________________
सिद्धप्राभृत: सटीक :
સંબંધ-પ્રયોજન) બનાવનારી આ ત્રણ ગાથાઓ જણાવે છે. તેમાં પ્રથમ ગાથા દ્વારા મંગલ અને ગુરુપર્વક્રમ રૂપ સંબંધને જણાવે છે. (मू० ) तिहुयणपणए तिहुयण- गुणाहिए तिहुयणातिंसयणाणे [ णी ] उसभातिवीरचरिमे, तमरयरहिए पणमिऊणं ॥ १॥ सुणिउण आगमणिहसे, सुणिउणपरमत्थसुत्तगंथधरे । चोद्दसपुव्विगमाई, कमेण सव्वे पणमिऊणं ॥ २॥ णिक्खेवणिरुत्तीहि य छहिं अट्ठहिं चाणुओगदारेहिं । खेत्तातिमग्गणेसु य सिद्धाणं वण्णिया भेया ॥ ३ ॥ ( छा०) त्रिभुवनप्रणतांस्त्रिभुवनगुणाधिकांस्त्रिभुवनातिशयज्ञानिनः । ऋषभादिवीरचरिमांस्तमोरजोरहितान् प्रणम्य ॥ १ ॥ सुनिपुणागमनिकषान् सुनिपुणपरमार्थसूत्रग्रन्थधरान् । चतुर्दशपूर्वीकादीन् क्रमेण सर्वान् प्रणम्य ॥ २ ॥
२
निक्षेपनिर्युक्तिभिश्च षड्भिरष्टाभिश्चानुयोगद्वारैः । क्षेत्रादिमार्गणासु च सिद्धानां वर्णिता भेदाः ॥ ३ ॥
(टी०) " तिहुयणपणए" इत्यादि । त्रिभुवनप्रणतान् इत्यनेनाचिन्त्यफलसंपादकत्वेन पूजार्हत्वादुत्तमोत्तमत्वमाह । अथ कस्मात्त एव नत्वा ? इत्याह- त्रिभुवनगुणाधिका यत इति, अनेनापि गुणद्वारकं पूजार्हत्वमुत्तमोत्तमत्वं च दर्शयति । कुतः ? इत्याह- 'त्रिभुवनातिशयज्ञानिनः' त्रिभुवनेऽतिशया ज्ञानं च येषां ते त्रिभुवनातिशयज्ञानिन इति, अनेनापि अतिशयसंदोहत्वात्परमदेवतात्वं ख्याप्यते । क एते एवं - विधा: ? इत्याह - 'उसभातिवीरचरिमे' ऋषभादिवीरचरिमान् इति, एतदपि अतीतानागतजिनोपलक्षणार्थं, गुरुपर्वक्रमसंबन्धं चानेनाह । किं १. 'इसय' - ङ् पुस्तके । २. उसभादि - ङ् पुस्तके । ३. 'खेत्ताइमग्गणासु' ङ पुस्तके । ४. ' एवं ' - पातासंपा ।