________________
२६६
[927:२५-५
पद्मनन्दि-पञ्चविंशतिः 927 ) नो दृष्टः शुचितत्त्वनिश्चयनदो न झानरत्नाकरः
पापैः कापि न दृश्यते च समतानामातिशुद्धा नदी । तेनैतानि विहाय पापहरणे सत्यानि तीर्थानि ते
तीर्थाभाससुरापगादिषु जडा मज्जन्ति तुष्यन्ति च ॥५॥ 928) नो तीर्थ न जलं तदस्ति भुवने नान्यत्किमप्यस्ति तत्
निःशेषाशुचि येन मानुषवपुः साक्षादिदं शुद्ध्यति । आधिव्याधिजरामृतिप्रभृतिभिर्व्याप्तं तथैतत्पुनः'
शश्वत्तापकरं यथास्य वपुषो नामाप्यसह्यं सताम् ॥ ६॥ 929 ) सर्वस्तीर्थजलैरपि प्रतिदिनं स्नातं न शुद्धं भवेत्
कर्पूरादिविलेपनैरपि सदा लिप्तं च दुर्गन्धभृत् । यत्नेनापि च रक्षितं क्षयपथप्रस्थायि दुःखप्रद यत्तस्माद्वपुषः किमन्यदशुभं कष्टं च किं प्राणिनाम् ॥ ७ ॥
विशेषशैत्यसुभगे । पुनः निःशेषपापहे पापस्फेटके ॥४॥ पापैः पापयुक्तैः पुरुषैः । क्वापि कस्मिन् काले । शुचितत्त्वनिश्चयनदः न दृष्टः । पुनः तैः पापैः ज्ञानरत्नाकरः न दृष्टः । च पुनः । समता नाम नदी न दृश्यते। तेन कारणेन । एतानि सत्यानि तीर्थानि पापहरणे समर्थानि । विहाय परित्यज्य । ते जडाः मूर्खाः । तीर्थाभाससुरापगादिषु गङ्गादितीर्थेषु मजन्ति तुष्यन्ति च ॥ ५ ॥ भुवने संसारे। येन वस्तुना। इदं मानुषवपुः साक्षात् शुध्यति तत्तीर्थ नो । तज्जलं न अस्ति । तदन्यत् किमपि न अस्ति। निःशेषाशुचि सर्वम् अशुचि। पुनः आधिव्याधिजरामृतिप्रभृतिभिः । तत् शरीरम् । व्याप्तम् शश्वत् तापकरम् । यथा अस्य वपुषः नामापि । सता साधूनाम् । असह्यम् ॥६॥ यद्वपुः सर्वैः तीर्थजलैः अपि प्रतिदिनं स्नातं शुद्धं न भवेत् । यद्वपुः कर्पूरादिविलेपनैः सदा लिप्तम् अपि दुर्गन्धभृत् । च पुनः । यत्नेनापि रक्षितम् । क्षयपथप्रस्थायि क्षयपथगमनशीलम् । पुनः दुःखप्रदम् ।
करना चाहिये ॥ ४ ॥ पापी जीवोंने न तो तत्त्वके निश्चयरूप पवित्र नद (नदीविशेष ) को देखा है और न ज्ञानरूप समुद्रको ही देखा है । वे समता नामक अतिशय पवित्र नदीको भी कहीं पर नहीं देखते हैं। इसलिये वे मूर्ख पापको नष्ट करनेके विषयमें यथार्थभूत इन समीचीन तीर्थोंको छोड़कर तीर्थके समान प्रतिभासित होनेवाले गंगा आदि तीर्थाभासोंमें स्नान करके सन्तुष्ट होते हैं ॥ ५॥ संसारमें वह कोई तीर्थ नहीं है, वह कोई जल नहीं है, तथा अन्य भी वह कोई वस्तु नहीं है। जिसके द्वारा पूर्णरूपसे अपवित्र यह मनुष्यका शरीर प्रत्यक्षमें शुद्ध हो सके। आधि ( मानसिक कष्ट ), व्याधि ( शारीरिक कष्ट ), वुढ़ापा और मरण आदिसे व्याप्त यह शरीर निरन्तर इतना सन्तापकारक है कि सज्जनोंको उसका नाम लेना भी असह्य प्रतीत होता है ॥ ६ ॥ यदि इस शरीरको प्रतिदिन समस्त तीर्थों के जलसे भी स्नान कराया जाय तो भी वह शुद्ध नहीं हो सकता है, यदि इसका कपूर व कुंकुम आदि उवटनोंके द्वारा निरन्तर लेपन भी किया जाय तो भी वह दुर्गन्धको धारण करता है, तथा यदि इसकी प्रयत्नपूर्वक रक्षा भी की जाय तो भी वह क्षयके मार्गमें ही प्रस्थान करनेवाला अर्थात् नष्ट होनेवाला है । इस प्रकार जो शरीर सब प्रकारसे दुख देनेवाला है उससे अधिक प्राणियोंको और दूसरा कौन-सा अशुभ व कौन-सा कष्ट हो सकता है ? अर्थात् प्राणियोंको सबसे अधिक अशुभ और कष्ट देनेवाला यह शरीर ही
१च प्रतिपाठोऽयम् । अ क व्याप्तं तदा तत्पुनःब व्याप्त थेतनः । २ श'च' नास्ति। ३ क अस्ति अन्यत्किमपि ।