________________
६।१३ ]
१०
षष्ठोऽध्यायः
५२३ धर्मप्रणिधानात्क्रोधादिनिवृत्तिः क्षान्तिः ।।। क्रोधादेः कषायस्य शुभपरिणामभावनापूर्विका निवृत्तिः शान्तिरित्युच्यते । ननु क्षमूपिति षित्त्वात् अङि क्षमेति भवितव्यम्; सत्यमेवमेतत् , यदि भूवादिषु पठितस्य ग्रहणं स्यात् । इदं दिवादिपठितस्य तमू सहने इत्यस्य रूपम् ।
. लोभप्रकाराणामुपरमः शौचम् ।१०। लोभप्रकारेभ्यः उपरतः शुचिरित्युच्यते, तस्य भावः कर्म वा शौचम् । के पुनर्लोभप्रकाराः ? स्वद्रव्यात्याग-परद्रव्यापहरण-सान्यासिकनिह्नवादयः । ५
इतिकरणः प्रकारार्थः ॥११॥ हेत्वेवंप्रकारादिव्यवच्छेदादिषु दृष्टप्रयोग इतिशब्दः, तत्रेह प्रकारार्थो गृह्यते । एवंप्रकाराः सवेद्यस्यास्रवा इति । . वृत्तिप्रसङ्गो लघुत्वादिति चेत्, न; अन्योपसंग्रहार्थत्वात् ।१२। स्यान्मतम्-वृत्तिरत्र न्याय्या संयमादियोगक्षान्तिशौचानीति । कुतः ? लघुत्वादिति; तन्नः किं कारणम् ? अन्योप संग्रहार्थत्वात् ।
इतिकरणानर्थक्यमिति चेत् ; न उभयग्रहणस्य व्यक्तयर्थत्वात् ।१३। स्यादेतत्-यद्यवृत्तिकरणमन्योपसंग्रहार्थम्, इतिशब्दोपादानस्यापि तदेव प्रयोजनमिति तस्यानर्थक्यमिति; तन्न; किं कारणम् ? उभयग्रहणस्य व्यक्तथर्थत्वात् । व्यक्तथर्थमुभयं गृह्यते । के पुनस्ते गृह्यमाणाः ? अर्हत्पूजाकरणपरता-बालवृद्धतपस्विवैयावृत्त्योद्योगार्जविनयप्रधानतादयः । ।
व्रतिग्रहणमनर्थकमिति चेत् ;न; प्राधान्यख्यापनार्थत्वात् ।१४। स्यान्मतम्-भूतग्रहणादेव १५ सिद्धं व्रतिग्रहणमनर्थक सामान्यनिर्देशस्य सर्वविशेषव्यापि त्वाविरोधादिति; तन्न; किं कारणम् ? प्राधान्यख्यापनार्थत्वात् । भूतेषु याऽनुकम्पा तस्या ब्रतिष्वनुकम्पा प्रधानभूतेत्ययमर्थः ख्याप्यते ।
नित्यानित्यात्मकत्वे अनकम्पादिसिद्धि न्यथा ।२शदव्यत्वाद्यन्वयादेशान्नित्यतामजहतः नैमित्तिकपरिणाममुखेनानित्यतामास्कन्दतः जीवस्यानुकम्पादयः परिणामविशेषा युज्यन्ते नान्यथा। यदि नित्यत्वमेव स्यात् ; विक्रियाऽभावात अनुकम्पादिपरिणत्यभावः, तदभ्युपगमे च नित्यताव्या- २० घातः। क्षणिकैकान्तेऽपि पूर्वोत्तरावग्राहकैकविज्ञानाभावात् अनुकम्पादिप्रच्यवः । संस्कारादिति चेत् ; न; तस्याप्यनित्यत्वात् । ज्ञानाऽज्ञानभावे चाऽनुपपत्तः ।
आह-उक्ता सदसत्प्रकारस्य वेदनीयस्योपादानहेतवः । अथ अनन्तरस्यानन्तप्रवाहसंसारास्पदकारणस्य मोहस्यात्मलाभे को हेतुरिति ? अत्रोच्यते
केवलिश्रुतसङ्घधर्मदेवाऽवर्णवादो दर्शनमोहस्य ॥ १३ ॥ २५
करणक्रमव्यवधानातिवर्तिशानोपेताः केवलिनः ।। करणं चक्षुरादि, कालभेदेन वृत्तिः क्रमः, कुडयादिनाऽन्तर्धानं व्यवधानम् , एतान्यतीत्य वर्तते, ज्ञानावरणस्यात्यन्तसंक्षये आविर्भूतमात्मनः स्वाभाविकं ज्ञानम् , तद्वन्तोऽर्हन्तो भगवन्तः केवलिन इति व्यपदिश्यन्ते ।
तदुपदिष्टं बुद्धचतिशयद्धियुक्तगणधरावधारितं श्रुतम् ।। तैर्व्यपगतरागद्वेषमोहैरुपदिष्टं बुद्धचतिशयर्द्धियुक्तैः गणधरैरवधारितं श्रुतमित्युच्यते । तद्विस्तरतो व्याख्यातम् ।
रत्नत्रयोपेतः श्रमणगणः सङ्घः ।३। सम्यग्दर्शनादिरत्नत्रयभावनापराणां चतुर्विधानां श्रमणानां गणः सङ्घ इति कथ्यते ।
'पिचिन्ति' इत्यादि सूत्रेण । २ अवृत्तिकरणमितिकरणमिति । ३-पिस्वात् विरोधा-श्र० । ततः । ५ संस्कारस्तावत् ज्ञानं वा स्यात् , अज्ञानं वा? यदि ज्ञानम्; तस्य उक्तदोषत्वादनुपपत्तिः । यद्यज्ञानम् ; भनवबुदस्वभावत्वात्तस्यानुपपत्तिः । ६ श्रुतमपि जिनवरविहितं गणधररचितमिति श्रुतभक्तावुक्तत्वात् ।