________________
७२-३] सप्तमोऽध्यायः
५३५ परकृतप्रदीपादिसंभवे तदभाव इति चेत्, न; चक्रमणाद्यसंभवात् ।१८। स्यादेतत्परकृत-प्रदीपादिसंभवे नारम्भदोषः इति; तन्नः किं कारणम् ? चक्रमणाद्यसंभवात् । 'ज्ञानादित्यस्वेन्द्रियप्रकाशपरीक्षितमार्गेण युगमात्रपूर्वापेक्षी देशकाले पर्यट्य यतिः भिक्षां शुद्धामुपाददोत इत्याचारोपदेशः, न चायं विधिः रात्रौ भवतीति चक्रमणाद्यसंभवः ।।
दिवानीतस्य रात्रौ भोजनप्रसङ्गः इति चेत् ; न; उक्नोत्तरत्वात् ।१६। स्यान्मतम्-दिवा ५ ग्रामं पर्यट्य केनचिद्भाजने भोजनाद्यानीय रात्रावुपयोगः प्रसक्त इति; तन्न; किं कारणम् ? उक्तोत्तरत्वात् । उक्तोत्तरमेतत-प्रदीपादिसमारम्भप्रसङ्ग इति । नेदं संयमसाधनम-आनीय भोक्तव्यमिति । नापि निस्सङ्गस्य पाणिपात्रपुटाहारिणः आनयनं संभवति । भाजनान्तरसंग्रहे अनेकावद्यदर्शनात् अतिदीनचरितप्रसङ्गादचिरादेव निवृत्तिपरिणामासंभवाच्च । भाजनेनानीतस्य परीक्ष्य भोजनं संभवतीति चेत्, न; योनिप्राभृतज्ञस्य संयोगविभागगुणदोषविचारस्य तदानीमेवोपपत्तेः, आनी- १० तस्य पुनर्दोषदर्शनात् विसर्जनेऽनेकदोषोपपत्तेश्च ।।
स्फुटार्थाभिव्यक्तेश्च दिवाभोजनं युक्तम् ।२०। यथा रविप्रकाशस्य स्फुटार्थाभिव्यजकत्वात् भूमिदेशदातृजनचक्रमणाद्यन्नपानादिपतितमितरच स्पष्टमुपलभ्यते न तथा चन्द्रादिप्रकाशानाम् अस्फुटार्थाभिव्यञ्जकत्वात् फुटा भूभ्याधुपलब्धिरस्तीति दिवाभोजनमेव युक्तम् । . तदेतदविशेषचोदितं पञ्चतयविषयव्रताभिधानं: विरत्याश्रयविवक्षाद्वयसंभवात् अभिधे- १५ यात्मभूतधर्मोपादानादभिधानानां व्यक्तिव्यपदेशवद् द्वैविध्यमनुभवतीत्याह
देशसर्वतोऽणुमहती ॥२॥ कुतश्चिद्दिश्यते इति देशः ।। कुतश्चिदवयवात् दिश्यत इति देशः प्रदेशः, एकदेश इत्यर्थः ।
सरत्यशेषानवयवानिति सर्वः ।२। सरति गच्छति अशेषानवयवानिति सर्व इत्युच्यते । देशश्च सर्वश्च देशसर्वो, देशसर्वाभ्यां देशसर्वतः । विरतिरित्यनुवर्तते । हिंसादेर्देशतो विरतिरणु- २० व्रतम् , सर्वतो विरतिर्महाव्रतम् । अणु च महञ्च अणुमहती इति व्रतापेक्षया नपुंसकलिङ्गनिर्देशः । ___आह-'न हिनस्मि नानृतं वदामि नादत्तमाददे नाङ्गनां स्पृशामि न परिग्रहमुपाददे' इति एषोऽभिसन्धिः, योऽत्राऽसमर्थभावनापरः कथं यथाप्रतिज्ञाताभिघातभाक स्यात् इति ? अत्रोच्यते- यस्मादवहितेनेमा भावयितव्याः परमार्थादित्सया
तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥३॥ भावनाशब्दः कर्मसाधनः ।। अयं भावनाशब्दः कर्मसाधनो द्रष्टव्यः । वीर्यान्तरायक्षयोपशमचारित्रमोहोपशमक्षयोपशमाङ्गोपाङ्गनामलाभापेक्षेण आत्मना भाव्यन्ते ता इति भावनाः ।।
पञ्च पञ्चेत्यत्र वीप्सायां शसप्रसङ्ग इति चेत् ; न; कारकाधिकारात् ।२। स्यादेतत्पञ्च पञ्चेत्यस्मिन् निर्देशे वीप्साविवक्षिते वीप्सायां शसा भवितव्यं पञ्चश इति, तथा सति लघुश्च निर्देशो भवतीति; तन्नः किं कारणम् ? कारकाधिकारात् । कारकादिति तत्र वर्तते, ३० न चाऽत्र कारकत्वमस्ति इति शसा न भवितव्यम्।
.. क्रियाध्याहारात् कारकत्वमिति चेत्, नः विकल्पाधिकारात् ।। स्यादेतत्-'पञ्च पञ्च भावयेत्' इत्येवमादि क्रियापदाध्याहारे कारकत्वोपपत्तौ शसा भवितव्यमिति; तन्नः किं
-मुपाददीयेतेत्या-श्र० । -मुपादीयतेत्या-मु०।२ दीशमहणकाले. 'सर्वसावधविरतोऽस्मि' इति परिणामोन संभवति, तदैव भाजनान्तरसंग्रहे परिणामत्वात् । ३ कर्मतापम्मम् । ४ गवाचारमभूतसास्नादिधर्मस्वीकारात् । ५ शवलशावलेयादि । ६ प्रवर्त-8० ।