति विस्पष्टमन्यत्वम् । रात्रिन्दिवीयस्य वा प्रमादाधिकम्य सश्चित्यानुपस्थानम् । त एते पञ्च सामायिकस्यातिक्रमाः। अप्रत्यवेक्षिताऽप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणाऽना- २०
दरस्मृत्यनुपस्थानानि ॥ ३४ ॥ प्रत्यवेक्षणं चाक्षुषो व्यापारः ।। जन्तवः सन्ति न सन्ति चेति प्रत्यवेक्षणं चाक्षुषो व्यापारः प्रतीयते।
प्रमार्जनमुपकरणोपकारः ।२। मृदुनोपकरणेन यत् क्रियते प्रयोजनं तत् प्रमार्जनं प्रत्येतव्यम् ।
२५ तस्य प्रतिषेधविशिष्टस्योत्सर्गादिभिः संबन्धः।३। तस्योभयस्य प्रतिषेधविशिष्टस्य उत्स. र्गादिभित्रिभिः प्रत्येकमभिसंबन्धो भवति-अप्रत्यवेक्षिताप्रमार्जितोत्सर्ग इत्यादि । तत्राऽप्रत्यवेक्षितायां भुवि मूत्रपुरीपोत्सर्गः, अप्रत्यवेक्षिताप्रमार्जितस्य अहंदाचार्यपूजोपकरणस्य गन्धमाल्यधूपादेरात्मपरिधानाद्यर्थस्य वस्त्रपात्रादेश्वाऽऽदानम् , अप्रत्यवेक्षिताप्रमार्जितस्य प्रावरणादेः संस्तरस्योप-. क्रमणम्।
आवश्यकेष्वनादरः।४। आवश्यकेषु अनादरः अनुत्साहो भवति । कुतः ? हुदभ्यर्दितत्वात् ।
स्मृत्यनुपस्थानं व्याख्यातम् ॥५॥ त एते पश्च प्रोषधोपवासस्यातिचाराः। . .
३०
१-मन्यथात्वम् मू०, ता०,
०।.भेदत्वम् । २रात्रिदिवियस्व मु०,०।