________________
अथ समोऽध्यायः
- आस्रवपदार्थव्याख्या प्रतिज्ञायोक्तोऽष्टोत्तरशतभेदसंख्यो बहुविचारः । स द्वेधा पुण्यपापलक्षणसाम्परायिकनिमित्तत्वात् । तत्र पुण्यास्रवो व्याख्येयः प्रधानत्वात् तत्पूर्वकत्वात् मोक्षस्य । यद्येवम् , उच्यतां कैस्ते क्रियाविशेषाः प्रारभ्यमाणास्तस्यास्रवा भवन्तीति ? अत्रोच्यतेव्रतिभिः। तत्रानिर्धारितेयत्ताविशेषलक्षणत्वात् व्रतस्य तत्प्रसिद्धयर्थमिदमुच्यते____ अथवा, “कायवाङ मनस्कर्म योगः, स आम्नवः, शुभः पुण्यस्य" [६।।,२,३] इति सामान्येनोक्तः, तद्विशेषप्रतिपत्त्यर्थमिदमुच्यते
.. अथवा, उक्तमेतत् सद्वेद्यास्रवविधाने-“भूतव्रत्यनुकम्पा" [६।१२] इति; तत्रेदं न ज्ञायते किं व्रतम् , को व्रतीति ? तन्निर्धारणार्थमिदमुच्यते
हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥ १ ॥ १०
हिंसादयो निर्देक्ष्यमाणलक्षणाः । "प्रमत्तयोगात् प्राणज्यपरोपणं हिंसा [१३] इत्येषमा- . दिभिः सूत्रः हिंसादीनां लक्षणं निर्देक्ष्यते ।
विरमणं विरतिः ।। चारित्रमोहोपशमक्षयक्षयोपशमनिमित्तौपशमिकादिचारित्राविर्भावात् ..
विरमणं विरतिः।
व्रतमभिसन्धिकृतो नियमः ।३। बुद्धिपूर्वकपरिणामोऽभिसन्धिः, इदमेवेत्थमेव वा कर्त- १५ व्यमित्यन्यनिवृत्तिः नियमः, अभिसन्धिना कृतः अभिसन्धिकृतः सर्वत्र व्रतव्यपदेशभाग भवति ।
हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहेभ्य इत्यपादाननिर्देशः ।४। हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहेभ्य इत्यपादाननिर्देशो द्रष्टव्यः ।।
ध्रुवत्वाभावात्तदनुपपत्तिरिति चेत् ; न; बुद्धयपाये ध्रुवत्वविवक्षोपपत्तेः ।।। स्यान्मतम्नात्राऽपादानत्वमुपपद्यते । कुतः ? ध्रुवत्वाभावात् । ध्रुवत्वेन हि प्रसिद्धोऽर्थः अपादानसंज्ञो २० भवति यथा ग्रामादागच्छति इति, न तथा हिंसादयः परिणामा ध्रुवाः 'क्षणिकत्वात् , तदपायेऽपायाऽप्रतीतेः। अथ हिंसादिपरिणत आत्मैव हिंसादिव्यपदेशभागिति द्रव्यार्थादेशात् ध्रुवत्वं कल्प्यते, एवमपि ततो विरतिर्नोपपद्यते नित्यत्वात् , तस्मादपादानत्वमयुक्तमिति; तन्न; किं कारणम् ? बुद्ध्यपाये ध्रुवत्वविवक्षोपपत्तेः, यथा धर्माद्विरमतीत्यत्र य एष मनुष्यः सम्भिन्नबुद्धिः स पश्यति-'दुष्करो धर्मः फलं चास्य श्रद्धामात्रगम्यम्' इति स्वबुद्धया संप्राप्य निवर्तते । एव- २५ मिहापि य एष मनुष्यः प्रेक्षापूर्वकारी स पश्यति य एते हिंसादयः परिणामाः पापहेतवः पापकर्मणि च प्रवर्तमानमिहैव राजानो दण्डयन्ति परत्र च बहुविधं दुःखमवाप्नोतीति 'स्वबुद्धथा संप्राप्य निवर्तते । ततो बुद्धथा ध्रुवत्वविवक्षोपपत्तेः अपादानत्वं युक्तम् ।
१-स्याप्रतिज्ञायो-मू०। -स्याप्रतिशयो-मु०, १०, १०, २०।२-ते यत्रावि-मु०, २०,०। "भभिसन्धिकृतो विरतिर्विषयायोग्या व्रतं भवति"-रख्नक. श्खो. ८६।५ कारणबात् मु०। कारणवश्वात्-मू०, द०। ५ हतबुद्धिः। ६ किमिति ? ७ स्वर्गोऽस्तीति । - सब-म०. म०. १०।