________________
७१६ ]
सप्तमोऽध्यायः __ आस्रवनिरोधे सति संवृतत्वाद् बन्धाभावः ।६। आस्रवनिरोधो वक्ष्यते गुप्त्यादिलक्षणः, तस्मिन् सति संवृतत्वात् नास्ति बन्धः इति नित्यबन्धाभावः । अतो यत्रैवैहलौकिकोपकारविशेषाद् दानाभिप्रायस्तत्रैव अदत्तादानप्रक्लप्तिः ।
शब्दादिविषयरथ्याद्वाराद्यदत्तादानात् स्तेयप्रसङ्गे इति चेत्, न; अप्रमत्तत्वात् ।। स्यादेतत्-शब्दादिविषयरथ्याद्वारादीन्यदत्तानि आददानस्य भिक्षोः स्तेयं प्राप्नोतीति; तन्न; किं कार- ५ णम् ? अप्रमत्तत्वात् । यत्नवतो ह्यप्रमत्तस्य ज्ञानिनः शास्त्रदृष्ट्या शब्दादिविषयरथ्याद्वाराद्यादानेऽपि विरतस्याऽस्तेयप्रसिद्धः, सामान्यतो मुक्तत्वात् । दत्तमेव वा तत्सर्वम् , तथा हि अयं पिहितद्वारादीन् न प्रविशति ।
वन्दनादिनिमित्तधर्मादानात् स्तेयप्रसङ्ग इति चेत् : न; उक्तत्वात् ।। स्यान्मतम्-वन्दनाक्रियासंबन्धेन धर्मोपचये सति प्रशस्तं स्तेयं प्राप्नोति; तन्न; किं कारणम् ? उक्तत्वात् । उक्त- १० मेतत्-दानादानसंभवो यत्र तत्र स्तेयप्रसङ्ग इति ।।
प्रमत्ताधिकाराच्चान्यत्राऽप्रसङ्गः । “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" [त. ७.१३] इत्यतः प्रमत्तयोगग्रहणमनुवर्तते । तेन प्रमत्तस्य स्तेयम्, वन्दनादिषु योगत्रयेणाऽऽभिमुख्यादात्मनः प्रमत्तत्वं नास्ति, अतः सत्यपि धर्मादानेऽस्य न स्तेयम् । परिशेषात् प्रमत्तस्य सत्यसति च परकीयद्रव्यादाने त्रेधाऽपि तदादानाद्यर्थोद्यतत्वात् स्तेयम्, तदपि प्राणिपीडाकारणत्वात् पापास्रव इत्यु- १५
च्यते।
२५
अत्राह-व्याख्यातं हिंसादित्रयलक्षणम् । अथाऽब्रह्म किंलक्षणमिति ? अत्रोच्यते
मैथुनमब्रह्म ॥१६॥ मैथुनमिति किमिदम् ? मिथुनस्य भावो मैथुनम् ।
मिथुनस्य भाव इति चेत् ; न; द्रव्यद्वयभवनमात्रप्रसङ्गात् ।१। यदि मिथुनस्य भावो २० मैथुनमित्युच्यते; नैतद्युक्तम् ; कुतः ? द्रव्यद्वयभवनमात्रप्रसङ्गात् । एवं सति औदासीन्यावस्थितविनिवृत्तरागस्त्रीपुंसभवनेऽपि मैथुनप्रसङ्गः । ।
मिथुनस्य कर्मेति चेत् ; न; पुरुषद्वयनिर्वर्त्यक्रियाविशेषप्रसङ्गात् ।२। यदि मिथुनस्य कर्म मैथुनमित्युच्यते; नैतदुपपन्नम् ; कुतः ? पुरुषद्वयनिर्वर्त्य क्रियाविशेषप्रसङ्गात् । द्वयोः पुरुषयोः निर्वयं यद्भारोद्वहनादि कर्म तत्रापि प्रसङ्गः स्यात् ।।
स्त्रीपुंसयोः कर्म इति चेत् ; न; पच्यादिक्रियाप्रसङ्गात् ।। स्यान्मतम्-न सर्व मिथुनमिह परिगृह्यते अनिष्टप्रसङ्गात् , ततः स्त्रीपुंसमिथुनविषयकर्मसंग्रह इति; तन्नः किं कारणम् ? पच्यादिक्रियाप्रसङ्गात् । ततश्च स्त्रीप्रबजितयोनमस्काराद्यासेवने मैथुनप्रसङ्गदोषः । अत उत्तरं पठति
स्त्रीपुंसयोः परस्परगात्रोपश्लेषे रागपरिणामो मैथुनम् ।४। चारित्रमोहोदये सति स्त्रीपुसयोः परस्परगात्रोपश्लेषे सति सुखमुपलिप्समानयोः रागपरिणामो यः स मैथुनव्यपदेशभाक् । ३० ननु नायं शब्दार्थः; सत्यमेवमेतत् ; तथापि "प्रसिद्धिवशात् अर्थाध्यवसायः" [ ] इतोष्टार्थो गृह्यते ।
न वैकस्मिन्नप्रसङ्गात् ।। न वैतद्युक्तम् ? कुतः ? एकस्मिन्नप्रसङ्गात् । हस्तपादपुद्गलसंघदृनादिभिरब्रह्म सेवमाने एकस्मिन्नपि मैथुनमिष्यते, तन्न सिद्ध्यति ।।
उपचारादिति चेत्, न; मुख्यफलाभावप्रसङ्गात् ।६। स्यादेतत्-यथा स्त्रीपुंसयोः चारित्र- ३५ मोहोदये वेदनापीडितयोः कर्म मैथुनं तथैकस्यापि चारित्रमोहोदयोद्रिक्तरागस्य हस्तादिसंघटनेऽस्ति
२.अन्यासाधारणम् । २ त्रिधापि-मु०, २०, २० ।