________________
५३४
तत्त्वार्थवार्तिके
[ १ अहिंसायाः प्रधानत्वादादौ तद्वचनम् , इतरेषां तत्परिपालनार्थत्वात् ।६। अहिंसा सर्वेषु व्रतेषु प्रधानम् अतस्तद्वचनमादौ क्रियते । कुतः पुनः प्राधान्यम् ? इतरेषां तत्परिपालनार्थत्वात् । इतराणि हि सत्यादीनि व्रतानि शंस्यस्य वृतिपरिक्षेपवत् अहिंसापरिपालनार्थानि ।
विरतिशब्दः प्रत्येक परिसमाप्यते ।७। हिंसाया विरतिः, अनृताद्विरतिः, स्तेयाद्विरतिः, ५ अब्रह्मणो विरतिः, परिग्रहाद्विरतिरिति । यद्येवम्
विषयभेदाद्विरतिभेदे बहुत्वप्रसङ्गः ।८। यथा गुडतिलौदनादीनां पक्तव्याना भेदात् पाको भिद्यते-द्वौ पाको त्रयः पाका इति, एवं त्यक्तव्यहिंसादिभेदात्त्यागस्यापि भेदोपपत्तेः विरतेबहुत्वं प्राप्नोति इति ?
न वा; तद्विषयविरमणसामान्योपादानात् । न वा एष दोषः। किं कारणम् ? तद्विषय१० विरमणसामान्योपादानात् । नात्र विषयभेदाइँदो विवक्षितः। यथा गुडतिलौदनादीनां पाक
इति सामान्ये विवक्षिते एकवचनं तथा विरमणसामान्यस्य विवक्षितत्वादेकवचनं न्याय्यम् । तत एव सर्वसावद्यनिवृत्तिलक्षणसामायिकापेक्षया एकं व्रतम् , भेदपरतन्त्रछेदोपस्थापनापेक्षया पञ्चविधं व्रतम् । अत्र कश्चिदाह
हिंसादिभ्यो निवृत्तिवचनमनर्थकं संवरेऽन्तर्भावात् ।१०। हिंसादिभ्यो निवृत्तिव॑तमिति १५ आस्रवप्रकरणे विधानमिदमनर्थकम् ; कुतः ? संवरेऽन्तर्भावात् ।
प्रतिक्षामात्रमिति चेत्न; धर्माभ्यन्तरत्वात् ।११। स्यान्मतम्-प्रतिज्ञामात्रमेतत्-संवरेडन्तर्भाव इति; तम; किं कारणम् ? धर्माभ्यन्तरत्वात् । दशविधो हि धर्मो वक्ष्यते, तत्र संयमे भावकायविनयेर्यापथभैक्ष्यशयनासनप्रतिष्ठापनवाक्याष्टविधविशुद्धिलक्षणे अहिंसादीनामन्तर्भावः, सत्यादिषु च।
तत्पश्चार्य उपन्यास इति चेत्। न तत्रैव करणात् ।१२। स्यादेतत्-तस्य संयमस्यायं प्रपञ्चो यथा स्यादित्यहिंसादीनाम् उपन्यास इति; तन्नः किं कारणम् ? तत्रैव करणात् । यदि तस्यैवायं प्रपञ्चः, तत्रैव क्रियेत प्रकरणोत्कर्षकरणे प्रयोजनाभावात् ।
__ 'न संवरो व्रतानि परिस्पन्ददर्शनात् ।१३। व्रतानि संवरव्यपदेशं नाईन्ति । कुतः ? परिस्पन्ददर्शनात् । परिस्पन्दो हि दृश्यते, अनृताऽदत्तादानपरित्यागे सत्यवचन-दत्तादानक्रिया२५ प्रतीतेः।
गुप्त्यादिसंबरपरिकर्मत्वाच्च ।१४। गुप्त्यादिलक्षणः संवरो वक्ष्यते, तस्येदं परिकर्म व्रतानि, कृतव्रतपरिकर्मा हि साधुः सुखेन संवरं करोतीति, ततश्च पृथक्त्वमवसेयम् । ___ रात्रिभोजनविरत्युपसंख्यानमिति चेत्, न; भावनान्तर्भावात् ॥१५॥ स्यान्मतम्-इह
रात्रिभोजनविरत्युपसंख्यानं कर्त्तव्यं तदपि षष्ठमणुव्रतमिति; तन्नः किं कारणम् ? भावनान्तर्भा३० वात् । भावनासु हि अन्तर्भवति रात्रिभोजनविरमणम् ।
____ अनिर्देशादिति चेत्, न; आलोकितपानभोजनवचनात् ।१६। अथ मतमेतत्-भावनासु निर्देशाभावादयुक्तमिति, तन्नः किं कारणम् ? आलोकितपानभोजनवचनात् । वक्ष्यते हि अहिंसाव्रतपरिपालनाय आलोकितपानभोजनभावना कार्या इति ।
प्रदीपादिसंभवे सति रात्रावपि तत्प्रसङ्ग इति चेत्, न; अनेकारम्भदोषात् ।१७। स्यान्म३५ तम्-यद्यालोकनार्थ दिवाभोजनम् , प्रदीपचन्द्रादिप्रकाशाभिव्यक्तं रात्रौ भोजनं कार्यमिति; तन्त्र किं कारणम् ? अनेकारम्भदोषात् । अग्न्यादिसमारम्भकरणकारणलक्षणो हि दोषः स्यात् ।
रास्यवृत्ति-मु०, मू० । २-तन्त्रालेदो-४० । सत्यशौचादिषु । ४ भाचावचनमिदम् । ५न तु संबर: परिस्पन्दबषणः संस्कारः।