________________
७१२-१३] सप्तमोऽध्यायः
५३६ मानेषु कारुण्यं भाव्यम् । अविनेयेषु ग्रहणधारणविज्ञानोहापोहवियुक्तेषु महामोहाभिभूतेषु दुष्टव्युग्राहितेषु च माध्यस्थ्यं भावनीयम् । न हि तत्र वक्तुर्हितोपदेशस्य फलवत्त्वं भवतीति । एवं भावयतः परिपूर्णानि अहिंसादीनि व्रतानि भवन्ति ।
किमेतावानेव अभिनवाऽकुशलकर्मादाननिवृत्तिपरेण महाव्रतधारिणा क्रियाकलापः प्रणिधातव्यः ? नेत्याह
जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ॥ १२॥ जगत्कायशवायुक्तार्थों ।। जगच्छब्दः कायशब्दश्च उक्तार्थों द्रष्टव्यौ ।
स्वेनात्मना भवनं स्वभावः ।। स्वेनात्मना असाधारणेन धर्मेण भवनं स्वभाव इत्युच्यते । जगच कायश्च जगत्कायौ, जगत्काययोः स्वभावी जगत्कायस्वभावौ।
, संसाराद् भीरुता संवेगः ।३। संसाराद् विविधवेदनाकराद् भीरुता संवेजनं संवेग १०
इत्युच्यते।
रागकारणाभावात् विषयेभ्यो विरञ्जनं विरागः।४। चारित्रमोहोदयाभावे तस्योपशमात् क्षयात् क्षयोपशमाद्वा शब्दादिभ्यो विरञ्जनं विराग इति व्यवसीयते । विरागस्य भावः कर्म वा वैराग्यम् । संवेगश्च वैराग्यं च संवेगवैराग्ये, संवेगवैराग्याभ्यां संवेगवैराग्याथ जगत्कायस्वभावौ भावयितव्यौ । तद्यथा-जगत्स्वभावस्तावत् आदिमदनादिमत्परिणामद्रव्यसमुदायरूपः तालवृक्ष- १५ संस्थानः अनादिनिधनः । अत्र जीवाः चतसृषु गतिषु नानाविधं दुःखं भोजं भोजं परिभ्रमन्ति न चात्र किचिनियतमस्ति । जलबुबुदोपमं जीवितम्, विद्युन्मेघादिविकारचपला भोगसंपदः इत्येवमादिः । कायस्वभावश्च अनित्यता दुःखहेतुत्वं निःसारता अशुचित्वमित्येवमादिः । एवं भावयतः संवेगः संजायते । तत आरम्भपरिग्रहदोषदर्शनाद्विरतिः धर्मे बहुमानो धार्मिकेषु च धर्मश्रवणे धार्मिकदर्शने च मनसः प्रसादः । उत्तरोत्तरगुणप्रतिपत्तौ च श्रद्धेति वैराग्यं च भवति शरीर- २० भोगोपभोगसंसारनिर्वेदलक्षणम् । एवं भावनोपेतः सम्यग्व्रतानि परिपालयति । _____ता एताः सर्षा व्रतभावनाः सर्वेषु पदार्थेषु सर्वथा नित्येषु सत्सु विक्रियाभावात् नोपपद्यन्ते । विक्रियाभ्युपगमे च नित्यताप्रतिज्ञाहानिः । सर्वथैवाऽनित्येषु चाऽनेकक्षणवृत्त्येकवस्त्वभावात् अनेकार्थविषयकविज्ञानाभावाच्च स्मरणानुपपत्तेर्भावनाऽभावः। अनेकान्तवादिनः पुनः द्रव्यार्थिकनयादेशात् नित्यतामवलम्बमानस्य उभयनिमित्तवशात् उत्पत्तिनिरोधौ प्रत्याभिमुख्य- २५ मादधानस्य स्मरणोपपत्तेः विक्रियोपपत्तेश्च भावनासिद्धिः।।
अत्राह-उक्तं भवता हिंसादिनिवृत्तिव्रतमिति । तत्र न जानीमः के हिंसादयः क्रियाविशेषा इति ? अत्रोच्यते-युगपद्वक्तुमशक्यत्वात् तल्लक्षणनिर्देशस्य क्रमप्रसङ्गे यासावादौ चोदिता सैव तावत्
प्रमत्तयोगात् प्राणव्यपरोपण हिंसा ॥ १३॥ ३० अनवगृहीतप्रचारविशेषः प्रमत्तः ।। इन्द्रियाणां प्रचारविशेषमनवधार्य प्रवर्तते यः स प्रमत्तः।
भभ्यन्तरीकृतवार्थी वा ।। अथवा, अभ्यन्तरीकृतेवार्थः प्रमत्त इत्युच्यते । कः पुनरिवार्थः ? यथा सुरापः प्रवृद्धमदत्वात् कार्याऽकार्यवाच्याऽवाच्याद्यनभिज्ञः, तथा जीवस्थानयोन्याश्रयविशेपानविद्वान् कषायोदयाविष्टः हिंसाकारणेषु स्थितः अहिंसायां 'सामान्येन न यतत इति प्रमत्तः। ३५
१-कारवदफला-मु०, द० । २ साम्येन न यतते मू० । साम्येन न प्रयतते १० । . १५