________________
१०
तस्वार्थवार्तिके
[७३१-३२ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥ ३१ ॥
'तमानयेत्याज्ञापनमानयनम् ।। आत्मना संकल्पिते देशे स्थितस्य प्रयोजनवशात् यत्किचिदानयेत्याज्ञापनम् आनयनमित्याख्यायते।।
एवं कुविति विनियोगः प्रेप्यप्रयोगः ।२। परिच्छिन्नदेशाद्वहिः स्वयमगत्वा अन्यमप्यनानीय प्रेष्यप्रयोगेणैवाभिप्रेतव्यापारसाधनं प्रेष्यप्रयोगः ।
___ अभ्युत्कासिकादिकरणं शब्दानुपातः ।३। व्यापारकरान पुरुषान् उद्दिश्याभ्युत्कासिकादिकरणं शब्दानुपात इति शव्द्यते ।
स्वविग्रहप्ररूपणं रूपानुपातः ।४। मम रूपं निरीक्ष्य व्यापारमचिरान्निष्पादयन्ति इति स्वविग्रहप्ररूपणं रूपानुपात इति निर्णीयते ।
लोष्टादिनिपातः पुद्गलक्षेपः ।। कर्मकरान् पुरुषानुद्दिश्य लोष्टपाषाणनिपात' पुद्गलक्षेप इति कथ्यते । त एते देशविरमणस्य पञ्चातिक्रमाः । कथं पुनरतिक्रम इति ? उच्यते
स्वयमनाकामनन्येनाकामयतीत्यतिक्रमः ।६। यस्मात् स्वयमनतिक्रमन् अन्येनातिक्राम'. यति ततोऽतिक्रम इति व्यपदिश्यते । यदि हि स्वयमतिक्रमेत् व्रतलोप एवास्य स्यात् । कन्दर्पकौत्कुच्यमौखोऽसमीक्ष्याधिकरणोपभोगपरि
भोगानर्थक्यानि॥ ३२ ॥ रागोद्रकात् प्रहासमिश्रोऽशिष्टवाक्प्रयोगः कन्दर्पः ।। चारित्रमोहोदयापादितात् रागोद्रेकात् प्रहाससंयुक्तो योऽशिष्टवाक्प्रयोगः स कन्दर्प इति निर्धियते ।
तदेवोभयं परत्र दुष्टकायकर्मयुक्तं कौन्कुच्यम् ।२। रागस्य समावेशाद्धास्यवचनम् अशिप्रवचनम इत्येतदुभयं परत्र दुष्टेन कायकर्मणा युक्तं कौत्कुच्यमिच्युते ।
धाप्रायमबद्धवहुप्रलापित्वं मौखर्यम् ।३। अशालीनतया यत्किञ्चनानर्थकं बहुप्रलपनं मौखर्यमिति प्रत्येतव्यम।
असमीन्य प्रयोजनमाधिक्येन करणमधिकरणम् ।४। अधिरुपरिभावे वर्तते, करोतिश्चापूर्वप्रादुर्भावे, प्रयोजनमसमीक्ष्य आधिक्येन प्रवर्तनमधिकरणम् ।
तत्त्रेधा कायवाड्मनोविषयभेदात ।तदधिकरणं त्रेधा व्यवतिष्ठते । कुतः? कायवा२५ मनोविषयभेदात् । तत्र मानसं परानर्थककाव्यादिचिन्तनम् , वाग्गतं निष्प्रयोजनकथाख्यानं
परपीडाप्रधानं यत्किञ्चनवक्तृत्वम् , कायिकं च प्रयोजनमन्तरेण गच्छस्तिष्ठन्नासीनो वा सचित्तेतरपत्रपुष्पफलछेदनभेदनकुट्टनक्षेपणादीनि कुर्यात् । अग्निविषक्षारादिप्रदानं चारभेत इत्येवमादि, तत्सर्वमसमीक्ष्याधिकरणम ।
. यावताऽर्थेनोपभोगपरिभोगो सोऽर्थः, ततोऽन्यस्याधिक्यमानर्थक्यम् ।६। यस्य यावताऽ३० र्थेन उपभोगपरिभोगौ प्रकल्प्येते तस्य तावानर्थ इत्युच्यते, ततोऽन्यस्याधिक्यमानर्थक्यं भवति ।
उपभोगपरिभोगव्रतेऽन्तर्भावात् पौनरुक्त्यप्रसङ्ग इति चेत् ; नः तदर्थानवधारणात् ७ स्यादेतत्-उपभोगपरिभोगव्रतेऽन्तर्भवतीति पौनरुक्त्यमासज्यत इति; तन्न; किं कारणम् ? तदर्थानवधारणात् । इच्छावशात् उपभोगपरिभोगपरिमाणावग्रहः सावद्यप्रत्याख्यानं चेति तदुक्तम् ,
१ आप्तमान-द। अन्यमान-मु०, ब० । २-यति मु०, मू०। ३-नाकामय-ता०, श्र०। निीयते मु०। ५ परशरीरादौ । ६ चारभ्येत्येव द.। चारभेत्येव-मू०, ता०, श्र० ।