________________
५
५२८
तत्त्वार्थवार्तिके
[ ६।२२-२३
तिरेवेष्ट्ा स्यात् पृथक्करणमनर्थकं स्यात् पूर्वसूत्रे एवोच्येत । यद्येवं पूर्वसूत्र उक्त आस्रवविधिः अविशेषेण प्रसक्तः, तेन सरागसंयमसंयमासंयमावपि भवनवास्याद्यायुप आस्रवौ प्रसक्तौ ?
न, अतस्तत्सिद्धेः |२| नैष दोषः । कुतः ? अतस्तत्सिद्धेः । यत एव सम्यक्त्वं सौधर्मादिष्विति नियम्यते तत एव तयोरपि नियमसिद्धि:, नासति सम्यक्त्वे सरागसंयमसंयमासंयमव्यपदेश इति ।
आह-आयुषोऽनन्तरं यन्निर्दिष्टं नाम, तस्य क आस्रव इति ? अत्रोच्यते - तन्नाम द्विविधम्अशुभं शुभं चेति । तत्राशुभनामास्रवप्रतिपत्त्यर्थमारभ्यते—
योग वक्रता विसंवादनं चाऽशुभस्य नाम्नः ॥ २२ ॥
कायवाङ्मनसां कौटिल्येन वृत्तिर्योगवक्रता |१| कायवाङ्मनांसि व्याख्यातानि तेषां १० कुटिलता योगवक्रता इत्युच्यते । अनार्जवं प्रणिधानमिति यावत् ।
विसंवादनमन्यथाप्रवर्त्तनम् |२| अन्येन प्रकारेण प्रवर्तनं प्रतिपादनं विसंवादनमिति
विज्ञायते ।
योगवक्रतैवेति चेत्; सत्यम् ; आत्मान्तरेऽपि तद्भावप्रयोजकत्वात् पृथग्वचनम् |३| स्यादेतत् - अन्यथाप्रवर्तनं विसंवादनं तदेव योगवक्रताऽपीति पृथग्ग्रहणमनर्थकमिति; सत्यमेवमेतत् ; १५ किन्तु आत्मान्तरेऽपि तद्भावप्रयोजकत्वात् पृथग्वचनम् । सम्यगभ्युदयनिःश्रेयसार्थासु क्रियासु प्रवर्तमानमन्यं कायवाङ्मनोभिर्विसंवादयति- मैवं कार्षी रेवं कुर्विति कुटिलतया प्रवर्तनं विसंवादनम्, आत्मगता योगवक्रतेत्ययमनयोर्भेद: ।
चशब्दोऽनुक्तसमुच्चयार्थः |४| चशब्दः क्रियते अनुक्तस्यास्त्रवस्य समुच्चयार्थः । कः पुन रसौ ? मिथ्यादर्शन-पिशुनता ऽस्थिरचित्तस्वभावता - कूटमानतुलाकरण- सुवर्णमणिरत्नाद्यनुकृति कुटि२० लसाक्षित्वा ऽङ्गोपाङ्गच्यावन-वर्णगन्धरसस्पर्शान्यथाभावन-यन्त्र पञ्जरक्रिया-द्रव्यान्तरविपयसंबन्धनिकृतिभूयिष्ठता - पर निन्दात्मप्रशंसा ऽनृतवचन-परद्रव्यादान - महारम्भपरिग्रह - उज्वलवेषरूपमंद-परुषा सभ्यप्रलाप - आक्रोश- मौखर्य-सौभाग्योपयोगवशीकरणप्रयोग-परकुतूहलोत्पादनाऽलङ्कारादर - चैत्यप्रदेश गन्धमाल्यधूपादिमोषण-विलम्बनोपहास - इष्टिकापाक दवाग्निप्रयोग-प्रतिमायतनप्रतिश्रयारामोद्यानविनाशन - तीव्रक्रोधमानमायालोभ पापकर्मोपजीवनादिलक्षणः । स एप सर्वोऽशुभस्य नान्न
२५ आस्रवः ।
आह-अथ शुभनामकर्मणः क आस्रव इति ? उच्यते-
तद्विपरीतं शुभस्य ॥ २३ ॥
ऋजुयोगोऽविसंवादनं च तद्विपरीतम् |१| कायवाङ्मनसां ऋजुत्वमविसंवादनं च तद्विपरीतमित्युच्यते । चशब्देन धार्मिकदर्शनसंभ्रम-सद्भावोपनयन-संसरणभीरुता-प्रमादवर्जना३० ऽसंभेदचरिततादयो यधोक्ताऽशुभविपरीता परिणामाः शुभनाम्न आस्रवाः प्रत्येतव्याः ।
आह- किमेतावानेव शुभनामास्रवविधिः, उत कश्चिदस्ति प्रतिविशेषः इति ? उच्यते - यदिदं तीर्थकरनामकर्म अनन्तानुपमप्रभावमचिन्त्यविभूतिविशेषकारणं त्रैलोक्यविजयकरं तस्यास्रवविधिविशेषोऽस्तीति । यद्येवमुच्यतां तस्यास्रव इति ? अत इदमारभ्यते
१ ऋजुयोगाविसं - मू०, ता०, प्र०, द० ।