________________
६२६-२७]
षष्ठोऽध्यायः प्रतिबन्धकाऽभावे प्रकाशितवृत्तितोद्भावनम् ।४। प्रतिबन्धकस्य हेतोरभावे प्रकाशितवृत्तिता उद्भावनमिति व्यपदेशमर्हति ।
संश्चाऽसंश्च सदसन्तौ, सदसन्तौ च तौ गुणौ च सदसद्गुणौ, छादनं चोद्भावनं च छादनोद्भावने, सदसद्गुणयोः छादनोद्भावने सदसद्गुणंच्छादनोद्भावने । अत्रापि यथासंख्यमभिसंबन्धः, सद्गुणंच्छादनमसद्गुणोद्भावनमिति ।
गूयते तदिति गोत्रम् ।। गूयते शब्द्यते तदिति गोत्रम् , औणादिकेन वटा निष्पत्तिः ।
नीचैरित्यधिकरणप्रधानः शब्दः ।६। नीचैरित्ययं शब्दः अधिकरणप्रधानो द्रष्टव्यः, नीचैः स्थाने येनात्मा क्रियते तन्नीचैर्गोत्रम् , तस्यास्रवकारणान्येतानि परनिन्दादीनि । तत्प्रपञ्च उच्यते- -- जातिकुलबलरूपताज्ञैश्वर्यतपोमद-परावज्ञानोत्प्रहसन-परपरिवादशीलता-धार्मिकजननिन्दात्मोत्कर्षा-ऽन्ययशोविलोपा-ऽसत्कीयुत्पादन-गुरुपरिभव-तदुद्धट्टन-दोषख्यापन-विहेडन-स्थानावमान-भ - १० नि-गुणावसादन-अञ्जलिस्तुत्यभिवादनाभ्युत्थानाऽकरण-तीर्थकराधिक्षेपादिः। आह-उपपादितो नीचैर्गोत्रस्यास्रवः, इदानीमुञ्चैर्गोत्रस्यास्रवविधिः क इति ? अत्रोच्यते
तद्विपर्ययो नीचैत्यनुत्सेको चोत्तरस्य ॥ २६ ॥ नीचैर्गोत्रानवप्रतिनिर्देशनार्थस्तच्छब्दः ।१। प्रत्यासत्तेस्तदित्यनेन नीचैर्गोत्रास्रवः प्रतिनिर्दिश्यते।
विपर्ययोऽन्यथावृत्तिः ।२। अन्येन प्रकारेण वृत्तिर्विपर्यय इति व्यपदिश्यते । तस्य विपर्ययः तद्विपर्ययः । कः पुनरसौ-आत्मनिन्दा-परप्रशंसे सद्गुणोद्भावनमसद्गुणच्छादनं च ।।
गुरुष्ववनतिर्नीचैत्तिः । गुणोत्कृष्टषु विनयेन अवनतिर्नीचैवृत्तिरित्याख्यायते ।
अनहकारताऽनुत्सेकः ।४। विज्ञानादिभिरुत्कृष्टस्यापि सतः तत्कृतमदविरहोऽनहकारता अनुत्सेक इत्युच्यते । तान्येतानि उत्तरस्योच्चैर्गोत्रस्यास्रवकारणानि भवन्ति । प्रपश्वस्तु वित्रियते-जाति- २० कुलबलरूपवीर्यपरिज्ञानैश्वर्यतपोविशेषवतः आत्मोत्कर्षाऽप्रणिधानं परावज्ञानौद्धत्यनिन्दाऽसयोपहासपरपरिवादनिवृत्तिः विनिहतमानता धर्म्यजनपूजाऽभ्युत्थानाञ्जलिप्रणतिवन्दना ऐदंयुगीनान्यपुरुषदुर्लभगुणस्याप्यनुत्सिक्तता, अहङ्काराऽत्यये नीचैर्वृत्तिता भस्मावृतस्येव हुतभुजः स्वमाहात्म्याप्रकाशनं धर्मसाधनेषु परमसम्भ्रम इत्यादि ।
आहउक्तः सप्तविधकर्म प्रत्यास्रवविकल्पः । इदानीमष्टमस्य कर्मणोऽन्तरायस्यास्रवविधिः २५ क इति ? अत्रोच्यते
विघ्नकरणमन्तरायस्य ॥ २७॥ दानादिविहननं विघ्नः ।। दानादीन्युक्तानि “दानलाभभोगोपभोगवीर्याणि "[त. सू० २।४] इत्यत्र, तेषां विहननं विन्न इत्युच्यते । “घंजर्थे कविधानं स्थानापाव्यधिहनियुध्यर्थम्" [जैनेन्द्र० वा. २३३५२] इति कविधिः। विघ्नस्य कारणं विघ्नकरणम् अन्तरायस्यास्रव इति संक्षेपः। तद्विस्तरस्तु ३० वित्रियते-ज्ञानप्रतिषेध-सत्कारोपघात-दानलाभभोगोपभोगवीर्यस्नानानुलेपनगन्धमाल्याच्छादनविभूषणशयनासनभक्ष्यभोज्यपेयलेह्यपरिभोगविघ्नकरण-विभवसमृद्धिविस्मय-द्रव्यापरित्याग-द्रव्यासंप्रयोगसमर्थनाप्रमादा-ऽवर्णवाद-देवतानिवेद्यानिवेद्यग्रहण-निरवद्योपकरणपरित्याग-परवीर्यापहरण-धर्मव्यवच्छेदनकरण-कुशलाचरणतपस्विगुरुचैत्यपूजाव्याघात-प्रबजितकृपणदीनानाथवलपात्रप्रति -
-णोच्छा-श्र० । २ श्र० मु. प्रत्योः 'घजथे कंविधानं स्थास्नापाध्यधिहनियुभ्यर्थम्' इति वार्तिकचिहाकिसम् । ३-नकुश-मु०, द०, ब० ।-नकरणाकुश-ता०, मू० ।