________________
अनुयोग द्वाराणि
१३
अत: संदिहान आह - ‘केवइकालं' कियन्तं कालमसौ सिद्ध: ? इत्युच्यते - भवोपादानाभावात्साद्यपर्यवसानमिति । किमसावेकः ? उतानेकः सन्? कुत इयमारेका ? यतः केचिदाहुः - " एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १ ॥” इत्याह - 'कई व सिं भेर्य'त्ति कति वा 'सिं' तेषां परमगुरूणां 'भेदा: ' विकल्पा इत्युच्यते - गणनाप्रमाणेन तावदनन्तरसिद्ध-परंपरसिद्धादिना अनन्ताः, एकस्याप्यनन्तद्रव्यपर्यायविकल्पापेक्षया । यतः पश्चार्धमाह'जियअत्तपरीणामेत्यादि । जीवः शुद्धं द्रव्यं तदाश्रिताः द्रव्यास्तिका - ऽभिमताश्चेतनात्वद्रव्यत्वप्रमेयत्वप्रमाणत्वज्ञेयत्वज्ञानित्व दर्शनित्वदृश्यत्वसुखित्वादयोऽनन्ताः, पर्यायास्तिकाभिमतास्तु 'अत्तपरीणामा' आत्मनः परिणामाः आत्मपरिणामाः केवलज्ञानदर्शन वीर्यसुखादि पर्यायास्तेऽप्यनन्ताः । आत्मशब्दः परिणामानां विशेषणतयोपात्तः, तद्भावः परिणाम इति दर्शनार्थम्, न तु यथा वैशेषिकाणां द्रव्यादत्यन्तमन्ये रूपादय इति, स्वपर्यायख्यापनार्थं च । कुतोऽवसीयते जीवो द्रव्यम् ? यदाश्रिता अनन्ता इति उच्यते यतः आत्मा " अत सातत्यगमने " अतति - सततं संदेधाति तांस्तान् पर्यायानित्यात्मा । अनेनैतद्दर्शयति अनुपरतप्रबन्धेन प्रतिक्षणवर्तिनस्ते चेतनात्वादय इति । आत्मपरिणामास्तु सादय:, “डैप्पज्जंति वयंति य, भावा णियमेण पज्जवणयस्स ।" त्ति वचनात् । एवमनन्तरोदितनीत्या, किम् ? अत आह 'अनंत'त्ति, एवमेतेऽन्योऽन्यानुगमादात्मनो द्रव्यपर्यायास्तिकापेक्षयाऽनन्ताः । कथं ? 'दुह 'त्ति सप्रतिपक्षयुगलितधर्मप्रकारेण द्विधा । तद्यथा अस्ति नास्ति, नित्यः अनित्यः, वक्तव्यः अवक्तव्यः, इत्यादिना । द्रव्यक्षेत्र - कालभावप्रतिबन्धेनेत्येवं न केवलं सिद्धभट्टारकः सर्वमपि सचेतना - चेतनं वस्तु मन्तव्यमित्येवं परमार्थसदिति । केचित्तु षण्णामप्येषां १. 'हेयत्ति तेषां' - पातासंपा । २. 'संदेहति' पातासंपा । ३. " उत्पद्यन्ते व्रजन्ति च भावा नियमेन पर्यवनयस्य ।"
-
-
-