________________
५५२ तत्त्वार्थवार्तिके
[७२३-२४ वेश्मापरित्यागिनस्तदुपदेशात् ।१३। वेश्मापरित्यागिनः दिगविरत्यादिसप्ततयशीलोपदेशः । वेश्मपरित्यागेन तु श्रावकत्वेनैव गृहिणः सल्लेखनेत्येवमर्थो भेदेनोपदेशः ।
__ अविशेषविधिप्रतिपादनार्थत्वाद्वा ।१४। अयं सल्लेखनाविधिः न श्रावकस्यैव दिग्विरत्यादिशीलवतः। किं तर्हि ? संयतस्यापीति अविशेषज्ञापनार्थत्वाद्वा पृथगुपदेशः कृतः । ___अत्राह-उक्तं भवता निःशल्यो व्रतीति, तत्र चोक्तानि शल्यानि मायानिदानमिथ्यादर्शनसंज्ञकानि । ततः सम्यग्दृष्टिना तिना भवितव्यम् । तत्सम्यग्दशनं किं निरपवादमुत सापवादमिति ? उच्यते-कस्यचिन्मोहनीयावस्थाविशेषात् कदाचिदिमे भवन्त्यपवादाःशङ्काकाङ क्षानिचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्य
ग्दृष्टरतीचाराः॥ २३ ॥ निःशङ्कितत्वादयो व्याख्याताः दर्शनविशुद्धिरित्यत्र, तत्प्रतिपक्षभूताः शङ्कादयो वेदितव्याः । अथ प्रशंसासंस्तवयोः को विशेषः ? ।
वाङ्मानसविषयभेदात् प्रशंसासंस्तवभेदः ।१। मनसा मिथ्यादृष्टिज्ञानचारित्रगुणोद्भावनं प्रशंसा । भूताऽभूतगुणोद्भावनवचनं संस्तव इत्ययमनयोर्भेदः।
प्रकरणादगार्यवधारणमिति चेत् ;न; सम्यग्दृष्टिग्रहणस्य उभयार्थत्वात् ।। स्यान्मतम्१५ अगारिव्रतशीलप्रकरणमिदम् , अतः तस्यैव सम्यग्दृष्टेः शङ्कादयोऽतिचाराः प्रसक्ता नानगारस्येति;
तन्नः किं कारणम् ? सम्यग्दृष्टिग्रहणस्योभयार्थत्वात् । पुनः सम्यग्दृष्टिग्रहणमेवमर्थ सम्यग्दर्शनसामान्यस्येमेऽतिचारा इति । यद्येवमर्थ सम्यग्दृष्टिग्रहणं नार्थोऽनेन, अगारिग्रहणं निवृत्तमिति व्याख्येयम् ? नैवं शङ्क्यम् ; उत्तरत्राऽगारिग्रहणानुवर्तनस्येष्ठत्वात् ।
दर्शनमोहोदयादतिचरणमतीचारः ।३। दर्शनमोहोदयात्तत्त्वार्थश्रद्धानादतिचरणमतीचारः २० अतिक्रम इत्यनर्थान्तरम् । एते शङ्कादयः पञ्च सम्यग्दर्शनस्यातिचाराः।
- अष्टाङ्गत्वात् सम्यग्र्दशनस्यातिकमाणां तावत्त्वमेवेति चेत्, न; अत्रैवान्तर्भावात् ।। स्यादेतत्-सम्यग्दर्शनमष्टाङ्ग निःशङ्कितत्वादिलक्षणमुक्तम् , तस्यातिचारैरपि तावद्भिरेव भवितव्यमित्यष्टावतिचारा उपदेष्टव्या इति; तन्नः किं कारणम् ? अत्रैवान्तर्भावात् । व्रतशीलानां
पञ्च पश्चातिचारान् विवक्षुणा आचार्येण प्रशंसासंस्तवयोरित रानन्तर्भाव्य सम्यग्दृष्टरपि पश्चैवाति२५ चारा उक्ता इति न दोषः।
आह-सम्यग्दर्शनस्याद्यस्य व्रतशीलपत्रान्चितजिनधर्मकमलकर्णिकाकारस्य अगार्यनगारयोः साधारणाः शङ्कादयोऽतिचारा व्याख्याताः। इदानी व्रतशीलानाम् अतिचारगणना कर्त्तव्तेति । तत्र गृहीतव्रतशीलातिक्रमेयत्ताख्यापनार्थमिदमुच्यते
व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ २४ ॥ व्रतानि अहिंसादीनि । शीलानि दिग्विरत्यादीनि । व्रतानि च शीलानि च व्रतशीलानि । तेषु व्रतशीलेषु ।
व्रतग्रहणमेवास्त्विति चेत् ; न; शीलविशेषद्योतनार्थत्वात् ।१ । स्मान्मतम्-व्रतग्रहणमेवास्तु, दिग्विरत्यादीनि अपि व्रतान्येव अतश्चैतदेवं यदाह-अतिथिसंविभागवतसंपन्नश्चेति; तन्न;
१ शक्यम्-श्र०, मू०, १०। २-रिसरेतरानन्त-मु०, द० । ३ तन्त्र व्रत-मु०, द०, ब.। तत्र गृहीव-मू० ।