________________
[ ७२२
भोगपरिसंख्यानं पञ्चविधं प्रसघातप्रमादबहुवधानिष्टानुपसेव्यविषयभेदात् ॥२७॥ भोगपरिसंख्यानं पञ्चविधं प्रत्येतव्यम् । कुतः ? त्रसघातप्रमादबहुवधा निष्टानुपसेव्यविषयभेदात् । तत्र मधु मांसं सदा परिहर्तव्यं त्रसघातं प्रति निवृत्तचेतसा । मद्यमुपसेव्यमानं कार्याकार्यविवेकसंमोहकरमिति तद्वर्जनं प्रमादविरहायानुष्ठेयम् । केतक्यर्जुनपुष्पादीनि बहुजन्तुयोनिस्थानानि ५ शृङ्गवेरमूलकार्द्रहरिद्रा निम्बकुसुमादीन्यनन्तकायव्यपदेशार्हाणि, एतेषामुपसेवने बहुधातोऽल्पफल - मिति तत्परिहारः श्रेयान् । यानवाहनाभरणादिषु एतावदेवेष्टमतोऽन्यदनिष्टमित्यनिष्टान्निवर्तनं कर्तव्यम् । न हि असत्यभिसन्धिनियमे व्रतमिति । इष्टानामपि चित्रवस्त्रविकृतवेषाभरणादीनामनुपसेव्यानां परित्यागः कार्यः यावज्जीवम् । अथ न शक्तिरस्ति कालपरिच्छेदेन वस्तुपरिमान च शक्त्यनुरूपं निवर्तनं कार्यम् ।
५५०
तत्त्वार्थवार्तिके
१०
अतिथिसंविभागश्चतुर्विधो भिक्षोपकरणौषधप्रतिश्रयभेदात् |२८| अतिथिसंविभागश्चतुर्धा भिद्यते । कुतः ? भिक्षोपकरणौषधप्रतिश्रयभेदात् । मोक्षार्थमभ्युद्यतायातिथये संयमपरायणाय शुद्धाय शुद्धचेतसा निरवद्या भिक्षा देया, धर्मोपकरणानि च सम्यग्दर्शनज्ञानचारित्रोपबृंहणानि दातव्यानि, 'औषधमपि योग्यमुपयोजनीयम्, प्रतिश्रयश्च परमधर्मश्रद्धया प्रतिपादयितव्य इति ।
१५
चशब्दो वक्ष्यमाणगृहस्थधर्मसमुच्चयार्थः । कः पुनरसौ ?
३०
मारणान्तिकीं सल्लेखनां जोषिता ।। २२ ।।
स्वायुरिन्द्रियबलसंक्षयो मरणम् | १| स्वपरिणामोपात्तस्यायुषः इन्द्रियाणां बलानां च कारणवशात् संक्षयो मरणमिति मन्यन्ते मनीषिणः ।
अन्तग्रहणं तद्भव मरणप्रतिपत्त्यर्थम् |२| मरणं द्विविधम्- नित्यमरणं तद्भवमरणं चेति । २० तत्र नित्यमरणं समये समये स्वायुरादीनां निवृत्तिः । तद्भवमरणं भवान्तरप्राप्त्यनन्तरोप श्लिष्टं पूर्वभवविगमनम् । तत्रान्तग्रहणं कियते तद्भवमरणपरिग्रहार्थम् । मरणमन्तो मरणान्तः, मरणान्तः प्रयोजनमस्या इति मारणान्तिकी ।
सम्यक्कायकषाय लेखना सल्लेखना | ३| लिखेर्ण्यन्तस्य लेखना तनूकरणमिति यावत् । कायस्य बाह्यस्य अभ्यन्तराणां च कषायाणां तत्कारणहापनया क्रमेण सम्यक् लेखना सल्लेखना, २५ तां मारणान्तिकीं सल्लेखनां जोषिता सेविता गृहीत्यभिसम्बन्धः ।
सेविताग्रहणं विस्पष्टार्थमिति चेत्; न; अर्थविशेषोपत्तेः ॥४। स्यान्मतम् - इह सेवितेत्येव विस्पष्टार्थं वक्तव्यमिति; तन्न; किं कारणम् ? अर्थविशेषोपपत्तेः । न केवलमिह सेवनं गृह्यते । किं तर्हि ? प्रीत्यर्थोऽपि, जुषि प्रीतिसेवनयोरिति । यस्मात् असत्यां प्रीतौ बलान्न सल्लेखना कार्यते, सत्यां हि प्रीतौ स्वयमेव करोति ।
सल्लेखनाया जोवितेति प्राप्नोतीति चेत्; न; तृनः प्रयोगात् । ५ स्यान्मतम् - यथा कटस्य कर्तेति विभक्तिनिर्देशः तथा सल्लेखनाया जोषितेति प्राप्नोतीति; तन्न; किं कारणम्' नः प्रयोगात् ।
?
आत्मवधकत्वप्रसङ्ग इति चेत्; न; अप्रमत्तत्वात् | ६ | स्यान्मतम् - सल्लेखनामास्थितस्य स्वाभिसन्धिपूर्वकायुरादिनिवृत्तेरात्मवधः प्राप्नोतीति ? तन्न; किं कारणम् ? अप्रमत्तत्वात् । ३५ प्रमत्तयोगाद्धि प्राणव्यपरोपणं हिंसेत्युक्तम् । न चास्य प्रमादयोगोऽस्ति । कुतः ?
रागाद्यभावात् |७| रागद्वेषमोहाविष्टस्य हि विषशस्त्राद्युपकरणप्रयोगवशात् आत्मानं घ्नतः १ औषधं प्रायोग्यं - मु०, द०, ब० । २-युत्तरकारणप्र- मु०, द० ब० ।