________________
तस्वार्थवार्तिके
[७११ कपरुषादीनि वचांसि शृण्वता अतितीव्रदुःखमभूतपूर्वमुत्पद्यते एवं सर्वजीवानाम् । यथा च ममेष्टद्रव्यवियोगे व्यसनमभूतपूर्वमुपजायते एवं सर्वभूतानाम् । यथा च मम कान्ताजनपरिभवे परकृते सति मानसी पीडाऽतितीव्रा जायते तथेतरेषाम् । यथा च मम परिग्रहेषु अप्राप्तेषु प्राप्तेषु विनष्टेषु काङ्क्षारक्षाशोकोद्भवं दुःखं तथा सर्वप्राणिनामिति हिंसादिभ्यो व्युपरमः परमहितः। ५ स्पर्शकृतं सुखमिति चेत् ; न; वेदनाप्रतीकारत्वात् ।४। स्यादेतत् , न सर्व दुःखमेव ।
किं तर्हि ? स्पर्शकृतं सुखमप्यस्ति, वराङ्गनामृदुसुभगगात्रसंश्लेषणात् रतिसुखमुपजायत इति; तन्न; किं कारणम् ? वेदनाप्रतीकारत्वात् । यथा त्वङ्मांसरुधिरकलुषभावोद्गीर्णया कण्ड्वा बाध्यमानः नखमुखशवलशर्करादिभिः छिन्नगात्रो रुधिराोऽनुपरतकण्डूयो दुःखमपि तत्सुखमिति मन्यते, तथा मैथुनोपसेवी मोहादसुखमपि सुखमिति मन्यते । दुःखयोनित्वाच्च दुःखमेवेति भावनीयम् । _ यथैते क्रियाविशेषाः तात्पर्येण भाव्यमाना व्रतपूर्णतां जनयन्ति तथा अमूनि तादात् ऐहिकप्रयोजनविनिवृत्तौत्सुक्येन अवहितचेतसाऽजस्रं भाव्यमानानि व्रतसम्पदमापादयन्तीत्याहमैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिक
क्लिश्यमानाविनेयेषु ॥ ११ ॥ ___ परेषां दुःखानुत्पत्यभिलाषो मैत्री ।। स्वकायवाङ्मनोभिः कृतकारितानुमतविशेषणैः १५ परेषां दुःखानुत्पत्तौ अभिलाषः मित्रस्य भावः कर्म वा मैत्री ।
वदनप्रसादादिभिरभिव्यज्यमानान्तर्भक्तिरागः प्रमोदः । वदनप्रसादेन नयनप्रदादनेन रोमाञ्चोद्भवेन स्तुत्यभीक्षणसंज्ञासंकीर्तनादिभिश्च अभिव्यज्यमानाऽन्तर्भक्तिरागः-प्रकर्षेण मोदः प्रमोद इत्युच्यते ।
दीनानुग्रहभावः कारुण्यम् ।३। शारीरमानसदुःखाभ्यदितानां दीनानां प्राणिनाम् अनु२० ग्रहात्मकः परिणामः करुणस्य भावः कर्म वा कारुण्यमिति कथ्यते ।
रागद्वेषपूर्वकपक्षपाताऽभावो माध्यस्थ्यम् ।४। रागात् द्वेषाच्च कस्यचित् पक्षे पतनं पक्षपातः तदभावात् मध्ये तिष्ठतीति मध्यस्थः, मध्यस्थस्य भावः कर्म वा माध्यस्थ्यम् ।
अनादिकर्मबन्धवशात् सीदन्तीति सत्त्वाः ।। अनादिना अष्टविधकर्मबन्धसन्तानेन तीब्रदुःखयोनिषु चतसृषु गतिषु सीदन्तीति सत्त्वाः ।
सम्यग्ज्ञानादिभिः प्रकृष्टा गुणाधिकाः ।६। सम्यग्ज्ञानदर्शनादयो गुणाः, तैः प्रकृष्टा गुणाधिका इति विज्ञायन्ते।
असउद्योदयापादितक्लेशाः क्लिश्यमानाः ।। असद्वद्योदयापादितशारीरमानसदुःखसन्ता___ पात् क्लिश्यन्त इति क्लिश्यमानाः।
तत्वार्थश्रवणग्रहणाभ्यामसम्पादितगुणा अधिनेयाः ।८। तत्त्वार्थोपदेशश्रवणग्रहणाभ्यां ३० विनीयन्ते पात्रीक्रियन्ते इति विनेयाः, न विनेया अविनेयाः। एतेषु सत्त्वादिषु मैत्र्यादीनि यथाक्रम
भावयितव्यानि । तद्यथा, 'क्षमयामि' सर्वजीवान् क्षाम्यामि सर्वजीवेभ्यः, प्रीति सर्वसत्त्वैः,वैरं मे न केनचित्' इति मैत्री सर्वसत्त्वेषु भावयितव्या। सम्यग्दर्शनज्ञानचारित्राधिकेषु वन्दनास्तुतिवैयावृत्त्यकरणादिभिः प्रमोदो भावनीयः । मोहाभिभूतेषु मतिश्रुताज्ञानविभङ्गपरिगतेषु विषयतर्षानिना दहमानमानसेषु हिताहितविपरीतप्रवृत्तिषु विविधदुःखाभिभूतेषु दीनकृपणाऽनाथबालवृद्धषु क्लिश्य
प्रातविन-मु०, २०, ता०, मू०,०।२ परमः हि-मु०, ९० । ३ "खम्मामि सम्बजीवाणं सम्वे जोवा खमंतु मे। मित्ती मे सम्वभूदेसु वैरं मम ण केणवि ॥" -मूलाचा. गा० ४३ ।