________________
५
तत्त्वार्थवार्तिके
[ ७१६
विरोधाद्विशेषणानुपपत्तिः | ४ | निःशल्यत्वं प्रतित्वमित्येतदुभयं विरुद्धम्, ततो न निःशल्यत्वाद् व्रती भवितुमर्हति । न हि दण्डसंबन्धाच्छत्री स्यात्, तस्मात् व्रताभिसंबन्धादेव व्रतीति वक्तव्यम्, शल्याभावाश्च निःशल्य इति ।
५४६
आनर्थक्यं च, अन्यतरेण गतार्थत्वात् ॥५॥ यदि व्रतित्वान्निः शल्यः, तस्मात् व्रतीत्येतान निःशल्य इति । यदि च निःशल्यत्वात् व्रती, तस्मान्निःशल्य इत्येतावद्वाच्यम्, न
३०
वद्वाच्यम्” व्रतीति ।
विकल्प इति चेत्; नः फलविशेषाभावात् | ६| स्यादेतत् - विकल्पोऽत्र गृह्यते निशल्यो वा व्रती वा इति, ततो न विशेषणविशेष्यसंबन्धाऽभावो दोष इति; तन्न; किं कारणम् ? फलविशेषाभावात् । फलविशेषवतां हि लोके विकल्पो दृष्टः, यथा देवदत्तं घृतेन वा सूपेन वा दध्ना वा भोज१० येत् इति, न तथेह फलविशेषोऽस्ति निःशल्यो वा व्रती वेति उभयविशेषणविशिष्टस्यैकस्येष्टत्वात् । नवा, अङ्गाङ्गिभावस्य विवक्षितत्वात् ॥७॥ न वा एष दोषः, किं कारणम् ? अङ्गाङ्गिभावस्य विवक्षितत्वात् । न हिंसाद्युपर तिमात्रत्रतसंबन्धात् व्रती भवति अन्तरेण शल्याभावम्, सति शल्यापगमे व्रतसंबन्धात् व्रतीति विवक्षितः । यथा बहुक्षीरघृतो 'गोमान' इति व्यपदिश्यते, बहुक्षीरघृताभावात् सतीष्वपि गोषु न गोमान् तथा सशल्यत्वात् सत्स्वपि व्रतेषु न व्रती, यस्तु १५ निःशल्यः स व्रती । 'तत्रैतत् स्यात् कथमेतदेवं भविष्यतीति ? उच्यते
प्रधाननुविधानात् अप्रधानस्य । यथा तीक्ष्णेन परशुना छिनत्तीति तीक्ष्णगुणविशिष्टपरशुरप्रधानभूतः छेत्तुः प्रधानस्योपकारे वर्तते तथा निःशल्यत्वगुणविशिष्टानि व्रतानि गुणभूतानि तद्वतः प्रधानस्य विशेषकाणि ।
आह- किमेष व्रती व्यपगतशल्यत्रयो हिंसाद्यभावात् यथोक्तक्रियासमूह विजृम्भितपरि२० णामः परिग्रहनिरपेक्षः सर्व एव अगारसंबन्धं प्रति निवृत्तौत्सुक्यः प्रतिज्ञायते उत विरतोऽपि कश्चित् गृही निश्चीयत इति ? अत्रोच्यते-अमीषामेव हिंसादीनां विरतिविशेषस्य भेदात् अधिकृतो व्रती द्वेधा
अगार्यनगारश्च ॥ १९ ॥
प्रतिश्रयार्थितया अङ्गनादगारम् |१| प्रतिश्रयार्थिभिः जनैरङ्ग्यते गम्यते तदित्यगारं वेश्म २५ इत्यर्थः । अगारमस्यास्तीत्यगारी, न विद्यते अगारमस्येत्यनगारः ।
"
अनियमप्रसङ्ग इति चेत्; न; भावागारस्य विवक्षितत्वात् |२| स्यान्मतम् - शून्यागारदेवकुलाद्यावासस्य मुनेरगारित्वं प्राप्तम् अनिवृत्तविषयतृष्णस्य कुतश्चित्कारणात् विमुच्यागारं वने वसतः अनगारत्वं चेत्यनियमप्रसङ्ग इति; तन्नः किं कारणम् ? भावागारस्य विवक्षितत्वात् । चारिमोहोदये सति अगारसंबन्धं प्रत्यनिवृत्त परिणामः अगारमित्युच्यते, स यस्यास्त्यसौ वने वसन्नपि अगारीति व्यपदेशमर्हति । तदभावादनगार इति च भवति ।
"व्रतिकारणासाकल्यात् गृहस्थस्याप्रतित्वमिति चेत्; न; नैगमसंग्रहव्यवहार व्यापारात् नगरावासवत् |३| यथा गृहापवरकादिनगरैकदेशे निवास्यपि नगरावास इति शब्द्यते, तथा असक्रलव्रतोऽपि नैगमसंग्रह व्यवहारनयविवक्षापेक्षया व्रतीति व्यपदिश्यते ।
राजवद्वा । यथा द्वात्रिंशज्जनपदसहस्राधिपतिः सार्वभौम राजेति एकजनपदपतिः ३५ तदर्धेश्वरो वा न राजा न भवति ? भवत्येव, तथा अष्टादशशील सहस्रचतुरशीतिगुणशतसहस्रस्वादनगारः संपूर्णत्रत इति संयतासंयतोऽणुव्रतधरत्वात् न व्रतीति न भवति ? भवत्येव ।
१ सूत्रे । २ उक्तार्थे । ३ निःशल्यो व्रतीति । ४ निःशल्यस्य । ५ व्रतिनः । ६ चक्रवर्ती ।