________________
Shri Mahavir Jain Aradhana Kendra
feve
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका- 'एएसि णं' इत्यादि
एतेषां सप्तानां स्वराणां सप्त स्वरलक्षणानि = तत्तत्फलप्राप्त्यनुसारीणि स्वरशिवानि कथितानि । तान्येव फलत आह— तद्यथा - षड्जेन लभते वृत्तिम्' इत्यादिभिः सप्तभिः श्लोकैः । तथाहि - षड्जेन स्वरेण जनो वृर्ति-जीविकां लभते । तथा षड्जस्वरवतो जनस्य कृतं कर्म विनष्टं न भवति सफलमेव भवतीत्यर्थः । वस्य गावः पुत्रा मित्राणि च भवन्ति । तथा स स्त्रीणां वल्लभः = मियथ भवति । रमेण स्वरेण तु ऐश्वर्यम् = ईशनशक्तिमन्त्रं, सैनापत्यं = सेनापतित्वं, धनानि, वस्त्रगन्ध-वस्त्राणि गन्धांश्च, अलंकारं स्त्रियः शयनानि च लभते । तथा - गान्धारे = गान्धारस्वरे गीतयुक्तिज्ञाः = गीतयो जनावे तारः - गान्धारस्वरगानकर्त्तार इत्यर्थः, सूर्यवृत्तयः - वयः श्रेष्ठा वृतिः=जीविका येषां ते तथा श्रेष्ठ जीविकावन्तः, कलाधिकाः- कलाभिरधिकाः कलाज्ञेषु मूर्धन्याश्च भवन्ति । तथा- कवयः = काव्यकर्त्तारः, 'कुसिनः' इतिच्छायापक्षे- कर्तव्यशीलाः, प्राज्ञाः सद्बोधाश्व भवन्ति । ये अन्ये= पूर्वोभ्यो गीतयुक्तिज्ञादिभ्यो ये भिन्ना भवन्ति ते शास्त्रपारगाः = सकल शास्त्र - निष्णाता भवन्ति । तथा - मध्यम स्वरसम्पन्नास्तु सुखजीविन: = सुखेन जीवितुं शीला संवन्ति । सुखजीवित्वमेव प्रकटयति मध्यम स्वरमाश्रितो जनो हि खादति सुस्वादु भोजनं भुङ्क्ते, पिवति दुग्धादिपानं करोति, ददाति = अन्यानपि भोजयति पाययति च । पञ्चमस्वरसम्पन्नास्तु पृथिवीपतयो भवन्ति तथा शूराः संग्रहकर्त्तारः अनेकगणनायकाश्च भवन्ति । तथा धैवतस्वरसम्पन्नास्तु कलहप्रियाः = क्लेशकारका अवन्ति तथा - शकुनिकाः - शकुनेन श्येनेन पर्यटन्ति, शकुनान् = पक्षिणो घ्नन्ति वा शकुनिकाः = पक्षिघातका लुब्धकविशेषाः । वागुरिका: - वागुरा=मृगवन्धिनी, तया चरन्तीति वागुरिका:- हरिणघातका लुन्धकविशेषाः, सौकरिकाः सूकरेणकरवधार्थं चरन्ति सूकरान् घ्नन्ति वा सौकरिका: = मुकरघातका लुब्धकविशेषाः, तथा - मत्स्यबन्धाः = मत्स्यघातिनश्च भवन्तीति । तथा ये चाण्डाला: चाण्ड कर्माणः, मौष्टिक :-मुष्टिः प्रहरणं येषां ते तथा, मुष्टिभिः प्रहरणशीला इत्यर्थः, सेयाः = अधमजातीया मनुष्याश्च सन्ति, एभ्योऽन्ये च ये पापकर्माणः = पापकर्मपरायणाः सन्ति, तथा च ये गोघातकाः सन्ति ये च चौराः सन्ति, ते सर्वे निपादस्वरमाश्रिता विज्ञेयाः इति । एष पाठः स्थानाङ्गानुसारेण व्यख्यातो गृहीतश्च ॥ सू० १६४ ॥
अनुयोगद्वारसूत्रे
हैं, ऐसा जानना चाहिये। यह पाठ स्थानाङ्ग के अनुसार व्याख्यात किया और वहीं से किया है | ॥सू०१६४ ॥
मस्सिओ) ते निषाह स्वरनु उभ्या रे छे स्थानांग प्रभा બ્યાખ્યાત કરવામાં આવ્યા છે અને ત્યાંથી જ લેવામાં આવ્યે છે.
For Private and Personal Use Only
मा पा भडी
સૂ॰૧૬૪