________________
६।२४ ]
षष्ठोऽध्यायः
दर्शन विशुद्धिर्विनयसम्पन्नता शीलवतेष्वन तिचारोऽमीक्ष्णज्ञानोपयोगसंवेग शक्तितस्त्यागतपसी साधुममाधिर्वैयावृत्त्यकरणमर्हदाचार्य बहुश्रुतप्रवचनभक्तिरावश्यका परिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकत्वस्य ॥ २४ ॥
५२६
जिनोपदिष्टे निर्ग्रन्थे मोऩवर्त्मनि रुचिः निःशङ्कितत्वाद्यष्टाङ्गा दर्शन विशुद्धिः |१| ५ जिनेन भगवताऽर्हता परमेष्ठिनोपदिष्टे निर्मन्थलक्षणे मोक्षवर्त्मनि रुचिर्दर्शनविशुद्धिः । तरया अष्टावङ्गानि - निःशङ्कितत्वम्, निःकाङ्क्षता, विचिकित्साविरहः, अमूढदृष्टिता, उपबृंहणम्, स्थितिकरणम्, वात्सल्यम्, प्रभावनं चेति । तत्र इहलोकपरलोकव्याधिमरणासंयं मारक्षणाकस्मिक सप्तविधभयविनिमुक्तता, अर्हदुपदिष्टे वा प्रवचने किमिदं स्याद्वा नवेति शङ्कानिरासो निःशङ्कितत्वम् । उभयलोकविषयोपभोगाकाङ्क्षानिवृत्तिः कुदृष्ट्यन्तराकाङ्क्षानिरासो वा निःकाङ्क्षता । शरीराद्यशुचिस्व - १० भावमवगम्य शुचीति मिथ्यासंकल्पापनयः, अर्हत्यवचने वा इदमयुक्तं घोरं कष्टं न चेदिदं सर्वमुपपन्नमित्यशुभभावनाविरहः निर्विचिकित्सता । बहुविधेषु दुर्नयदर्शन वर्त्मसु तत्त्ववदाभासमानेषु युक्त भावं परीक्षाचक्षुषा व्यवसाय्य विरहितमोहता अमूढदृष्टिता । उत्तमक्षमादिभावनया आत्मनो धर्मपरिवृद्धिकरणमुपबृंहणम् । कषायोदयादिषु धर्मपरिभ्रंशकारणेषु उपस्थितेष्वात्मनो धर्माऽप्रच्यवनं परिपालनं स्थितिकरणम् । जिनप्रणीतधर्मामृते नित्यानुरागता वात्सल्यम् । सम्य- १५ ग्दर्शनज्ञानचारित्ररत्नत्रयप्रभावेन आत्मनः प्रकाशनं प्रभावनम् ।
ज्ञानादिषु तद्वत्सु चादरः कषायनिवृत्तिर्वा विनयसंपन्नता |२| सम्यग्ज्ञानादिषु मोक्षसाधनेषु तत्साधनेषु गुर्वादिषु च स्वयोग्यवृत्त्या सत्कार आदरः कषायनिवृत्तिर्वा विनयसम्पन्नता ।
चरित्र विकल्पेषु शीलवतेषु निरवद्या वृत्तिः शीलवतेष्वन तिचारः |3| अहिंसादिषु व्रतेषु तत्परिपालनार्थेषु च क्रोधवर्जनादिषु शीलेषु निरवद्या वृत्तिः कायवाङ्मनसां शीलव्रतेष्वन- २० तिचार इति कथ्यते ।
ज्ञानभावनायां नित्ययुक्तता ज्ञानोपयोगः |४| मत्यादिविकल्पं ज्ञानं जीवादिपदार्थस्वतत्वविषयं प्रत्यक्ष परोक्षलक्षणम् अज्ञाननिवृत्त्यव्यवहितर्फलं हिताहितानुभयप्राप्तिपरिहारोपेक्षाव्यवहितफलं यत्, तस्य भावनायां नित्ययुक्तता ज्ञानोपयोगः ।
संसारदुःखान्नित्यभीरुता संवेगः | ५| शारीरं मानसं च बहुविकल्पप्रियविप्रयोगाऽप्रिय- २५ संयोगेप्सिताऽलाभादिजनितं संसारदुःखं यदतिकष्टं ततो नित्यभीरुता संवेगः ।
परप्रीतिकरणा तिसर्जनं त्यागः | ६ | आहारो दत्तः पात्राय तस्मिन्नहनि तत्प्रीतिहेतुर्भवति, अभयदानमुपपादितमेकभवव्यसननोदनकरम्, सम्यग्ज्ञानदानं पुनः अनेकभवशतसहस्रदुःखोत्तरकारणम् । अत एतत्त्रिविधं यथाविधि प्रतिपद्यमानं त्यागव्यपदेशभाग्भवति ।
अनिगूहितवीर्यस्य मार्गाविरोधिकायक्लेशस्तपः | ७| शरीरमिदं दुःखकारणमनित्यमशुचि, ३० art भोगविधिना परिपोषो युक्तः, अशुच्यपीदं गुणरत्नसंचयोपकारीति विचिन्त्य विनिवृत्तविषयसुखाभिष्वङ्गस्य स्वकार्यं प्रत्येतद्भुतकमिव नियुञ्जानस्य यथाशक्ति मार्गाविरोधि कायशानुष्ठानं तप इति निश्चीयते ।
१ अगुप्ति । २ अन्राण । ३ व्यवसायवि-ता०, श्र०, मू० द० । निश्चीय । ४ साक्षात्फलम् ।