________________
५४० तत्त्वार्थवार्तिके
[७१३ पञ्चदशप्रमादपरिणतो वा ।३॥ अथवा चतसृभिः विकथाभिः कपायचतुष्टयेन पञ्चभिन्द्रियैः निद्राप्रणयाभ्यां च परिणतो यः स प्रमत्त इति कथ्यते।। _ योगशब्दः संबन्धपर्यायवचनः ।४। अयं योगशब्दः संबन्धपर्यायवचनो द्रष्टव्यः, योजनं
योगः संबन्ध इति यावत् । यद्येवं भावप्रधानो निर्देशः कर्तव्यः-'प्रमत्तत्वयोगाद्' इति, द्रव्यप्रधाने ५ हि सति संबन्धाऽप्रतीतेः; नैष दोषः; आत्मपरिणाम एव कर्तृत्वेन निर्दिश्यते प्रमाद्यतिस्म इति प्रमत्तः परिणामः, तेन योगात् प्रमत्तयोगादिति ।
कायवाडानस्कर्म चा ।। अथवा, कायवाङ्मनस्कर्म योग इत्युच्यते । प्रमत्तस्य योग प्रमत्तयोगः तस्मात् प्रमत्तयोगात् इति हेतुनिर्देशः । प्रमत्तयोगाद्धेतोः प्राणव्यपरोपणं हिंसेति।
. व्यपरोपणं वियोगकरणम् ।६। वियोगकरणं व्यपरोपणमित्युच्यते । प्राणा उक्ताः, तेषां १० व्यपरोपणं प्राणव्यपरोपणम् ।
प्राणग्रहणं तत्पूर्वकत्वात् प्राणिव्यपरोपणस्य ।। प्राणग्रहणं क्रियते तत्पूर्वकत्वात् प्राणिब्यपरोपणस्य । प्राणवियोगपूर्वको हि प्राणिवियोगः, स्वतः प्राणिनो निरवयवत्वाद्वियोगाभावात् ।
अन्यत्वादधर्माभाषः इति चेत् ;न; तददुःखोत्पादकत्वात् ।। स्यान्मतम्-प्राणेभ्योऽन्य आत्मा, अतः प्राणवियोगे नात्मनः किश्चिद्भवतीत्यधर्माभावः स्यादिति; तन्नः किं कारणम् ? १५ तदुःखोत्पादकत्वात् । प्राणव्यपरोपणे हि सति तत्संबन्धिनो जीवस्य दुःखमुत्पद्यत इत्यधर्मसिद्धिः।
शरीरिणोऽन्यत्वात् दुःखाऽभाव इति चेत् ; न; पुत्रकलादिवियोगे तापदर्शनात् ।। स्यादेतत्-अन्यः शरीरी प्राणेभ्यः, अतस्तत्पूर्वकदुःखमस्य न युज्यते इति; तन्नः किं कारणम् ? पुत्रकलत्रादिवियोगे तापदर्शनात् । अन्यत्वेऽपि सति पुत्रकलत्रादिवियोगे तापो दृश्यते ।
बन्धं प्रत्येकत्वाश्च ।१०। यद्यपि शरीरिशरीरयोः लक्षणभेदान्नानात्वम् , तथापि बन्धं प्रत्येकत्वात् तद्वियोगपूर्वकदुःखोपपत्तरधर्माऽभाव इत्यनुपालम्भः।
एकान्तवादिनां तदनुपपत्तिबन्धाभावात् ।११। ये निष्क्रियत्वनित्यत्वशुद्धत्वसर्वगतत्वादिभिः एकान्तेन आत्मानं कल्पयन्ति तेषां शरीरेण 'सह बन्धाभावात् दुःखादीनामनुपपत्तिभवति ।
उभयविशेषणोपादानम् अन्यतराभावे हिंसाऽभावज्ञापनार्थम् ।१२। प्रमत्तयोगात् प्राणव्यपरोपणमित्येतदुभयं विशेषणमुपादीयते। किमर्थम् ? अन्यतराभावे हिंसाऽभावज्ञापनार्थम् । यदा प्रमत्तयोगो नास्ति केवलं प्राणव्यपरोपणमेव न तदा हिंसा । उक्तं च
"वियोजयति चासुभिर्न 'च वधेन संयुज्यते ।" [सिद्ध द्वा० ३।१६] . "उच्चालदम्मि पादे इ रियासमिदस्स णिग्गमठ्ठाणे।
आवादेज्ज कुलिंगो मरेज्ज तज्जोगमासेज्ज ॥१॥ णहि तस्स तण्णिमित्तो बंधो सुहमोपि देसिदो समये। मुच्छा परिग्गहोत्ति य अज्झप्पपमाणदो भणिदो ॥२॥" [प्रवचनसा० ३।७, २० -२] इति । ननु च प्राणव्यपरोपणाभावेऽपि प्रमत्तयोगमात्रादेव हिंसेष्यते । उक्तं च__ "मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा । पयदस्स णस्थि बंधो हिंसामेत्तेण समिदस्स ॥1॥" [वचनसा० ३.१७] इति ।
१ सम्बन्धाभावा-श्र० । २ वधदोषेण । ३ कुत्सितप्राणी पृथिव्यादिकायिक इत्यर्थः । ४ द्रष्टव्यम्जयधः पृ० १०३ टि. १,५।