________________
५४९
७१२१ ]
सप्तमोऽध्यायः - तथैव देशनिवृत्तिः ।२०। यथा दिनिवृत्तिः कृता तथैव देशनिवृत्तिः कार्या । मदीयस्य गृहान्तरस्य तटाकस्य वा मध्यं मुक्त्वा देशान्तरं नास्कन्त्स्यामि इति तन्निवृत्तौ पूर्ववत् प्रयोजनं वेदितव्यम् । महाव्रतत्वं च बहिर्व्यवस्थाप्यम् । अयमनयोर्विशेषः-दिगविरतिः सार्वकालिकी देशविरतियथाशक्ति कालनियमेनेति ।।
अनर्थटण्डः पधा अपध्यान-पापोपदेश-प्रमादाचरित-हिंसाप्रदाना-शुभशतिभेदात् ॥२१॥ अनर्थदण्डः पञ्चधा भिद्यते । कुतः ? अपध्यान-पापोपदेश-प्रमादाचरित-हिंसाप्रदाना-ऽशुभश्रुतिभेदात् । तत्र परेषां जयपराजयवधबन्धाङ्गच्छेदस्वहरणादि कथं स्यादिति मनसा चिन्तनमपध्यानम् । शतिर्यग्वणिज्यावधकारम्भादिषु पापसंयुतं वचनं पापोपदेशः। तद्यथा अस्मिन् देशे दासा दास्यश्च सुलभास्तानमुं देशं नीत्वा विक्रये कृते महानर्थलाभो भवतीति केशवणिज्या । गोमहिष्यादीन अमुत्र गृहीत्वा अन्यत्र देशे व्यवहारे कृते भूरिवित्तलाभ इति तिर्यग्वणिज्या। वागुरिकसौकरि-१० कशाकुनिकादिभ्यो मृगवराहशकुन्तप्रभृतयोऽमुस्मिन् देशे सन्तीति वचनं वधकोपदेशः। आरम्भकेभ्यः कृषीवलादिभ्यः क्षित्युदकज्वलनपवनवनस्पत्यारम्भोऽनेनोपायेन कर्तव्यः इत्याख्यानमारम्भकोपदेशः । इत्येवं प्रकारं पापसंयुक्तं वचनं पापोपदेशः ।
प्रयोजनमन्तरेणापि वृक्षादिच्छेदनभूमिकुट्टनसलिलसेचनाद्यवद्यकर्म प्रमादाचरितमिति कथ्यते ।
विषशस्त्राग्निरज्जुकशादण्डादिहिंसोपकरणप्रदानं हिंसाप्रदानमित्युच्यते ।
हिंसारागादिप्रवर्धितदुष्टकथाश्रवणशिक्षणव्यापृतिरशुभश्रुतिरित्याख्यायते । एतस्मादनर्थदण्डाद्विरतिः कार्या।
___ मध्येऽनर्थदण्डग्रहणं पूर्वोत्तरातिरेकानर्थक्यशापनार्थम् ।२२। पूर्वयोः दिग्देशयोरुत्तरयोश्चोपभोगपरिभोगयोरवधृतपरिमाणयोरनर्थकं चक्रमणादि विषयोपसेवनं च निष्प्रयोजनं २० न कर्तव्यमित्यतिरेकनिवृत्तिज्ञापनार्थ मध्येऽनर्थदण्डवचनं क्रियते ।
सामायिक नियतदेशकाले महाव्रतत्वं पूर्ववत् ।२३। इयति देशे एतावति काल इत्यवधारिते सामायिके स्थितस्य महाव्रतत्वं पूर्ववद्वेदितव्यम् , अणुस्थूलकृतहिंसादिनिवृत्तेः।।
संयमप्रसङ्ग इति चेत् ; न तद्धातिकोदयात् ।२४। स्यान्मतम्-सामायिके सर्वसावद्यनिवृत्तिलक्षणे स्थितस्य तस्य संयमः प्राप्नोतीति; तन्नः किं कारणम् ? तद्धातिकर्मोदयात् । तस्य हि २५ संयमघातिकर्मोदयोऽस्तीति न संयतत्वम् ।
महाव्रतत्वाभाव इति चेत् । न उपचारात् , राजकुले सर्वगतचैत्रवत् ।२५। यद्यभ्यन्तरसंयमघातिकर्मोदयोऽस्ति तदुदयेनावश्यमनिवृत्तपरिणामेन भवितव्यं ततश्च महाव्रतत्वमस्य नोपपद्यत इति मतम् । तन्नः किं कारणम् ? उपचारात् , राजकुले सर्वगतचैत्रवत् । यथा पौरजनपदकोष्ठागारादिषु बाह्येषु व्यापारेषु सर्वेषु व्यापृतः स्नानानुलेपनशयनान्तःपुरादिव्यापारेषु ३० अभ्यन्तरेषु केषुचित् व्यापृति'मननुगच्छन्नपि राजकुले सर्वगतश्चैत्र इत्युपचर्यते, तथा हिंसादिषु
ष अनासक्तधिषणः अभ्यन्तरसंयमघातिकर्मोदयापादितमन्दाविरतिपरिणामे सत्यपि महाव्रत इत्युपचर्यते । एवं च कृत्वा अभव्यस्यापि निर्ग्रन्थलिङ्गधारिणः 'एकादशाङ्गाध्यायिनो महाव्रतपरिपालना देशसंयतसंयतभावस्यापि उपरिवेयकविमानवासितोपपना भवति ।
स्नानगन्धमाल्यादिविरहितोऽवकाशे शुचावुपवसेत् ।२६। स्वशरीरसंस्कारकारणस्नान- ३५ गन्धमाल्याभरणादिभिर्विरहितः शुचौ अवकाशे साधुनिवासे चैत्यालये स्वप्रोषधोपवासगृहे वा धर्मकथाश्रवणश्रावणचिन्तनावहितान्तःकरणः सन्नुपवसेत् निरारम्भः श्रावकः ।
१-तिमनुग-श्र० । २-व्यापिनो मु०, ब०, २० ।