________________
५२५
६।१५ ]
षष्ठोऽध्यायः
तीव्र परिणामशब्द (बुक्तार्थौ |२| “तीव्रमन्द” [ त० सू० ६।६ ] इत्यत्र तीव्रशब्दो व्याख्यातार्थः " तद्भावः परिणामः” [ त० सू० ५/४१ ] इत्यत्र परिणामशब्दो वर्णितार्थः ।
चारित्र मोहयति मोहनं वा चारित्र मोहः | ३| चारित्रमुक्तलक्षणम्, तन्मोहयति मोहनं वा तस्य चारित्रमोह इति निर्धियते, तस्य चारित्रमोहस्य कषायोदयनिमित्तः तीव्रपरिणामो यः स आस्रव इति वेदितव्यः । स किंस्वरूप इति चेत् ? उच्यते - जगदनुग्रहतन्त्र शीलव्रतभावितात्मत- ५ परिवजनगर्हण धर्मावध्वसंन-तदन्तरायकरण-शीलगुणदेश संयतविरतिरतिप्रच्यावन-मधुमद्यमांसविरतचित्तविभ्रमापादान-वृत्त संदूषण - संक्लिष्टलिङ्गव्रतधारण-स्वपरकषायोत्पादनादिलक्षणः कषायवेदनीयस्यास्रवः । उत्प्रहास- दीनाभिहासित्व- कन्दर्पोपहसन - बहुप्रलापोपहासशीलता हास्यवेदनीयस्य । विचित्रपरक्रीडन - परसौचित्यार्वर्जन-बहुविधपीडाभाव-देशाद्यनौत्सुक्यप्रीतिसंजननादिः रतिवेदन - यस्य । परारतिप्रादुर्भावन- रतिविनाशन- पापशीलसंसर्गता ऽकुशलक्रियाप्रोत्साहनादिः अरतिवेदनीय- १० स्य । स्वशोकाऽमो दशोचन - परदुःखाविष्करण-शोक प्लुताभिनन्दनादिः शोकवेदनीयस्य । स्वयं भयपरिणाम - परभयोत्पादन निर्दयत्व-त्रासनादिर्भयवेदनीयस्य । सद्धर्मापन्नचतुर्वर्णविशिष्टवर्गकुल क्रियाचारप्रवणजुगुप्सा-परिवादशीलत्वादिर्जुगुप्सा वेदनीयस्य । प्रकृष्टक्रोधपरिणामातिमानितेर्ष्याव्यापारालीकाभिधायिता ऽतिसन्धानपरत्व-प्रवृद्धराग- पराङ्गनागमनादर - वामलोचनाभावाभिष्वङ्गतादिः स्त्रीवेदस्य । स्तोकक्रोध- जैह्म निवृत्त्यनुत्सिक्तत्वा-लोभ भावाऽङ्गनासमवायाल्परागत्व-स्वदारसन्तोषे - १५ र्ष्याविशेषोपरम-स्नानगन्धमाल्याभरणानादरादिः पुंवेदनीयस्य । प्रचुर क्रोधमानमायालोभपरिणाम-गुह्येन्द्रियव्यपरोपण - स्त्रीपुंसानङ्गव्य सैनित्व - शीलत्रतगुणधारिप्रव्रज्याश्रितप्रम ( मैं ) थुन - पराङ्गना - वस्कन्दर्नरागतीव्रानाचारादिर्नपुंसकवेदनीयस्य ।
आह- मोहनीयस्याने कविकल्पस्यास्रवभेदो निर्दिष्टः । इदानीम् आयुश्चतुष्टयस्यास्त्रवभेदो वक्तव्य इति । तत्राद्यस्य नियतकालपरिपाकस्यायुषः कारणप्रदर्शनार्थमिदमुच्यते
बह्वारम्भपरिग्रहत्वं नारकस्यायुषः ।। १५ ।।
संख्यावैपुल्यवाचिनो बहुशब्दस्य ग्रहणमविशेषात् |१| अयं बहुशब्दः अस्त्येव संख्यापदम् - एकः द्वौ बहव इति । अस्ति वैपुल्यवाची बहुरोदनो बहुसूप इति । तस्य द्विप्रकारस्यापि ग्रहणमिह न विरुध्यते । कुतः ? अविशेषात् ।
२०
आरम्भो हैंस्रं कर्म |२| हिंसनशीलाः हिंस्राः, तेषां कर्म हैंस्रम् आरम्भ इत्युच्यते । बहव २५ आरम्भाः बह्वारम्भाः, बहुर्वा आरम्भो बह्वारम्भः ।
ममेदमिति संकल्पः परिग्रहः | ३| ममेदं वस्तु अहमस्य स्वामीत्यात्मात्मीयाभिमानः संकल्पः परिग्रह इत्युच्यते । बह्वारम्भाः परिग्रहा यस्य स बह्वारम्भपरिग्रहः तस्य भावः बह्वारम्भपरिग्रहत्वं नारकस्यायुषः आस्रवो भवति । एतदुक्तं भवति परिग्रहप्रणिधानप्रयुक्ताः तीव्रतरपरि - णामा हिंसापरा बहुशो विज्ञाता ह्यनुमता भाविताश्च तत्कृतकर्मात्मसात्करणात् तप्तायः पिण्डवत् ३० आहितक्रौर्या नारकस्यायुषः आस्रव इति संक्षेपः । तद्विस्तरस्तु मिथ्यादर्शनाश्लिष्टाचारतोत्कृष्टमानता - शैलभेदसदृशरोष- तीव्रलोभानुरागा ऽनुकम्पाहीनभाव-परपरितापान्तः प्राणिधान - वधबन्धनाभिनिवेश-प्राणभूतजीवसत्त्वाजस्रोपघातपरिणाम - प्राणवधात्मकानृतवचनशीलत्व - परस्वहरणानि -
१ आपादन | २ प्रीत्यथं परशोचनम् । ३- भत्वाङ्गना-मु०, द० । ४ शिश्नादिच्छेदन । ५ अनङ्गक्रीडा | ६ हठात् बलाभियोगेन स्वसात्करणम् । ७- क्रोधार्यां द० । - क्रोधाद्यर्था मु० । ८ प्राणाः पञ्चेन्द्रिया ज्ञेयाः सवाः साधारणाह्वयाः । प्रत्येकधातवो भूता जीवास्तु विकलेन्द्रियाः ॥