________________
५
[ ६२७
श्रयप्रतिषेधक्रिया- परनिरोधबन्धन-गुह्याङ्गच्छेदन- कर्णनासिकौष्ठकर्तन प्राणिवधादिः । अत्र चोद्यतेसूत्रेऽनुपात्तः सर्वास्रवप्रपञ्चः कथमेवं गन्तु (मवगन्तुं शक्यते इति ? अत्रोच्यते
५३२
तवायवार्तिके
इतिकरणानुवृत्तेः सर्वत्रानुक्तसंग्रहः |२| इतिकरणोऽनुवर्तते । क प्रकृतः ? " क्षान्तिः शौचमिति सद्वेद्यस्य” [ ६।१२ ] इत्यतः, तेनानुक्तार्थसंग्रहः सर्वत्र वेदितव्यः । प्रकारार्थो हि इतिकरण इति ।
३०
स्वोपात्तकर्मवशादात्मनो विकारः शौण्डातुरवत् । ३ । एवमुक्तेनास्रवविधिनोपात्तं कर्माष्टविधं ज्ञानावरणादिसंज्ञकं वच्यमाणमूलोत्तरप्रकृतिभेदं यत्तन्निमित्तमात्मा संसारविकारमनुपरतमनुभवति । यथा शौण्डः स्वरुचिविशेषान्मदमोहविभ्रमकरीं मदिरां पीत्वा तत्परिपाकवशात् अनेकविकारमास्कन्दति, यथा वा आतुरः अपथ्य भोजनकृतं वातादिविकारमवाप्नोति ।
'अनपदिष्टहेतुकत्वादात्रवाऽनियम इति चेत्; न; स्वभावाभिव्यञ्जकत्वाच्छास्त्रस्य || १० स्यान्मतम्-य उक्त आस्रवनियमो ज्ञानावरणादीनां तत्प्रदोषनिह्नवादिः, स नोपपद्यते, कुतः ? अनपदिष्टहेतुकत्वात् । नात्र हेतुरपदिष्टः येनास्रव नियमं प्रतिपद्येमहि । यच्च नाम सहेतुकं तद्विदुषां ग्राह्यमिति; तन्न; किं कारणम् ? स्वभावाभिव्यञ्जकत्वात् शास्त्रस्य । यथा प्रदीपो घटादीनां स्वभावमभिव्यनक्ति तथा शास्त्रमपि सतामेवार्थानां प्रकाशकम्, तत्रायं परिणाम इदं वीर्य द्रव्यावर्जनसमर्थ इति स्वभावव्याख्यानादुपालम्भाभावः ।
१५
तत्सिद्धिरतिशयज्ञानदृष्टत्वात् |५| तस्य शास्त्रस्य सतामर्थानामभिव्यञ्जकत्वं दृष्टम् । कुतः ? अतिशयज्ञानदृष्टत्वात् भगवतामर्हतामतिशयवज्ज्ञानं युगपत्सर्वार्थावभासनसमर्थ प्रत्यक्षम्, तेन दृष्टं तद्दृष्टं यच्छास्त्रं तद् यथार्थोपदेशकम्, अतस्तत्प्रामाण्यात् ज्ञानावरणाद्यास्रवनियमप्रसिद्धिः ।
सर्वाविसंवादाच्योपालम्भनिवृत्तिः | ६| नात्र प्रवादिनो विसंबदन्ते - पृथिव्यादीनां द्रव्याणां २० कठिनद्रवोष्णचलनादिस्वभावानां रूपादीना च गुणानां चाक्षुषत्वादिप्रतिनियतस्वभावानां उत्पणादीनां च संयोगविभागनिरपेक्षकारणत्वादिस्वभावानामभ्युपगमात् । तथा सत्त्वरजस्तमसौ गुण प्रकाशप्रवृत्तिनियमस्वभावानामभ्युपेतत्वात् । तथा अविद्यादीनां संस्कारादिप्रतिनियतकास्वभावानामिष्टत्वात् ततो नायमुपालम्भः आस्रवनियमाभाव इति ।
तत्प्रदोषादीनां सर्वास्त्रवत्वान्नियमाभाष इति चेत्, म अनुभागविशेषनियमोपपत्तेः ॥७॥ २५ स्यादेतत्-ये”तत्प्रदोषनिह्रवादयः ज्ञानावरणादीनामास्रवाः प्रतिनियता उक्ताः, ते सर्वेषां कर्मणामास्रवा भवन्ति, ज्ञानावरणे वध्यमाने युगपदितरेषामपि बन्ध इष्यते आगमे, तस्मादास्रवनियमाभाव इति; तन्न; किं कारणम् ? अनुभागविशेषनियमोपपत्तेः । यद्यपि तत्प्रदोषादिभिः ज्ञानावरणादीनां सर्वासां प्रकृतीनां प्रदेशा दिबन्धनियमो नास्ति, तथापि अनुभागविशेषनियमहेतुत्वेन तत्प्रदोषनिह्नवादयः प्रविभज्यन्ते ।
इति तस्वार्थवार्तिके व्याख्यानालङ्कारे षष्ठोऽध्यायः समाप्तः ||६||
१ अनुपदि श्र० । २-तुरुप श्र० । ३-षा प्रा-श्र०, मू० द०, ता० । ४ द्रव्यार्जन - श्र० । ५दृष्टं यच्छा - मु०, ५०, ब० । ६ तत्र प्रवादिनो न वि-मु०, द० । ७ - वादीनाञ्चोले - मु०, द० । ८ वैशेषिकैः - स० । सांख्यैः स० । १० बौद्धः । ११ एतव्प्रदो- ता०, श्र० ।