________________
मंगला चरणः
नमस्कारार्हत्व
पदार्थाउणआगमणि
विशिष्यस्ते? इत्याह- 'तमरयरहिए' तमोरजोरहितान् इति, अत्र तमःछादकत्वात् संसारप्रतिबन्धकृत्त्वाच्च ज्ञानावरणादिघातिचतुष्टयं परिगृह्यते, रजो - भवोपग्राहि कर्म अथवा पूर्वबद्धं तमः बध्यमानं तु रजः ताभ्यां रहितास्तमोरजोरहिता इति, अनेनापि मुक्त्यवस्थितेः भूतावस्था कथ्यते अर्थतः प्रयोजनं सूचयति, तदर्थत्वात्सकलप्रयासस्येति । तान् प्रणम्य, किम् ? इत्युपरिष्टात्संबध्यत इति गाथार्थः ॥ १॥ ___ एवं तावद् येभ्यः समुद्भवत्यागमस्तान् गुरुनभिधाय सांप्रतं येभ्यः परंपरयाऽऽगतस्तेषामपि नमस्कारार्हत्वात्स्तवमाह____ "सुणिउणआगमणिहसे" इत्यादिः सुनिपुणो - जीवाद्यशेषपदार्थाभिधाने कुशलो य आगमः - आप्तवचनं तस्य निकषभूताः - कषपट्टका ये ते सुनिपुणागमनिकषा इति, अनेन युगप्रधानागमत्वं कथ्यते । तथा 'सुनिपुण परमार्थसूत्रग्रन्थधरान्' इत्यत्र परमः - पूजितोऽनन्तगमपर्यायात्मकत्वाद् [वा] अर्थः परमार्थः, सकलप्रमाणनयपरिच्छेदित्वात्सुनिपुणः परमार्थो ययोः सूत्रग्रन्थयोः तौ धारयन्तीति सुनिपुणपरमार्थसूत्रग्रन्थधरा इति, एतत् सकलोपाध्यायाचार्य-संग्रहार्थम् । किमाद्यास्ते ? इत्याह- 'चोदसपुव्विगमाई' यावज्जघन्यसूत्रधरा इति, क्रमेण - आनुपूर्व्या सर्वान् प्रणम्येति । पुनः क्रियाभिधानं स्थविरावलिकादिभेदप्रतिपादनार्थमिति गाथार्थः ॥ २ ॥ इदानीमभिधेयप्रतिपादनार्थमाह
"णिक्खेवणिरुत्तीहि य" इत्यादि । निक्षेपनिरुक्तिभ्यां किमादिभिश्च षड्भिरनुयोगद्वारैः सत्पदप्ररूपणादिभिः अष्टाभिश्चानुयोगद्वारैः क्षेत्रादिमार्गणाद्वारेषु चाधारेषु 'सिद्धानां' प्राभृताभिधेयतया प्रक्रान्तानां १. 'च' ख पुस्तके। २. किलावस्था' इति पातासंपा। ३. निक्षेपनिरुक्तीत्यादिगाथोक्तान् भेदान् वर्णयामीति तृतीयगाथया संबध्यत इति। ४. 'संग्रहार्थे' पातासंपा। ५. वातासंपा नास्ति।