________________
५५१
सप्तमोऽध्यायः
७२२ ]
स्वघातो भवति । न तथा सल्लेखनां प्रतिपन्नस्य रागादयः सन्ति ततो नात्मवधदोषसंस्पर्शः ।
उक्तश्च
"रागादीणमणुप्पा अहिंसकत्तेति देसिदं समये ।
तेसिं चेदुप्पत्ती हिंसेति जिणेहि णिडिठ्ठा ॥ १ ॥” [ ]
किन,
मरणस्याऽनिष्टत्वात् ।८। यथा वणिजः विविधपण्यदानादानसंचयपरस्य गृहविनाशोऽनिष्टः तद्विनाशकारणे चोपस्थिते यथाशक्ति परिहरति दुष्परिहरे च पण्याविनाशो यथा भवति तथा यतते । एवं गृहस्थोऽपि व्रतशीलपुण्यसंचयप्रवर्तमानस्तदाश्रयस्य शरीरस्य न पातमभिवाञ्छति, तदुपप्लवकारणे चोपस्थिते स्वगुणाऽविरोधेन परिहरति, दुष्परिहरे च यथा स्वगुणविनाशो न भवति तथा प्रयतत इति कथमात्मवधो भवेत् ? किच,
१०
उभयानभिसन्धानात् । । यथा तपस्थः शीतोष्णजसुखदुःखानभिसन्धानात् अनभिसंहितसुखदुःखसंबन्धेऽपि सुखदुःखकृतरागद्वेषाभावात् न सुखदुःखकृतकर्मबन्धभाक् तथा अर्हत्यतां सल्लेखनां कुर्वन् जीवितमरणानभिसन्धानात् अनभिसंहितात्मीयमरणसंबन्धेऽपि रागद्वेषाभावात् नात्मवधकः । किञ्च,
स्वसमयविरोधात् | १०| यथा क्षणिकवादिन: 'क्षणिकाः सर्वे भावा:' इति ब्रुवतः स्वसम- १५ यविरोधस्तथा 'यदा सत्त्वश्च भवति सत्त्वसंज्ञा च भवति वधकश्च भवति वधचित्तं चास्योत्पन्नं भवति इत्येतां चतुर्विधां चेतनां प्राप्य हिंसा जयते' इति ब्रुवतोऽसत्यात्मवधकत्वचित्ते सल्लेखनां कुर्वतः आत्मवधकत्वं जायत इत्याचक्षाणस्यासंचेतितकर्मबन्धाभावः समयविरोधः । अथ स्वसमयविरोधो माभूदिति चतुर्विधयैव चेतनया कर्म बध्यते इतीष्टम् ; ननु सल्लेखनायाम् आत्मवधकचित्ताभावात् आत्माऽहिंसकत्वं सिद्धम् । अथवा, यथा सदा मौनव्रतिकस्य मौनव्रतिकोऽ- २० स्मीति वचनं स्ववचसा विरुध्यते, तथा सर्वानात्मकवादिनः आत्माभावादात्मनो वधकत्वमाचचाणस्य सर्वानात्मकार्य सत्यवचनविरोधः । अथ स्वसमयविराधो माक्लृपदिति सर्वानात्मकमिष्टम् ; नन्वात्माभावात् आत्मवधाभावः ।
aisi ब्रूयात् निःक्रिय आत्मेति, तस्य पुनः साधुजनसेवितां सल्लेखनामातिष्ठमानस्यात्मवधकत्वं भवतीत्यभिलपतः आत्मनो निष्क्रियत्वप्रतिज्ञाहानिः । निष्क्रियत्वाभ्युपगमे चात्मव- २५ धप्राप्त्युपालम्भनाभावः ।
आह-कदा अनेन सल्लेखनायां प्रयतितव्यमिति ? अत्रोच्यते
जरारोगेन्द्रियहानिभिरावश्यकपरिक्षये | ११ | जरसा शरीरदूषिण्या यदा प्रहतजङ्घाबलवीर्यो भवति रोगैश्च वातादिविकारजनितैरभिद्रुतः प्रक्षीणेन्द्रियबलश्च भवति तदा आवश्यकपरिक्षयमपेक्षमाणः स्मृतिमान् प्रासुकाशनपानकोपवाससेवनादिना क्रमेण प्रक्षीयमाणशरीरबलः ३० आमरणाद्भावनानुप्रेक्षासमाधिबहुलः शास्त्रोक्तेन विधिना सल्लेखनां जोषिता उत्तमार्थस्याराधको
भवति ।
एकयोगकरणं ज्याय इति चेत्; न; कदाचित् कस्यचित्तां प्रत्याभिमुख्यज्ञापनार्थत्वात् |१२| स्यादेतत्-पूर्वसूत्रेण सह एक एव योगः कर्तव्यः लघ्वर्थ इति; तन्नः किं कारणम् ? कदाचित् कस्यचित् तां प्रत्याभिमुख्यज्ञापनार्थत्वात् । सप्ततयशीलवतः कदाचित् कस्यचिदेव गृहिणः ३५ सल्लेखनाभिमुख्यं न सर्वस्येति । किश्न,
१–सम्बन्धे रा-मु०, द०, ब० । २-सत्वत्र - मु०, ब० । ३ सर्वात्मक - मु०, द०, ब० । ४ नैयाबिकः- सम्पा० । ५-लषतः - मु० । ६ न्याय्यमिति मु०, ब० ।