________________
५२१
"६।११]
षष्ठोऽध्यायः आत्मस्थानि भवन्ति । यदा पुनरीश्वरः कषायवशात् परस्य दुःखादीनि जनयति तदा परस्थानि भवन्ति । यदा तूत्तमर्णादयः अधमर्णादिनिरोधे वर्तमानाः तज्जनितानि सुत्पिपासादीनवाप्नुवन्ति तदोभयस्थानि।
विद्यादीनामवगमनाद्यर्थत्वादनिर्देश इति चेत् ; न; विदेश्चेतनार्थस्य ग्रहणात् ।१२। स्यान्मतम्-इमे चत्वारो विदयः विदविद्लविन्तिविद्यतयः अवगमनलाभविचारसद्भावार्थाः, ५ एतेषां कस्यचिदपि संग्रहे अभिप्रेतस्यार्थस्याऽगतेरनिर्देश इति; तन्नः किं कारणम् ? विदेश्चेतनार्थस्य ग्रहणात् । विदेः चुरादिण्यन्तस्य चेतनार्थस्येदं वेद्यमिति ।
तदसद्वेद्यमप्रशस्तत्वात् ।१३। तद्वद्यमसदिति विशेष्यते । कुतः ? अप्रशस्तत्वात् । अनिष्टफलप्रादुर्भावकरणत्वादप्रशस्तमित्याख्यायते ।
__दुःखाभिधानमादौ प्रधानत्वात् ।१४। दुःखग्रहणमादौ क्रियते। कुतः ? प्रधानत्वात् । १० कुतः पुनरस्य प्राधान्यम् ? तद्विकल्पत्वात् इतरेषाम् । किमेतावन्त एव विकल्पाः ? नेत्याह
शोकादिग्रहणस्य विकल्पोपलक्षणत्वादन्यसंग्रहः ॥१५॥. इमे शोकादयः दुःखविकल्पा दुःखविकल्पानामुपलक्षणार्थमुपादीयन्ते, ततोऽन्येषामपि संग्रहो भवति । के पुनस्ते ? अशुभप्रयोगपरपरिवाद-पैशुन्य-अनुकम्पाऽभाव-परपरितापनाऽङ्गोपाङ्गच्छेदन-भेदन-ताडन-त्रासन-तर्जन-भर्त्स - न-तक्षण-विशंसन-बन्धन-रोधन-मर्दन-दमन-वाहन-विहेडन-हेपण-कायरौक्ष्य-परनिन्दात्मप्रशंसा-सं- १५ क्लेशप्रादुर्भावनायुर्वहमानता-निर्दयत्व-सत्त्वव्यपरोपण-महारम्भपरिग्रह-विश्रम्भोपघात-वक्रशीलतापापकर्मजीवित्वाऽनर्थदण्ड-विष मिश्रण-शरजालपाशवागुरापञ्जरयन्त्रोपायसर्जन-बलाभियोग-श - स्व-प्रदान-पापमिश्रभावाः । एते दुःखादयः परिणामा आत्मपरोभयस्था असद्वेद्यस्यास्रवा वेदितव्याः ।
स्वतीर्थकरोपदेशविरोधादयुक्तिरिति चेत् ; न; सर्वथा प्रश्नविनिवृत्तेः ।१६। स्यादेतत्यदि दुःखाधिकरणमसद्वद्यहेतुः, ननु नाग्न्यलोचाऽनशनादितपःकरणं दुःखहेतुरिति तदनुष्ठा- २० नोपदेशनं स्वतीर्थकरस्य विरुद्धम् , तदविरोधे च दुःखादीनामसद्वद्यास्रवस्यायुक्तिरिति; तन्न; किं कारणम् ? सर्वथा प्रश्नविनिवृत्तः । न तावदाहतस्य प्रश्न उपपद्यते-स्वतीर्थकरोपदेशव्याघातप्रसङ्गात् । यस्य क्षणिकवादः तस्यापि न युज्यते, 'सर्वदुःखशून्यानात्मकत्वाभ्युपगमे हिंसादिवत् दानादेरप्यकुशलत्वं दुःखहेतुतुल्यत्वादिति । तथेतरेषामपि हिंसादीना दुःखहेतुत्वेन पापात्रवहेतूनभ्युपगच्छतां यमनियमपरिपालनविविधवेषानुष्ठानदुश्चरोपवासब्रह्मचर्यादीनां दुःखहेतुत्वात् २५ तदनुष्ठानविरोधप्रसङ्गान्नोपपद्यते प्रश्नः । किञ्च,
द्वेषासंभवात् ।१७। यथा अनिष्टद्रव्यसंपर्काद् द्वेषोत्पत्तौ दुःखोत्पत्तिः न तथा बाह्याभ्यन्तरतपःप्रवृत्तौ धर्मध्यानपरिणतस्य यतेरनशनकेशलुचनादिकरणकारणापादितकायक्लेशेऽस्ति द्वेषसंभवः, तस्मानासद्वद्यबन्धोऽस्ति । क्रोधाद्यावेशे हि सति स्वपरोभयदुःखादीनां पापासवहेतुत्वमिष्टं न केवलानाम् । किञ्च,
३० आहितप्रसादत्वात् ।१८। यथा यतिरहिंसादिकरणकारणोद्यतत्वादाहितप्रसादः तथा अयमपवासादिकरणकारणेऽप्याहितप्रसादः अनशनादितपः करोतीति दुःखाद्यभावः। किञ्च,
प्रायश्चित्तोपदेशात् ।१६। कादाचित्कान्यकारणाविर्भूतक्रोधादिपरिणामे च सति तदुत्सि'मृक्षार्थ प्रायश्चित्तविधानं क्रियते, ततः कथमिव यतेः अनशनादितपश्चरणे क्रोधादिपरिणामो भवेत् ? किञ्च,
१ विदिश्चेतनाल्याननिवासनेषु इति चौरादिकः । २ शोकादीनाम् । ३-विषवित्राण-श्र० । ४ सर्वदुःखमित्यादि । ५ निवारणार्थम् ।
३५