________________
५
१५
५३६
तत्त्वार्थवार्तिके
[018-5
कारणम् ? विकल्पाधिकारात् वेत्यनुवर्तते, तेनात्र शस् न भवति । ननु लघुत्वात् शसा निर्देशः कर्तव्यः प्रतिपत्तेः गौरवं मा भूत् इति द्वित्वमेव कृतम्, वाक्याध्याहारे हि क्रियमाणे प्रतिपत्ते - गौरवं स्यात् इति । तस्य पचविधस्य व्रतस्य स्थैर्यार्थम् एकैकस्य पञ्च पञ्च भावना वेदितव्याः । यद्येवम्, आद्यस्य अहिंसाव्रतस्य का इति ? उच्यते
वाङ मनोगुप्तीर्याऽऽदाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च ॥ ४ ॥
वाग्गुप्तिर्मनोगुप्तिर्यासमितिरादाननिक्षेपणसमितिरा लोकितपानभोजनमित्येताः पञ्च अहिं
साव्रतस्य भावनाः ।
१० क्रोध लोभ भीरुत्व हास्यप्रत्याख्यानान्यनुवीचिभाषण ं च पञ्च ॥
I
क्रोधप्रत्याख्यानं लोभप्रत्याख्यानं भीरुत्वप्रत्याख्यानं हास्यप्रत्याख्यानम् अनुवीचिभाषणं चेत्येताः पञ्च भावनाः सत्यव्रतस्य ज्ञेयाः । अनुवीचिभाषणम् अनुलोमभाषणमित्यर्थः । ननु अप्रशस्तक्रियस्यापि वचसोऽनुवीचिभाषणमापन्नम् ; नैष दोषः; पुण्यास्रवस्य प्रकृतत्वात्, अप्रशस्तक्रियानुवीचिभाषणस्यानधिकारः । विचार्य भाषणमनुवीचिभाषणमिति वा ।
इदानीं तृतीयस्य व्रतस्य भावना वक्तव्याः
३०
अथ द्वितीयस्य व्रतस्य का: ?
शून्यागारविमोचितावासपरोपरोधाकरणभैक्ष्यशुसिधर्माऽविसंवादाः पञ्च ॥ ६ ॥
शून्यागारेषु गिरिगुहातरुकोटरादिष्वावासः । परकीयेषु च मोचितेष्वावासः । परेषाम् उपरोधाकरणम् । आचारशास्त्रमार्गेण भैक्ष्यशुद्धिः । ममेदं तवेदमिति सधर्मभिः अविसंवाद २० इति एताः पच अदत्तादानविरमणव्रतस्य भावनाः प्रत्येतव्याः । अथेदानों ब्रह्मचर्यस्य भावना वक्तव्याः
स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्मरण वृष्येष्टरसस्वशरीरसंस्कारत्यागाः पञ्च ॥ ७ ॥
स्त्रीरागकथाश्रवणवर्जनं तन्मनोहराङ्गनिरीक्षणविरहः पूर्वरतानुस्मरणपरित्यागः वृष्येष्टर२५ सानुभवननिरासः स्वशरीरसंस्कारत्यागश्चेति चतुर्थव्रतस्य भावनाः पञ्च विज्ञेयाः । अतः परं पश्चमव्रतस्य भावना निर्देष्टव्याः
मनोज्ञाऽमनोज्ञेन्द्रियविषयरागद्व ेषवर्जनानि पञ्च ॥ ८ ॥
पश्चानामिन्द्रियाणां स्पर्शादीनामिष्टानिष्टेषु विषयेषु उपनिपतितेषु स्पर्शादिषु रागद्वेषवर्जनानि पञ्च अस्य आकिञ्चन्यत्रतस्य भावनाः प्रत्येतव्याः ।
किचान्यत्, यथा अमीषां व्रतानां द्रढिमार्थ भावनाः प्रति यतेद् विपश्चिदिति भावनोपदेशः, तथा तदर्थ तद्विरोधिष्वपि इत्याह
- भावनाः ध्यन्ते सु०, ६० । २ शेयाः श्र० । ३ प्रमतेत विपश्चिदिति - सा० । प्रतीयते वह्निपश्चिद्भिरिति मु० ।