________________
६।११ ] पष्ठोऽध्यायः
५१६ कारणाभावात् । न मनःपर्ययदर्शनावरणमस्ति दर्शनावरणचतुष्टयोपदेशात् , तदभावात् तत्क्षयोपशमाभावे तन्निमित्तमनःपर्ययदर्शनोपयोगाभावः । किञ्च,
परकीयमनःप्रणालिकया तदधिगमात् ।।६। मनःपर्ययज्ञानं स्वविषये अवधिज्ञानवत् न स्वमुखेन वर्तते । कथं तहिं ? परकीयमनःप्रणालिकया। ततो यथा मनोऽतीतानागतानांश्चिन्त-" यति न तु पश्यति तथा मनःपर्ययज्ञान्यपि भूतभविष्यन्तौ वेत्ति न पश्यति । वर्तमानमपि मनो ५ 'विपयविशेषाकारेणेव प्रतिपद्यते, ततः सामान्यपूर्वकवृत्त्यभावात् मनःपर्ययदर्शनाभावः, अलमतिप्रसङ्गिन्या कथया । प्रकृतं प्रस्तृयते
भिनास्रवत्वं वा प्रदंपादीनां विषयभेदानेदसिद्धः।२०। अथवा, भिन्नास्रवत्वं ज्ञानदर्शनावरणयोर्वेदितत्यम । कुतः? पदोंपादीनां विपयभेदाद्भदसिद्धेः । ज्ञानविषया हि प्रदोषादयो ज्ञानावरणस्यानवाः, दर्शनविषयाश्च दर्शनावरणस्येति । अपि च, आचार्योपाध्यायप्रत्यनीकत्व- १० अकालाध्ययन-श्रद्धाऽभाव - अभ्यासालस्य-अनादरार्थश्रवण-तीर्थोपरोध-बहुश्रुतगर्व-मिथ्योपदेशबहुश्रुतावमान-स्वपक्षपरिग्रहपण्डितत्व-स्वपक्षपरित्याग-अबद्धप्रलाप - उत्सूत्रवाद-साध्यपूर्वकज्ञाना - धिगम-शास्त्रविक्रय-प्राणातिपातादयः ज्ञानावरणस्यास्रवाः । दर्शनमात्सर्याऽन्तराय-नेत्रोत्पाटनेन्द्रियप्रत्यनीकत्व-दृष्टिगौरव-आयतस्वापिता-दिवाशयनालस्य-नास्तिक्यपरिग्रह-सम्यग्दृष्टिसंदृपण-कुतीर्थप्रशंसा-प्राणव्यपरोपण-यतिजनजुगुप्सादयो दर्शनावरणस्यास्रवाः, इत्यस्ति आस्रवभेदः ।
यथा अनयोः कमेप्रकृत्योरास्रवभेदस्तथा
दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थानि
__ असवेद्यस्य ॥ ११ ॥
पीडालक्षणः परिणामो दुःखम् ।। विरोधिद्रव्योपनिपाताभिलपितवियोगाऽनिष्टनिष्ठुरश्रवणादिबाह्यसाधनापेक्षात् असद्वद्योदयादुत्पद्यमानः पीडालक्षणः परिणामो दुःखमित्याख्यायते। २०
अनुप्राहकसम्बन्धविच्छेदे वैलव्यविशेषः शोकः ।। अनुग्राहकस्य वान्धवादेःसंबन्धविच्छेदे तद्वताशयस्य चिन्ताखेढलक्षा: परिणामो वैक्लव्यविशेपो मोहकर्मविशेषशोकोदयापेक्षः शोक इत्युच्यते ।
. परिवादादिनिमित्तादाविलान्तःकरणस्य तीव्रानुशयसापः ।। परिवादः परिभवः, परुपवचनश्रवणादिनिमित्तापेक्षया कलुपान्तःकरणस्य तीत्रानुशयः परिणामः ताप इत्यभिधीयते । २५
__ परितापजाश्रुपातप्रचुरविलापाद्यभिव्यक्तं क्रन्दनमाक्रन्दनम् ।४। परितापनिमित्तेनाश्रुपातप्रचुरविलापेनाङ्गविकारादिना चाभिव्यक्तं क्रन्दनमाक्रन्दनं प्रत्येतव्यम् ।
- आयुरिन्द्रियवलप्राणवियोगकरणं वधः । भवधारणकारणस्यायुपः रूपादिग्रहणनिमित्तानाम् इन्द्रियाणां कायादिवर्गणालम्बनबलस्योच्छासनिःश्वासलक्षणस्य च प्राणस्य परस्परतो वियोगकरणं वध इत्यवधार्यते ।
संक्लेशप्रवणं स्वपरानुग्रहाभिलाषविषयमनुकम्पाप्रायं परिदेवनम् ।६। संशपरिणामालम्बनं स्वपरानुग्रहाभिलाषविषयम् अनुकम्पाप्रचुरं परिदेवनमिति परिभाष्यते ।
-विषये वि-मु०, २०, ब०। २ दिव्यध्वनिकाले स्वयं व्याख्याकरणम् । ३-पादभि-श्र० । -~-कंक्रन्दनं प्रत्ये-40, ता०, मू०,१०।