________________
१८]
सप्तमोऽध्यायः चेतनानाम् अभ्यन्तराणां च रागादीनामुपधीनां संरक्षणार्जनसंस्कारादिलक्षणव्यापृतिः मूछेति कथ्यते।
वातपित्तश्लेष्मविकारप्रसङ्ग इति चेत् ; न; विशेषितत्वात् ।२। स्यान्मतम्-वातपित्तश्लेष्मणामन्यतमस्य दोषस्य प्रकोपात् उपजायमानो विकारो मूछेति; तन्नः किं कारणम् ? विशेषितत्वात् । मूछिरयं मोहसामान्ये वर्तमानः बाह्याभ्यन्तरोपधिसंरक्षणादिविषयः परिगृहीत इति ५ विशेषितत्वात् इष्टार्थसंप्रत्ययो भवति । सामान्यचोदनाश्च विशेषेष्ववतिष्ठन्त इति ।
बाह्यस्याऽप्रसङ्ग इति चेत् ; न; आध्यात्मिकप्रधानत्वात् ।। स्यादेतत्-मू त्यनेन आध्यात्मिकः परिग्रहः परिगृह्यते, तेन बाह्यस्य परिग्रहत्वं न प्राप्नोतीति; तन्नः किं कारणम् ? आध्यात्मिकप्रधानत्वात् । ममेदमिति संकल्पः आध्यात्मिकः परिग्रहः, स प्रधानभूत इति तस्योपादानं क्रियते, तस्मिन संगृहीते तत्कारणस्याप्यनुषङ्गण' प्रतीतेः। अथ यदा बाह्यः प्राधान्येन इष्यते कथं १० तस्य संग्रहः ?
मूर्छाकारणत्वात् बाह्यस्य मूर्छाव्यपदेशः ।४। यथा अन्नं वै प्राणा इति प्राणकारणे अन्ने प्राणोपचारः, तथा मूर्छाकारणत्वात् बाह्यः परिग्रहो मूछेति व्यवहियते ।
शानदर्शनचारित्रेषु सङ्गः परिग्रहः इति चेत् ; न प्रमत्तयोगाधिकारात् ।। स्यान्मतम्यथा आध्यात्मिकेऽपि रागादावात्मपरिणामे सङ्गः परिग्रह इत्युच्यते, ज्ञानदर्शनचरित्रेष्वपि ममेति १५ संकल्पः परिग्रहः प्राप्नोतीति; तन्नः किं कारणम् ? प्रमत्तयोगाधिकारात् । ततः ज्ञानदर्शनचारित्रवतोऽप्रमत्तस्य मोहाभावात् न मूर्छास्ति इति निष्परिग्रहत्वं सिद्धम् । किश्व, तेषां ज्ञानादीनामहेयत्वात् आत्मस्वभावानतिवृत्तेरपरिग्रहत्वम्। रागादयः पुनः कर्मोदयतन्त्रा इत्यनात्मस्वभावत्वाद्धेयाः, ततस्तेषु संकल्पः परिग्रह इति युज्यते ।
तन्मूलाः सर्वदोषानुषङ्गाः ।६। सः परिग्रहो मूलमेषां ते तन्मूलाः । के पुनस्ते' ? सर्वे दोषा- २० नुषङ्गाः ? ममेदमिति हि सति संकल्पे रक्षणादयः सञ्जायन्ते । तत्र च हिंसाऽवश्यंभाविनी, तदर्थमनृतं जल्पति, चौय चाचरति, मैथुने च कर्मणि प्रतियतते, तत्प्रभवा नरकादिषु दुःखप्रकाराः, इहापि अनुपरतव्यसनमहाणेवावगाहनम् ।
एवममूभिर्भावनाभिः स्थिरीकृतचेतसोऽपायावद्यदर्शिनो विचक्षणस्य सर्वसंसारिक्रियाकलापात् दुःखबुद्धथा निरुत्सुकीकृतविषयकुतूहलस्य मैत्रीप्रमोदकारुण्यमाध्यस्थ्यप्रणिधानापादित- २५
स्य जन्ममरणपरिखेदितमतेरवलोकितशरीरस्वभावस्य मोक्ष प्रत्यवहितस्य यस्य सन्ति व्रतानि स भवति
निःशल्यो व्रती ॥ १८ ॥ अनेकधा प्राणिगणशरणाच्छल्यम् ।। विविधवेदनाशलाकाभिः प्राणिगणं शृणाति हिनस्ति इति शल्यम् ।
३० " आवाधकत्वादुपचारसिद्धिः ।। यथा शरीरानुप्रवेशात् काण्डादिप्रहरणं शरीरिणो बाधाकरं शल्यं तथा कर्मोदयविकारोऽपि शारीरमानसबाधाहेतुत्वात् शल्यमिव शल्यमित्युपचर्यते ।
तत्त्रिविधं मायानिदानमिथ्यादर्शनभेदात् ।३। तदेतच्छल्यं त्रिविधं वेदितव्यम् । कुतः? मायानिदानमिय्यादर्शनभेदात् । माया निकृतिर्वश्चनेत्यनान्तरम् , विषयभोगाकाङ्क्षा निदानम्, मिथ्यादर्शनमतत्त्वश्रद्धानम् । एतस्मात्रिविधाच्छल्यानिष्कान्तो निःशल्यो व्रतीत्युच्यते । ३५ अत्र कश्रिदाह
: : गौणेन । २ सर्वदोषा-मु०, २०, ५० । ३ तथा सति। " विरक्तस्प ।