________________
५४८ तत्त्वार्थषार्तिके
[७१२१ मनर्थकमिति; तन्नः किं कारणम् ? उपसर्जनानभिसंबन्धात् । तदनुवर्तमानं विरतिग्रहणं दिग्देशानर्थदण्डग्रहणेन उपसर्जनेन नाभिसम्बध्यते, ततः पुनर्विरतिग्रहणं क्रियते ।
एकत्वेन गमनं समयः ।७। समेकीभावे वर्तते, तद्यथा 'संगतं घृतं संगतं तैलम्' इत्युक्ते एकीभूतमिति गम्यते । एकत्वेन गमनं समयः । प्रतिनियतकायवाङ्मनस्कर्मपर्यायार्थ प्रतिनिवृत्त५ त्वादात्मनो द्रव्यार्थेनैकत्वगमनमित्यर्थः। समय एव सामायिकम् , समयः प्रयोजनमस्येति वा सामायिकम् ।
उपेत्य तस्मिन् वसन्तीन्द्रियाणि इत्युपवासः ।। शब्दादिग्रहणं प्रति निवृत्तौत्सुक्यानि पश्चापीन्द्रियाणि उपेत्य तस्मिन् वसन्तीत्युपवासः। अशनपानभक्ष्यलेह्यलक्षणचतुर्विधाहारपरि
त्याग इत्यर्थः। प्रोषधशब्दः पर्वपर्यायवाची। प्रोषधे उपवासः प्रोषधोपवासः। साधनं कृतेति१० वृत्तिः, संज्ञायामिति वा।
__उपेत्य भुज्यते इत्युपभोगः ।।। उपेत्यात्मसात्कृत्य भुज्यते अनुभूयत इत्युपभोगः । अशनपानगन्धमाल्यादिः।
परित्यज्य भुज्यत इति परिमोगः ।१०। सकृद् भुक्त्वा परित्यज्य पुनरपि भुज्यते इति परिभोग इत्युच्यते । आच्छादनप्रावरणालङ्कारशयनासनगृहयानवाहनादिः। उपभोगश्च परि१५ भोगश्च उपभोगपरिभोगौ, उपभोगपरिभोगयोः परिमाणम् उपभोगपरिभोगपरिमाणम् ।।
संयममविनाशयन्नततीत्यतिथिः ।११। चारित्रलाभबलोपेतत्वात् संयममविनाशयन् अततीत्यतिथिः। अथवा नास्य तिथिरस्ति इत्यतिथिः, अनियतकालागमन इत्यर्थः।
संविभजनं संविभागः ।१२। अतिथये संविभागः अतिथिसंविभागः। अश्वघासादिवद् वृत्तिः । २० . बतप्रहणमनर्थकमिति चेत् ; उक्तम् ॥१३॥ व्रतमित्यनुवर्तते, पुनव्रतग्रहणमनर्थकमिति चेत् ; उक्तम् ; किमुक्तम् ? उपसर्जनानभिसंबन्धादिति ।
व्रतसंपन्नशब्दः प्रत्येकमभिसंबध्यते ।१४। दिग्विरतिव्रतसंपन्नः देशविरतिव्रतसंपन्न इत्यादि । अथ किमर्था दिनिवृत्तिः ?
दुष्परिहरक्षुद्रजन्तुप्रायत्वाहिनिवृत्तिः।१॥ दुष्परिहरैः क्षुद्रजन्तुभिराकुला दिश अत२५ स्वनिवृत्तिः कर्तव्या।
तत्परिमाणं च योजनादिभिरभिमानवद्भिः ॥१६॥ तासां परिमाणं योजनादिभिः पर्व तादिप्रसिद्धाभिज्ञानैः कर्तव्यम् ।
अगमनेऽपि प्राणिवधाभ्यनुज्ञानमिति चेत्, न; निवृत्त्यर्थत्वात् ।१७। स्यान्मतम्-दिक्परिमाणकरणात् अगमनेऽपि तदन्तरावस्थितप्राणिगणवधाभ्यनुज्ञानं प्रसक्तम, अन्यथा वा दिक३० परिमाणमनर्थकमिति; तन्नः किं कारणम् ? निवृत्त्यर्थत्वात् । कात्न्येन निवृत्तिं कर्तुमशक्नुवतः
शक्त्या प्राणिवधविरतिं प्रत्यागूर्णस्यात्र प्राणयात्रा भवतु वा मा वा भूत् । सत्यपि प्रयोजनभूयस्त्वे परिमितदिगवधेहि स्कन्स्यामिति प्रणिधानान्न दोषः।
तृष्णाप्राकाम्यनिरोधतन्त्रत्वाच ।१८। प्रवृद्धेच्छस्य आत्मनस्तस्यां दिशि विना यत्नात् मणिरत्नादिलाभोऽस्तीत्येवम् अन्येन प्रोत्साहितस्यापि मणिरत्नादिसम्प्राप्तितृष्णाप्राकाम्यनिरोधः 31 कथं तन्त्रितो भवेदिति दिगविरतिः श्रेयसी ।
ततो बहिर्महाबतप्रसिद्धिः ।१६। अहिंसाधणुव्रतधारिणोऽप्यस्य परिमितादिगवधेबहिर्मनोवाक्काययोगैः कृतकारितानुमतविकल्पैः हिंसादिसर्वसावधनिवृत्तिरिति महाव्रतत्वमवसेयम् ।