________________
५२६
तत्त्वार्थवार्तिके
[ ६।१६-१६
भृताभिष्वङ्ग' परिणाम - मैथुनोपसेवनाविरति - महारम्भवशीकृतेन्द्रियता कामभोगाभिलाषप्रवृद्धता - नैःशील्य-पापनिमित्ताहाराभिप्राय-स्थिरवैर-नृशंसासमीक्षितक्रन्दन कारिता- निरनुग्रहस्वाभाव्य-यतिसमयभेद-तीर्थकरासादन- कृष्णलेश्याभिजातरौद्रध्यानमरणकालतादिलक्षणो विज्ञेयः ।
आह-उक्तो नारकस्यायुप आस्रवः, तैर्यग्योनस्येदानीं वक्तव्य इति ? अत्रोच्यतेमाया तैर्यग्योनस्य ॥ १६ ॥
चारित्रमोहोदयात् कुटिलभावो माया |१| चारित्रमोहकर्मोदयाविर्भूत आत्मनः कुटिलस्वभावः मायेति व्यपदिश्यते । सा माया निकृतिस्तैर्यग्योनस्यायुप आस्रव इति संक्षेपः । प्रपवस्तु-मिथ्यात्वोपष्टम्भा धर्मदेशना - ऽनल्पारम्भपरिग्रहाऽतिनिकृति - कूटकर्मा - ऽवनिभेदसदृशरोषनिःशीलता - शब्द लिङ्गवञ्चना-ऽतिसन्धानप्रियता - भेदकरणा-ऽनर्थोद्भावन-वर्णगन्धरसस्पर्शान्यत्वापा१० दन - जातिकुलशीलसंदूषण-विसंवादनाभिसन्धि - मिथ्याजीवित्व - सद्गुणव्यपलोपा - ऽसद्गुणख्या पन-नीलकपोतलेश्या परिणाम आर्तध्यानमरणकालतादिलक्षणः प्रत्येतव्यः ।
आह-व्याख्यातस्तैर्यग्योनस्यायुष आस्रवः । इदानीं मानुपस्यायुषः को हेतुरिति ?
अत्रोच्यते
५
अल्पारम्भपरिग्रहत्वं मानुषस्य ॥ १७ ॥
-
नाकारावविपरीतो मानुषस्य |१| नारकायुरास्रवो व्याख्यातः, तद्विपरीतो मानुषस्यास्रव इति संक्षेपः । व्यासस्तु - मिथ्यादर्शनालिङ्गितमति- विनीतस्वभावता प्रकृतिभद्रता - मार्दवार्जवसमाचार सुखप्रज्ञापनीयता - वालुकाराजिसदृशरोप- प्रगुणव्यवहारप्रायता - ऽल्पारम्भपरिग्रह-स न्तोपाभिरति-प्राण्युपघातविरमण प्रदोपविकर्मनिवृत्ति "स्वागताभिभाषणा- मौखर्य-प्रकृतिमधुरता - लोकयात्रानुग्रह औदासीन्याऽनुसूया - ऽल्पसंक्लेशता गुरुदेवताऽतिथिपूजासंविभागशीलता कपोत२० पीतलेश्योपश्लेप-धर्मध्यानमरणकालतादिलक्षणः ।
किमेतावानेवायुपो मानुपस्यास्रव इति ? उच्यते
१५
-
स्वभावमार्दवं च ॥ १८ ॥
"
उपदेशानपेक्षं स्वभावमार्दवम् |१| मृदोर्भावः कर्म वा मार्दवम् स्वभावेन मार्दवं स्वभा वमार्दवम् । उपदेशानपेक्षमित्यर्थः । ननु पूर्वत्र व्याख्यातमिदं पुनर्ग्रहणमनर्थकं सूत्रेऽनुपात्तमिति २५ कृत्वा पुनरिदमुच्यते ।
३०
एकयोगीकरणमिति चेत्; न; उत्तरापेक्षत्वात् |२| स्यान्मतम् - एको योगः कर्तव्यः‘अल्प।रम्भपरिग्रहत्वं स्वभावमार्दवं मानुषस्य' इति; तन्न; किं कारणम् ? उत्तरापेक्षत्वात् । दैवस्यायुषः कथमयमास्रवः स्यादिति पृथक्करणम् ।
किमेतदेव द्वितयं मानुषस्यास्रवः ? नेत्युच्यते
निःशीलव्रतत्वं च सर्वेषाम् ॥
१९ ॥
चशब्दोऽधिकृतसमुच्चयार्थः |१| अल्पारम्भपरिग्रहत्वं मानुषस्यायुषः निःशीलत्रतत्वं चेत्यधिकृतसमुच्चयार्थश्चशब्दः क्रियते । शीलानि च व्रतानि च शीलव्रतानि, निष्क्रान्तः शीलव्रतेभ्यः निःशीलव्रतः, तस्य भावः निःशीलत्रतत्वम् ।
१ आसक्ति । २ शब्दलिङ्गवचना-ता०, श्र०, मू० द० | ३ विक्रयार्थम् । ४ मानुषरयायुष इ- मु० । ५ क्षेमवार्ता । ६ पूर्वसू ।