________________
६।२०-२१ ]
षष्ठोऽध्यायः . सर्वेर्षा ग्रहणं सकलास्रवप्रतिपत्त्यर्थम् ।। सकलस्यायुषः आस्रवप्रतिपत्तिः कथं स्यादिति सर्वेषामित्युच्यते।
देवायुषोऽपि प्रसङ्ग इति चेत्, न; अतिक्रान्तापेक्षत्वात् ।३। यदि सर्वेषां ग्रहणं सकलसंग्रहार्थ क्रियते, देवायुषोऽप्ययमास्रवः प्रसक्तः ? नैष दोषः; अतिक्रान्तापेक्षत्वात् । अतिक्रान्तानामायुषां सर्वेषामास्रव इत्यपेक्ष्यते ।
__पृथक्करणात् सिद्धेरानर्थक्यमिति चेत् ; न; भोगभूमिजार्थत्वात् ।। स्यादेतत्-पृथकरणादेवातिक्रान्तायुस्त्रयापेक्षा सिद्ध्यति । यदि मानुषायुरास्रव एवेष्टः स्यात् तत्रैव क्रियेत, ततः सर्वेषां ग्रहणमनर्थकमिति; तन्नः किं कारणम् ? भोगभूमिजार्थत्वात्। भोगभूमिजापेक्षया निःशोलनतत्वं दैवस्यायुष आस्रव इत्येतस्य प्रदर्शनार्थ सर्वेषामित्युच्यते ।
आह-त्रयाणामास्रवविधिरुक्तः । इदानीं दैवस्यायुषो वित्रियतामिति ? अत्रोच्यते- १० सरागसंयमसंयमासयमाऽकामनिर्जराबालतपांसि देवस्य ॥२०॥
व्याख्याताः सरागसंयमादयः ।। प्राक् शुभपरिणामाः सरागसंयमादयः व्याख्याताः ते दैवस्यायुष आस्रवहेतवो भवन्तीति संक्षेपः । विस्तरस्तु-कल्याणमित्रसंबन्ध-आयतनोपसेवा-सद्धर्मश्रवणगौरवदर्शना-ऽनवद्यप्रोषधोपवास-तपोभावना बहुश्रुतागमपरत्व-कपायनिग्रह-पात्रदान-पीतपद्मलेश्यापरिणाम-धर्म्यध्यानमरणादिलक्षणः सौधर्माद्योयुपः आस्रवः । अव्यक्तसामायिक-विराधित- १५ सम्यग्दर्शनता भवनाद्यायुषः 'महर्द्धिकमानुषस्य वा। पञ्चाणुव्रतधारिणोऽविराधितसम्यग्दर्शनाः तिर्यमनुष्याः सौधर्मादिषु अच्युतावसानेपृत्पपद्यन्ते, विनिपतितसम्यक्त्वा भवनादिषु । अनधिगतजीवाजीवा बालतपसः अनुपलब्धतत्त्वस्वभावा अज्ञानकृतसंयमाः संक्लेशाभावविशेषात् केचिद्भवनव्यन्तरादिषु सहस्रारपर्यन्तेषु मनुष्यतिर्यक्ष्वपि च । अकामनिर्जरा-तुत्तृष्णानिरोध-ब्रह्मचर्य-भूशय्या-मलधारण-परितापादिभिः परिखेदितमूर्तयः चौरकनिरोधबन्धनबद्धाः दीर्घकालरो- २० गिणः असंक्लिष्टाः तरुगिरिशिखरपातिनः अनशन-ज्वलनजलप्रवेशन-विषभक्षणधर्मबुद्धयः व्यन्तरमानुषतिर्यक्षु । निःशीलवताः सानुकम्पहृदयाः जलराजितुल्यरोषा भोगभूमिसमुत्पन्नाश्च व्यन्तरादिषु जन्म प्रतिपद्यन्ते इति ।
उक्तो दैवस्यायुष आक्रान्तभेद आस्रवः । किमेतावानेव देवायुरास्रवविधिः, आहोस्विदन्योऽप्यस्तीति ? अत्रोच्यते
२५
सम्यक्त्वं च ॥ २१ ॥
किम् ? दैवस्यायुपः, 'आस्रवः' इत्यनुवर्तते । उक्तं सम्यक्त्वलक्षणम् ।
अविशेषाभिधानेऽपि सौधर्मादिविशेषगतिः पृथक्करणात् ।। सम्यक्त्वं दैवस्यायुष आस्रव इत्यविशेपाभिधानेऽपि सौधर्मादिविशेषगतिर्भवति । कुतः ? पृथक्करणात् । यद्यविशेषग
१-णागौर-मु०, ब०। २-या॑या-श्र० । -माद्यास्रवः अव्य-ता। -चिायुषः अव्य-मू० । ३ महाऋद्धियुतमहाराजादिः । ४ श्र० प्रती 'अनधिगतजीवाजीवा बालतपसः' इति वार्तिकचिहा. हितम् । ५ गूठपुरुप । ६ सूत्रमेतम्नास्ति भा० १,२।