________________
४१४]
सप्तमोऽध्यायः नैष दोषः, तत्रापि प्राणव्यपरोपणमस्ति भावलक्षणम् । तथा चोक्तम्
"स्वयमेवात्मनात्मानं हिनस्त्यात्मा प्रमादवान् ।
पूर्व प्राण्यन्तराणां तु पश्चात्स्याद्वा न वा वधः ॥ १॥"[ ] इति । एवं कृत्वा यैरुपालम्भः क्रियते
"जले जन्तुः स्थले जन्तुराकाशे जन्तुरेव च ।
जन्तुमालाकुले लोके कथं भिक्षुरहिंसकः ॥" [ ] इति; सोऽत्रावकाशं न लभते । भिक्षोनिध्यानपरायणस्य प्रमत्तयोगाभावात् । किन, सूक्ष्मस्थूलजीवाभ्युपगमात् ।
"सूचमा न प्रतिपीड्यन्ते प्राणिनः स्थूलमूर्तयः ।
ये शक्यास्तेविवय॑न्ते का हिंसा संयतात्मनः ॥"[ ] अत्र कश्चिदाह-साधूक्तं भवता प्राणव्यपरोपणं हिंसेति । प्राणानां हि परस्परतो वियोगो हिंसा, न कश्चित् प्राणी विद्यते इति । अत उत्तरं पठति
प्राण्यभावे प्राणाभावः कर्तुरभावात् ।१३। यदि प्राणी न स्यात् प्राणानामभावः । कुतः ? कर्तुरभावात् । इह कुशलाऽकुशलात्मककर्मपूर्वकाः प्राणाः तच्च कर्म असति' कर्तरि न भवतीति प्राणाभावः स्यात्, अतः प्राणसद्भाव एव प्राणिनोऽस्तित्वं गमयति । सन्दंशादिकरणसद्भावे १५ अयस्कारसंसिद्धिवत् ।
किश्च, असति प्राणिनि रूपणाऽनुभवनोपलम्भननिमित्तग्रहणसंस्करणभिमलक्षणाः 'रूपवेदनाविज्ञानसंज्ञासंस्काराः विविक्तशक्तित्वात् परस्परोपकारं:प्रति विनिवृत्तौत्सुक्याः क्षणिकत्वात् स्वप्रयोजनं प्रत्यप्यसमर्थाः हिंसानिवृत्तिहेतवो न भवन्ति । स्मृत्यभिसन्धिक्रियाचित्तानां 'व्यधिकरणवदेकाधिकरणेऽप्यनुपपत्तेः, एकेनापि विकले प्राणातिपाताऽनभ्युपगमात्। अपि च, २० उत्पत्त्यनन्तरं विनाशाभ्युपगमे निरोधस्याहेतुकत्वात् प्राणातिपातलक्षणस्य विनाशस्य हिंसको हेतुर्न भवति इति तत्फलानभिसंबन्धः । अथाऽहेतोरपि तत्फलमिष्यते; अहिंसको नाम न कश्चिदस्ति । भिन्नसन्तानोत्पत्तिहेतुहिंसक इति चेत् ; न; असत उत्पत्तेहेत्वभावात् । अथाऽसत उत्पत्तेहेतुरिष्यते; सतो विनाशे हेतुः स्यादिति को विरोधः?
आह-अभिहितलक्षणहिंसानन्तरोद्दिष्टम् अनृतं किं लक्षणमिति ? अत्रोच्यते
असदभिधानमनृतम् ॥ १४ ॥ असदिति ना सत्प्रतिषेधाच्छून्यार्थसंप्रत्ययप्रसङ्गः ।। न सत् असदिति नया सत्प्रतिषेधः क्रियते, तेन शून्यार्थसंप्रत्ययः प्रसज्यते, तेन नास्ति न किश्चिदित्येवमाद्येवानृतं स्यात् , यदसत् सदिति ब्रूयात् न तदनृतं स्यात् ।
___ न वा, सच्छब्दस्य प्रशंसार्थवायित्वात् ।। न वैष दोषः, किं कारणम् ? सच्छब्दस्य ३० प्रशंसार्थवाचित्वात् । न सदसत् अप्रशस्तमिति यावत् ।
उद्धतोऽयम्-स. सि. १६३ आत्मनि । ३ रूपरसगन्धस्पर्शपरमाणवः सजातीयविजावीनारयाः परस्परानुसम्बन्धा रूपस्म्याः । सुखदुखादयो वेदनाकन्याः । सविकल्पकनिर्विकल्पकज्ञानानि विज्ञानसाधाः । वृक्षादिनामानि संज्ञास्कायाः । ज्ञानपुण्यपापादिवासमाः संस्कारकन्या इति पर स्करवाः । " अभिप्राय । ५ भन्याश्रयवत् । -