________________
५४२ तत्त्वार्थवार्तिके
[७१५ अभिधानशब्दः करणादिसाधनः ।३। अयमभिधानशब्दः करणादिषु साधनेषु द्रष्टव्यः । अभिधीयते अनेन, अभिधीयते, अभिधा वा अभिधानमिति । असतोऽर्थस्याभिधानम् असदभिधानम् ।
ऋतं सत्यार्थे ।४। ऋतमित्येतत् पदं सत्यार्थे द्रष्टव्यम् । सत्सु साधु सत्यं प्रत्यवायकारणा५ निष्पादकत्वात् । न ऋतमनृतम्।
मिथ्याऽनृतमित्यस्तु लघुत्वात् इति चेत्, न; विपरीतार्थमासंप्रत्ययप्रसङ्गात् ।। स्यान्मतम्-मिथ्याऽनृतमित्येतत् सूत्रमस्तु । कुतः ? लघुत्वात् । सूत्रं हि नाम यल्लघु गमक च तत् कर्तव्यमिति; तन्नः किं कारणम् ? विपरीतार्थमात्रसंप्रत्ययप्रसङ्गात् । अयं हि मिथ्याशब्दः विपरीतार्थे वर्तते । तेन भूतनिहवे अभूतोद्भावने च यदभिधानं तदेवानृतं स्यात्-नास्ति आत्मा नास्ति परलोक इति, श्यामाकतण्डुलमात्र मात्मा अङ्गुष्ठपर्वमात्रः सर्वगतो निष्क्रियः इति च, यत्तु विद्यमानार्थविषयं परप्राणिपीडाकरणं तन्न स्यात् । असदिति पुनरुच्यमाने अप्रशस्तार्थ यत् तत्सर्वमनृतमुक्तं भवति । तेन विपरीतार्थस्य प्राणिपीडाकरस्य चानृतत्वमुपपन्नं भवति ।
अथाऽनृतानन्तरमुद्दिष्टं यत्स्तेयं तस्य किं लक्षणमिति ? अत आह
१०
अदत्तादान स्तेयम् ॥ १५॥ आदानं ग्रहणम् , अदत्तस्याऽऽदानम् अदत्तादानं स्तेयमित्युच्यते ।
सर्वमदत्तमाददानस्याऽकुशलकल्पनायां 'कर्मादेयमात्मसात्कुर्वतः स्तेयप्रसनः ।। यद्यविशेषेण अदत्तस्य आदानं स्तेयमित्युच्यते, कर्माष्टविधं अन्येनाऽदत्तमाददानस्य स्तेयं प्राप्नोतीति । एतेन नोकर्मापि चोदितं भवति।।
न; दानादानयोर्यत्रैव प्रवृत्तिनिवृत्ती तत्रैवोपपत्तेः ।। नैष दोषः, येषु मणिमुक्ताहिरण्या२० दिषु दानादानयोः प्रवृत्तिनिवृत्तिसंभवः तेष्वेव स्तेयस्योपपत्तेः, तेन कर्मणि नास्ति प्रसङ्गः ।
इच्छामात्रमिति चेत् ; न; अदत्तादानग्रहणात् ।३। स्यादेतत्-इच्छामात्रमिदं यस्य दानादानसंभवस्तस्य ग्रहणमिति; तन्नः किं कारणम् ? अदत्तादानग्रहणात् । यस्य हि दानादाने संभवतः तस्य ग्रहणमकुशलम् । यदि हि कर्मादानमपि स्तेयं स्यात् 'अदत्तादानम्' इत्येतत् विशेषणम
युक्तं स्यात् , प्रसक्तस्य अदत्तमिति प्रतिषेधोपपत्तेः। २५ कर्मापि हि किमर्थ कस्मैचिन्न दीयत इति चेत्, न; हस्तादिकरणग्रहणविसर्गासंभ
वात् सूक्ष्मत्वात् ।। अथ मतमेतत्-किमर्थ कर्म न कस्मैचिद्दीयत इति गृह्यते ? ननु लोकवादः प्रसिद्धः-आरामविहारादि पादपानां फलम् अन्यस्मै जलसेकेनं दीयते इति; तन्नः किं कारणम् ? हस्तादिकरणविसर्गासंभवात् । यथा वस्त्रपात्रादि हस्तादिकरणैरादीयते अन्यस्मै च दीयते न तथा
कर्म हस्तादिभिरादीयते अन्यस्मै च दीयते । कुतः ? सूक्ष्मत्वात् । सूक्ष्मं हि कर्म हस्तादिग्रहण३० विसर्गयोग्यं न भवति । कथं तर्हि तदादीयते ?
शरीराहारविषयपरिणामतस्तद्वन्धः ।। स्वपरकीयेषु शरीरेषु आहारेषु शब्दादिविषयेषु च रागद्वेषरूपात्तीवादिविकल्पात् परिणामात् तस्य कर्मबन्धो भवति, ततः स्वपरिणामवशीकृतत्वाच नान्यस्मै दीयते । यद्येवं नित्यकर्मबन्धः प्राप्नोति ? नैष दोषः।
..कर्मसाधनः। २ शापकम् । ३- आ-मु०। ४ आदातुं योग्यम् । ५ अदत्तस्तस्या-अ.। ६ शरीर । -त् अथ ता०, श्र०, मू०, ९०, ब०, आ०। ८-दिनिष्पादनं फलम् ता०, श्र०, मू०९००, मा० । धारापूर्वक मित्यर्थः।