________________
१०
तत्त्वार्थवार्तिके
[६१० तुल्यास्रवत्वादकत्वमिति चेत् ;न; वचनविरोधात् ।१०। स्यान्मतम्-तुल्यास्रवत्वादनयोरेकत्वं प्राप्नोति, तुल्यकारणानां हि लोके एकत्वं दृष्टमिति तन्नः किं कारणम् ? वचनविरोधात् । यदि तुल्यास्रवत्वात् ज्ञानदर्शनावरणयोरेकत्वं ननु कण्ठादिसंयोगविभागतुल्यहेतुत्वात् वचनस्य साधकदूषकत्वाविशेषे यत्रापदिष्टस्तत्राऽसाधकत्वाद्वचनविरोधः। अथ तुल्यहेतुत्वेऽपि वचनं स्वपक्षस्य साधकमेव परपक्षस्य दूषकमेवेति न साधकदूषकधर्मयोरेकत्वमिति मतम् । ननु यदुक्तं तुल्यहेतुत्वादेकत्वमिति तद्धीनम् ।
. दृष्टागमव्याघातात् ।११। दृष्टागमव्याघाताच नैतद्युक्तम् । यस्य तुल्यहेतुकानामेकत्वं तस्य मृत्पिण्डादितुल्यहेतुकानां घटशरावादीनां नानात्वं व्याहन्यत इति दृष्टव्याघातः । 'प्रधानतुल्य निमित्तानां महदहङ्कारादीनाम् , 'अविद्यातुल्यप्रत्ययानां पुण्यापुण्यानेज्यसंस्काराणाम् , चतुष्टयसन्निकर्षाऽविशिष्टकारणरूपादिज्ञानसुखदुःखादीनां चैकत्वमित्यागमव्याघातः । ___आवरणाभावे साहचर्यात् ।१२। आवरणात्यन्तसंक्षये केवलिनि युगपत् केवलज्ञानदर्शनयोः साहचर्य भास्करे प्रतापप्रकाशसाहचर्यवत् । ततश्चानयोस्तुल्यास्रवत्वं युक्तम् ।
इतरत्र क्रमवृत्तिर्जलसमवेताग्निप्रतापप्रदीपप्रकाशवत ।१३। इतरस्मिन् सावरणे ज्ञानदर्शनयोः क्रमेण वृत्तिः, यथा जलसमवायिनोऽग्नेः प्रताप एव न प्रकाशः, प्रदीपप्रकाशस्य च १५ प्रकाश एव न प्रतापः, तथा छद्मस्थस्य यदा ज्ञानोपयोगः न तदा दर्शनोपयोगः यदा दर्शनोपयोगः
न तदा ज्ञानोपयोगः।
___ अतीतानागतयोर्दर्शनाभावस्तलक्षणाभावादिति चेत् ; न; निराधरणत्वात् ।१४। स्यान्मतम्-नास्त्यतीतेऽनागते च दर्शनम् , कुतः ? तल्लक्षणाभावात् । अस्पृष्टेऽविषये च ज्ञानमुत्पद्यते स्पृष्ट विषये च दर्शनम, न ह्यतीतानागतयोः विनष्टानुत्पन्नत्वे सत्यसत्त्वात् स्पृष्टत्वविषयत्वे स्त इति तत्र ज्ञानमेव दर्शनमिति नेत्रलिनोऽतीतानागतदर्शित्वमयुक्तम् ? तन्न; किं कारणम् ? निरावरणत्वात् । यथा भास्करस्य निरस्तघनपटलावरणस्य यत्र प्रकाशस्तत्र प्रतापः यत्र च प्रतापरतत्र प्रकाशः , तथा निरावरणस्य केवलिभास्करस्याऽचिन्त्यमाहात्म्यविभूतिविशेषस्य यत्र ज्ञानं तत्रावश्यं दर्शनं यत्र च दर्शनं तत्र च ज्ञानम् । किञ्च,
तद्वत्प्रवृत्तेः ॥१५॥ यथा हि असद्भूतमनुपदिष्टं च जानाति तथा पश्यति किमत्र भवतो २५ हीयते ? किञ्च,
विकल्पात् ।१६। यथा ह्यस्पृष्टेऽविषये च सावरणस्योपदेशाभावे न ज्ञानमस्तीति केवलिनोऽपि किं तद्वद्भवति? तथा सावरणस्य विषये स्पष्टे च दर्शनप्रवृत्तः न केवलिनस्तद्वद्भविष्यति इति सिद्धं केवलिनस्त्रिकालगोचरं दर्शनम् । भवतु तावन्निरावरणत्वात् केवलिनोऽतीतानागतयोदर्शनप्रवृत्तिः अवधिज्ञानिनः सावरणस्य कथं दर्शनमिति ? अत्रोच्यते
करणनिरपेक्षक्षयोपशमशक्तिविशेषयोगादवधिज्ञानिनः ।१७। यद्यप्यवधिज्ञानिन आवरणमस्ति तथाप्यवधिदर्शनावरणक्षयोपशमविशेषस्य करणनिरपेक्षत्वात् केवलदर्शनवत् अनुपदेशपूर्वकप्रवृत्तः अतीतानागतयोरस्पृष्टाविषयत्वेऽपि अवधिदर्शनं प्रवर्तते ।
मनापर्यय दर्शनमप्यस्त्विति चेत् ; न; कारणाभावात् ।१८। यथा अवधिज्ञानं दर्शनपूर्वकं तथा मनःपर्ययज्ञानेनापि दर्शनपुरस्सरेण भवितव्यमिति चेत् ; तन्न; किं कारणम् ?
१ यः समयस्थः सन् ब्रूते तस्य आप्तवचनोल्लङ्घनत्वात् वचनविरोधः । यः परः सन् ब्रूते तस्य स्वसमयविरोधात् वचन विरोधः । २ शालिबीजकारणमङ कुरं शाल्यक कुरमित्यादि । ३ यत्रोपदि-मु०, श्र० । ४ सांख्यमते-स०। ५ बौद्धमते । ६ नैयायिकमते । ७ तद्ववृत्तः-मु०, ब०। ८ संसारिणः । ६-यज्ञानदर्श-ता, श्र०, मू०, ज०।