________________
७१-१० ]
सप्तमोऽध्यायः
हिंसादिष्विहामुत्रापायावद्यदर्शनम् ॥ ६ ॥
अभ्युदयनिःश्रेयसार्थानां नाशकोऽपायो भयं वा |१| अभ्युदयनिःश्रेयसार्थानां क्रियासाधनानां नाशकोऽनर्थः अपाय इत्युच्यते । अथवा ऐहलौकिकादिसप्तविधं भयमपाय इति कथ्यते ।
५३७
"
"
अवद्यं गर्ह्यम् |२| गर्ह्यमवद्यमिति यावत् । अपायश्च अवद्यं च अपायावद्ये । अपायाव ५ द्ययोर्दर्शनं अपायावद्यदर्शनं भावयितव्यम् । क ? इहामुत्र च । केषु ? हिंसादिषु । कथमितिचेत् ? उच्यते-हिंसायां तावत् हिंस्रो हि नित्योद्वेजनीयः सततानुबद्धवैरश्च, इहैव च वधबन्धपरिक्लेशादीन् प्रतिलभते प्रेत्य चाशुभां गतिम् गर्हितश्च भवति इति हिंसाया व्युपरमः श्रेयान् । तथा अनृतवादी 'अश्रद्धेयो भवति, इहैव च जिह्वाच्छेदनादीन् प्रतिलभते, मिथ्याभ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यो बहूनि व्यसनानि अवाप्नोति प्रेत्य चाशुभां गतिम् १० गर्हितश्च भवति इति अनृतवचनात् व्युपरमः श्रेयान् । तथा स्तेनः परद्रव्याहरणासक्तमतिः सर्वस्योद्वेजनीयो भवति, इहैव चाऽभिघातवधबन्धहस्तपाद कर्णनासोत्तरौष्ठच्छेदन भेदनसर्वस्वहरणादीन् प्रतिलभते प्रेत्य चाशुभां गतिम् गर्हितश्च भवतीति स्तेयात् व्युपरमः श्रेयान् । तथा अब्रह्मचारी मदविभ्रमोद्ग्रथितचित्तः वनगज इव वासितावञ्चितो विवशो वधबन्धपरिक्लेशादीन् अनुभवति, मोहाभिभूतत्वाच्च कार्याऽकार्यानभिज्ञो न किञ्चिदकुशलं नाचरति, १५ पराङ्गनालिङ्गनासङ्गकृतरतिश्च इहैव वैरानुबन्धिनः लिङ्गच्छेदनवधबन्धसर्वस्वहरणादीन् अपायान् प्राप्नोति प्रेत्य वाऽशुभां गतिमश्नुते, गर्हितञ्च भवतीति, अतो विरतिरात्महिता । तथा परिग्रहवान् शकुनिरिव गृहीतमांसखण्डः अन्येषां तदर्थिनां पतत्त्रिणाम्, इहैव तस्करादीनामभिभवनीयो भवति, तदर्जनरक्षणप्रक्षयकृतांश्च दोषान् बहूनवाप्नोति न चास्य तृप्तिर्भवति इन्धनैरिवाग्नेः, लोभाभिभूतत्वाश्च कार्याकार्यानपेक्षो भवति प्रेत्य चाऽशुभां गतिमास्कन्दति, २० लुब्धोऽयमिति गर्हितश्च भवति इति तद्विरमणं श्रेयः । एवं हिंसादिष्वपायावद्यदर्शनं भावनीयम् । हिंसादिषु भावनान्तरप्रतिपादनार्थमिदमुच्यते
दुःखमेव वा ॥ १० ॥
अत्र चोद्यते-दुःखमसद्वद्योदयकृतः परितापः, हिंसादयः क्रियाविशेषाः, कथं दुःखमेव हिंसादयः इति ? अत्रोच्यते
दुःखमेवेति कारणे कार्योपचारोऽन्नप्राणवत् ॥ १॥ यथा 'अन्नं वै प्राणाः' इति प्राणकारणे अन्ने प्राणोपचारः तथा दुःखकारणेषु हिंसांदिषु दुःखमेव इत्युपचारो वेदितव्यः ।
कारणकारणे वा धनप्राणवत् |२| अथवा, यथा द्रविणकारणमन्नपानम्, अन्नपानकारणाः प्राणाः इति प्राणकारणे द्रविणे प्राणोपचारः । उक्तं च
" यदेतद् द्रविणं नाम प्राणा ह्य ेते बहिश्वराः ।
स तस्य हरते प्राणान् यो यस्य हरते धनम् ॥ १ ॥" [ ] इति तथा हिंसादयोऽसद्वेद्यकर्मकारणम्, असद्वेद्यकर्म दुःखकारणमिति दुःखकारणकारणेषु हिंसादिषु दुःखमेवेत्युपचारः ।
२५
३०
तत्परत्र भावनमात्मसाक्षिकम् |३| तदेतद्दुःखमेवेति भावनं परत्रात्मसालिकम् अवगन्त व्यम् । तद्यथा-ममाऽप्रियं यथा वधपरिपीडनं तथा सर्वसत्त्वानाम् । यथा मम मिथ्याख्यानकटु- ३५ १ श्रद्धेयो न भ - मु०, द०, ग० । २ करिण्या । ३ किञ्चिदपि कुशलं नाच-द० |
किचिदपि
कुशलमाच - मु० ।