________________
५२२
तत्त्वार्थवार्तिके
[६१२
वत ।२०। यथा
तथा अनातत्वे
अनुग्रहवुद्धया तव्यापाराद्गण्डे पाटनवत् ।२०। यथा भिषक करुणाकृतचेताः संयतस्योपरि अनुग्रहबुद्धया गण्डं पाटयंस्तत्र क्रोधाद्यभावात् नापुण्यं बध्नाति, तथा अनादिसांसारिकजातिजरामरणवेदनाजिघांसां प्रत्यागूर्गा यतिः तदुपाये प्रवर्तमानः स्वपरस्थदुःखादिहेतुत्वे सत्यपि क्रोधाद्यभावात् पापस्याबन्धकः । किञ्च,
मनोरत्या सौख्याभिधानात् ।२१। यथा दुःस्वाभिभूतानामपि संसारिणां यत्र मनोरतिस्तत्र सौख्यं तथा अनशनादिकरणस्य यतेमनोरतिसौख्यसान्निध्याददोषः । उक्तञ्च
"पुरे वने वा स्वजनेऽजने वा प्रासादशृङ्गे दुमकोटरे वा ।
प्रियाङ्गनाऽङ्कऽथ शिलातले वा मनोरति सौख्यमुदाहरन्ति ॥" [ ] इति । यद्यसद्वेद्यस्यामी प्रयोगाः यथा द्वितीयस्य क आस्रवा इति ? उच्यन्तेभूतव्रत्यनुकम्पादानसरागसंयमादियोगः शान्तिः शौचमिति
सवेद्यस्य ॥ १२॥ आयुनामकोदयवशाद्भवनाद् भूतानि ।। तासु तासु योनिष्वायुर्नामकर्मोदयवशाद्भवनाद्भूतानि सर्वे प्राणिन इत्यर्थः ।
वताभिसंबन्धिनो प्रतिनः ।। व्रतानि वक्ष्यन्ते अहिंसादीनि, तदभिसंबन्धिनो ये ते १५ वतिनः । ते द्वधा अगारं प्रति निवृत्तौत्सुक्याः संयताः, गृहिणश्च संयतासंयताः।
अनुकम्पनमनुकम्पा ।३। अनुग्रहार्दीकृतचेतसः परपीडामात्मस्थामिव कुर्वतोऽनुकम्पनमनुकम्पा । भूतानि च व्रतिनश्च भूतव्रतिनः, भूतत्रतिष्वनुकम्पा भूतव्रत्यनुकम्पा । “सोधनं कृता बहुलम्" [जैनेन्द्र० १॥३।२६] इति वृत्तिः । यथा गलचोपक इति । मयूरव्यंसकादित्वाञ्च ।
स्वस्य परानुग्रह बुध्या अनिसर्जनं दानम् ।४। आत्मीयस्य वस्तुनः परानुग्रहबुद्धथा २० अतिसर्जनं दानमिति कथ्यते ।
सम्परायनिवारणप्रयणोऽक्षीणाशयः सरागः ।। पूर्वोपात्तकर्मोदयवशादक्षीणाशयः सन् सम्परायनिवारणं प्रत्यागूर्णमनाः सराग इत्युच्यते ।
प्राणोन्द्रियष्वशुभप्रवृत्तेविरतिः संयमः ।। प्राणिवेकेन्द्रियादिषु चक्षुरादिष्विन्द्रियेषु च अशुभप्रवृत्तर्विरतिः संयम इति निश्चीयते । सरागस्य संयमः सरागसंयमः, सरागो वा संयमः २५ सरागसंयमः ।।
आदिशब्देन संयमाऽसंयमाऽकामनिर्जरावालतपोऽनुरोधः 11 संयमासंयमः अकामनिर्जरा बालतप इत्येतेषामादिशब्देनानरोधः क्रियते । तत्र संयमासंयमः अनात्यन्तिकी विरतिः । विषयाऽनर्थनिवृत्तिं चात्माभिप्रायेणाकुर्वतः पारतन्त्र्याद्भोगोपभोगनिरोधोऽकामनिर्जरा । यथार्थप्र.
तिपत्त्यभावादज्ञानिनो बाला मिथ्यादृष्टयादयस्तेषां तपः बालतपः अग्निप्रवेश-कारीपसाधनादि ३० प्रतीतम्।
निरवद्यक्रियाविशेषानुष्ठानं योगः ।। निरवस्य क्रियाविशेषस्यानुष्ठानं योगः समाधिः, सम्यक प्रणिधानमित्यर्थः । 'दण्डभावनिवृत्त्यर्थं च तस्य ग्रहणं क्रियते । भूतव्रत्यनुकम्पादानं च सरागसंयमादयश्च भूतव्रत्यनुकम्पादानसरागसंयमादयस्तेषां योगः भूतव्रत्यनुकम्पादानसरागसंयमादियोगः ।
गण्डः कपोलपिटके योगभेदे च गण्डके । गण्डः प्रवरे चिह्न स्यादश्वभूषणबुदबुदे ॥ २ आरम्भं " प्रति मु०, द०, ता०, ब०। ३ समासः-सम्या० । ४-द्यक्रिया-श्र० । ५ उपाधि ।