________________
गुणवदुःखोपनिपाते निरवद्येन विधिना तदपहरणं वैय्यावृत्त्यम् || गुणवतः साधु५ जनस्य दुःखे सन्निहिते निरवद्येन विधिना तदपहरणं बहूपकारं वैयावृत्त्य मिति व्याख्यायते । अर्हदाचार्येषु बहुश्रुतेषु प्रवचने च भावविशुद्धियुक्तोऽनुरागो भक्तिः | १० | अर्हदाचार्येषु केवलश्रुतज्ञानादिदिव्यनयनेषु परहितकरप्रवृत्तेषु स्वपरसमयविस्तरनिश्चयज्ञेषु च बहुश्रुतेषु प्रवचने च श्रुतदेवतासन्निधिगुणयोगदुरासदे मोक्षपदभवनारोहणसुरचितसोपानभूते भावविशुद्धियुक्तोऽ नुरागः भक्तिः, त्रिविधा ( चतुर्विधा ) कल्प्यते ।
१०
तस्वार्थवार्तिके
[ ६।२५
मुनिगणतपः संधारणं समाधिः भाण्डागाराग्निप्रशमनवत् || यथा भाण्डागारे दहने समुत्थिते तत्प्रशमनमनुष्ठीयते बहूपकारत्वात् तथा अनेकव्रतशीलसमृद्धस्य मुनिगणस्य तपसः कुतश्चित् प्रत्यूहे समुत्थिते तत्संधारणं समाधिरिति समाख्यायते ।
षण्णामावश्यक क्रियाणां यथाकालप्रर्वतनमावश्यकाऽपरिहाणिः | ११ | घडावश्यकक्रियाःसामायिकं चतुर्विंशतिस्तवः वन्दना प्रतिक्रमणं प्रत्याख्यानं कायोत्सर्गश्चेति । तत्र सामायिकं सर्वसावद्ययोगनिवृत्तिलक्षणं चित्तस्यैकत्वेन ज्ञाने प्रणिधानम् । चतुर्विंशतिस्तवः तीर्थकरगुणाकीर्तनम् | वन्दना त्रिशुद्धिः द्वद्यासना चतुः शिरोऽवनतिः द्वादशावर्तना । अतीतदोषनिवर्तनं प्रतिक्रमणम् । अनागतदोपापोहनं प्रत्याख्यानम् । परिमितकालविषया शरीरे ममत्वनिवृत्तिः १५ कायोत्सर्गः । इत्येतासां षण्णामावश्यकक्रियाणां यथाकालप्रवर्तनम् अनौत्सुक्यं आवश्यकाऽपरिहाणिरिति परिभाष्यते ।
५३०
२०
३०
वत्से धेनुवत्सधर्मणि स्नेहः प्रवचनवत्सलत्वम् | १३ | यथा धेनुर्वत्से अकृत्रिम स्नेहमुत्पादयति तथा सधर्माणमवलोक्य तद्गतस्नेहार्द्रीकृत चित्तता प्रवचनवत्सलत्वं मित्युच्यते । यः सेधर्मणि स्नेहः स एव प्रवचनस्नेह इति । तान्येतानि षोडशकारणानि सम्यग्भाव्यमानानि व्यस्तानि समस्तानि च तीर्थकर नामकर्मास्रवकारणानि प्रत्येतव्यानि ।
. आह-नामानन्तरनिर्देशभाजो गोत्रस्योपादाने किं निबन्धनमिति प्रतिविधीयते । तद्२५ द्वैविध्ये सति आद्यस्य तावत्
ज्ञान तपोजिन पूजा विधिना धर्मप्रकाशनं मार्गप्रभावनम् |१२| ज्ञानरविप्रभया परसमयखद्योतोद्योततिरस्कारिण्या, सत्तपसा महोपवासादिलक्षणेन सुरपतिविष्टर प्रकम्पनहेतुना, जिनपूजया वा भव्य जनकमलपण्डप्रबोधनप्रभया, सद्धर्मप्रकाशनं मार्गप्रभावनमिति संभाव्यते ।
परात्मनिन्दाप्रशंसे सदसद्गुणच्छादनोद्भावने च नीचैर्गोत्रस्य ॥ २५ ॥
दोद्भावनेच्छा निन्दा |१| तथ्यस्य वा अतथ्यस्य वा दोषस्योद्भावनं प्रतीच्छा मनः परिणामोऽवक्षेपो निन्देत्युच्यते ।
गुणोद्भावनाभिप्रायः प्रशंसा | २ | सद्भूतस्याऽसद्भूतस्य वा गुणस्योद्भावनं प्रत्यभिप्रायः प्रशंसेत्युपदिश्यते । परश्व आत्मा च परात्मानौ, निन्दा च प्रशंसा च निन्दाप्रशंसे, परात्मनो निन्दाप्रशंसे परात्मनिन्दाप्रशंसे यथासंख्यमभिसंबन्धः । परनिन्दा आत्मप्रशंसेति यावत् ।
अनुद्भूतवृत्तिता छादनम् | ३| प्रतिबन्धकहेतुसन्निधाने सति अनुद्भूतवृत्तिताऽनाविर्भावः छादनमित्यवसीयते ।
१- त्वमिति कथ्यते मु०, श्र० । २-णाच्छा - मू० । - गोच्छा - श्र० ।
N