________________
७।२०-२१ ]
सप्तमोऽध्यायः
अत्राह-हिंसादीनामन्यतमस्मात् यः प्रतिनिवृत्तः स खल्वगारी व्रती नैवम् ; किं तर्हि ? पञ्चतय्या अपि विरतेर्वैकल्येन विवक्षित इति, उच्यते
___ अणुव्रतोऽगारी ॥ २०॥ अणुशब्दः सूक्ष्मवचनो द्रष्टव्यः । अणूनि व्रतानि अस्य सोऽणुव्रतः। कथमणुत्वमिति चेत् ? उच्यते-सर्वसावधनिवृत्त्यसंभवात् । कुतस्तर्हि असौ निवृत्तः ?
द्वीन्द्रियादिव्यपरोपणानिवृत्तः ।। द्वीन्द्रियादीनां जङ्गमानां प्राणिनां व्यपरोपणात् त्रिधा निवृत्तः अगारीत्याद्यमणुव्रतम् ।
स्नेहद्वेषमोहावेशात् असत्याभिधानवर्जनप्रवणः ।। स्नेहस्य द्वेषस्य मोहस्य चोद्रेकात् यदसत्याभिधानं ततो निवृत्तादरो गृहीति द्वितीयमणुव्रतम् ।
अन्यपीडाकरात् पार्थिवभयाधुत्पादितनिमित्तादप्यदत्तात् प्रतिनिवृत्तः ।३। अन्यपी- १० डाकरपार्थिवभयादिवशावश्यं परित्यक्तमपि यददत्तं ततः प्रतिनिवृत्तादरः श्रावक इति तृतीयमणुब्रतम् ।
उपात्ताऽनुपात्तान्याङ्गनासङ्गाद्विरतरतिः४। उपात्ताया अनुपात्तायाश्च अन्याङ्गनायाः सङ्गाद्विरतरतिः विरताविरत इति चतुर्थमणुव्रतम् ।
परिच्छिन्नधनधान्यक्षेत्राद्यवधिही ।। धनधान्यक्षेत्रादीनाम् इच्छावशात् कृतपरिच्छेदः १५ गृहीति पञ्चममणुव्रतम् ।
_आह-किं स्थवीयसी विरतिमभ्युपगतस्य श्रावकरय किमेतावानेत्र विशेषः आहोस्विदस्ति कश्चिदन्योऽपीति ? अत्रोच्यतेदिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागवतसम्पन्नश्च ॥ २१ ॥
२० आकाशप्रदेशश्रेणी दिक् ।१। आकाशस्य प्रदेशाः परमाणुपरिच्छेदात् प्रविभक्ताः श्रेणीकृता दिव्यपदेशमर्हन्ति ।
आदित्यादिगतिविभक्तस्तद्भेदः ।२। आदित्यादिगत्योदयास्तमयपरिच्छिन्नया विभक्तस्तद्भेदः-प्राची दिगु दक्षिणा प्रतीची उत्तरा ऊर्ध्वमधो विदिशश्चेति ।
ग्रामादीनाम् अवधृतपरिमाणः प्रदेशो देशः ।३। ग्रामनगरगृहापवरकादीनामवधृतपरि- २५ माणानां प्रदेशो देश इत्युच्यते ।
उपकारात्यये पापादाननिमित्तमनर्थदण्डः।४। असत्युपकारे पापादानहेतुः अनर्थदण्ड इत्यवध्रियते । विरमणं विरतिः निवृत्तिरिति यावत् । दिग्देशानर्थदण्डेभ्यो विरतिः दिग्देशानर्थदण्डविरतिः । साधनं कृतेति वृत्तिः ।
विरतिशब्दः प्रत्येक परिसमाप्यते ।शदिग्विरतिः देशविरतिरनर्थदण्डविरतिरिति ।
विरत्यग्रहणमधिकारादिति चेत्न; उपसर्जनानभिसंबन्धात् ।६। स्यादेतत्-"हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम्" [11] इत्यतः विरतिग्रहणमनुवर्तते, ततः पुनरिह विरतिग्रहण
१-करं पा-मु०, मू०, ता०, श्र०। २-दवशप-द०, मू०। -दवश्यप-ता०, श्र०। ३इति व्यवहियते मु०, द०, ब०।