________________
५२०
तत्त्वार्थवार्तिके
[६११ दुःखजातीयत्वात् सर्वेषां पृथगपचनमिति चेत् ; न; कतिपयविशेषसंबन्धेन तजात्याख्यानात् ।७। स्यान्मतम्-शोकादयो हि सर्वे दुःखजातीयाः ततो दुःखग्रहणादेव सिद्ध पृथगेषां वचनमनर्थकमिति; तन्नः किं कारणम् ? कतिपयविशेषसंबन्धेन तज्जात्याख्यानात् । यथा गौरित्युक्ते अनितिविशेषे तत्प्रतिपादनार्थ खण्डमुण्डशुक्लकृष्णाद्यपादानं क्रियते, तथा दुःखविषयात्रवाऽसंख्येयलोकभेदसंभवात् दुःखमित्युक्त विशेषानिर्ज्ञानात् कतिपयविशेषनिदर्शनेन तद्विवेकप्रतिपत्तिः कथं स्यादिति शोकाद्युपादानं क्रियते । एते खल्वपि विधयः सुपरिगृहीता भवन्ति येषु लक्षणं च प्रपञ्चश्चेति ।
कथञ्चिदन्यत्वोपपत्तेश्च ।८। यथा मृत्पिण्डघटकपालादीनां मूर्तिमद्रपद्रव्यार्थादेशात् स्यादनन्यत्वम् , प्रतिनियतसंस्थानादिपर्यायादेशात् स्यादन्यत्वम्, तथा : कतापाक्रन्दनवधपरि१० देवनानामप्रीतिसामान्यादेशात् स्याद्दुःखपरिणामादनन्यत्वम् , प्रत्यर्थनियतहेतुभेदाहितविशेषदुःखशोकतापाक्रन्दनवधपरिदेवनपर्यायादेशात् स्यादन्यत्वम् ।
दुःखादीनां कर्नादिसाधनभावः पर्यायिपर्याययोर्भेदाभेदवित्रक्षोपपत्ते ।।६। दुःखादीनां शब्दानां कर्नादिसाधनत्वमवसेयम् । कुतः ? पर्यायिपर्याययोर्भेदाभेदविवक्षोपपत्तः। यदा पर्यायि
पर्याययोरभेदविवक्षा तदा तप्तायःपिण्डवत्तत्परिणामादात्मैव दुःखयतीति कर्तृसाधनत्वम् । यदा १५ पर्यायिपर्याययोर्भेदविवक्षा तदा दुखयत्यनेनास्मिन्निति वा दुःखमिति करणादिसाधनत्वम् । वस्तुस्वरूपमात्रकथनात् दुःखनं दुःखमिति भावसाधनत्वं वा । एवं शोकादिष्वपि योज्यम् ।
___ तदेकान्तावधारणेऽनुपपन्नम् अन्यतरैकान्तसंग्रहात् ।१०। कादिसाधनत्वं दुःखादीनामेकान्तावधारणेऽनुपपन्नम् ? कुतः अन्यतरैकान्तसंग्रहात् । पर्यायमात्रत्वे तावदसत्यात्मनि विज्ञानादीनां करणा दिसाधनत्वमयुक्तं कर्तुरभावात् । स्वातन्त्र्यशक्तिविशिष्टार्थापेक्षाणि हि शेषकारकाणि तदभावादभावमास्कन्देयुः । कर्तृसाधनत्वमपि-चायुक्तम्', करणादिसाचिव्यव्यपेक्षाभावात् । न च तेषां विज्ञानादीनां परस्परं प्रति साचिव्यमस्ति युगपदुपजायमानत्वात् सव्येतरगोविषाणवत् । नाप्यतीतानागतानां वर्तमानं प्रति सहायभावोऽस्ति असत्त्वाद् वन्ध्यापुत्रवत् । क्षणिकत्वाच्च पूर्वानुभूतस्मरणाभावात् शोकादिपरिणामाऽभावः । पूर्वानुभूतं हि अर्थ विनष्टं चिन्तयतः शोकादयो
भवन्ति । न च क्षणिकवादे स्मरणमस्ति, तदभावाच्छोकाद्यभावः । सन्तानादिति चेत् । न तदभा२५ वादित्युक्तत्वात् । भावसाधनत्वमपि नोपपत्तिक्षमम् , भाववन्तमन्तरेण भावस्य वृत्त्यभावात् ।
द्रव्यमानत्वे च क्रियागुणविरहात् पुरुषस्य निर्गुणत्वं निष्क्रियत्वं च दधानस्य सुखदुःखादिपरिणामप्राप्तिं प्रति कतृत्वाभावः। तदभावात् करणादीनामप्यभावः। अथ कादिसाधनभावः कल्प्यते; न तर्हि निर्गुणत्वं निष्क्रियत्वं चात्मनोऽवतिष्ठते ।
___ तथा अचेतनस्यापि दुःखादिपरिणामं प्रति कर्तृभावोऽनुपपन्नः, दुःखादीनां घटादिष्वचेतनेष्वदर्शनात् । यद्यचेतनस्यापि दुःखादयोऽभ्युपगम्येरन् । चेतनाचेतनयोरविशेषः स्यात् । 'निष्क्रियत्वेऽप्यधर्मनिमित्ताः पुरुषस्य दुःखादय इति चेत् ; न; निष्क्रियस्य धर्माधर्मोपार्जनविध्यभावात् तत्फलानुभवनाभावाच्च ।
तान्यात्मपरोभयस्थानि क्रोधाद्यावशात् ।११। तानि दुःखादीनि क्रोधाद्यावेशात् आत्मपरोभयस्थानि भवन्ति । तद्यथा, यदा क्रोधाद्याविष्ट आत्मा स्वस्मिन् दुःखादीन्युत्पादयति तदा
२०
१ कर्तृत्वसाध-मु०, अ०, मू०, ता० । २ चक्रचीवरादीमि। ३-बाबुकं करणादिसाध्यव्यमु०, द० । ४ प्रधानस्यापि । ५ नैयायिकः।