________________
356 : ४-४२]
४. एकत्वसप्ततिः 349 ) गुणाः शीलानि सर्वाणि धर्मश्चात्यन्तनिर्मलः।संभाव्यन्ते पर ज्योतिस्तदेकमनुतिष्ठतः ॥४२॥ 350 ) तदेवैकं परं रत्नं सर्वशास्त्रमहोदधेः । रमणीयेषु सर्वेषु तदेकं पुरतः स्थितम् ॥४३॥ 351) तदेवैकं परं तत्त्वं तदेवैकं परं पदम् । भव्याराध्यं तदेवैकं तदेवकं पर महः॥४४॥ 352 ) शस्त्रं जन्मतरुच्छेदि तदेवैकं सतां मतम् । योगिनां योगनिष्ठानां तदेवैकं प्रयोजनम् ॥ ५॥ 353) मुमुक्षूणां तदेवैकं मुक्तेः पन्था न चापरः । आनन्दो ऽपि न चान्यत्र तद्विहाय विभाव्यते ॥ 354) संसारघोरधर्मेण सदा तप्तस्य देहिनः । यन्त्रधारागृहं शान्तं तदेव हिमशीतलम् ॥ ४७ ॥ 355) तदेवेकं परं दुर्गमगम्यं कर्मविद्विषाम् । तदेवैतत्तिरस्कारकारि सारं निजं बलम् ॥४८॥
356) तदेव महती विद्या स्फुरन्मन्त्रस्तदेव हि । औषधं तदपि श्रेष्ठं जन्मव्याधिविनाशनम् ॥ ४९ ॥ आचारः । तदेव एक ज्योतिः आवश्यकक्रिया । तु पुनः । तदेव एकं ज्योतिः स्वाध्यायः॥४१॥ तदेकं पर ज्योतिः। अनुतिष्ठतः विचारयतः । अथवा तज्योतिः प्रवर्तयतः मुनेः । गुणाः संभाव्यन्ते । सर्वाणि शीलानि संभाव्यन्ते । अत्यन्तनिर्मल: धर्मः संभाव्यते कथ्यते ॥ ४२ ॥ तदेव एक ज्योतिः सर्वशनसमुद्रस्य परं रवं वर्तते । सर्वेषु रमणीयेषु वस्तुषु तदेव एक ज्योतिः। पुरतः अग्रतः । स्थितम् अस्ति ॥ ४३ ॥ तदेव एकं ज्योतिः परं तत्त्वम् अस्ति । तदेव एकं ज्योतिः परं पदम् अस्ति । तदेव एक ज्योतिः भव्यैः आराध्यम अस्ति । तदेव एक ज्योतिः परं महः अस्ति ॥४॥ तदेव एक ज्योतिः जन्मतरुच्छेदि शस्त्रं संसारवृक्षच्छेदकम् अस्ति । सो साधूनां संसारच्छेदकं मतम् । योगिनिष्ठानां प्यानतत्पराणां योगिनां तदेव एकं ज्योतिः प्रयोजनं कायम् अस्ति ॥४५॥ मुमुक्षुणां मुकिवाञ्छकाना मुनीनाम् । तदेव एक ज्योतिः । मुक्तः मोक्षस्य । पन्था मागे: वर्तते । च पुनः । अपरः मार्गः न अस्ति । च पुनः । तद्विहाय चैतन्यं विहाय त्यक्त्वा । अन्यत्र स्थाने । आनन्दः अपि । न विभाव्यते न कथ्यते ॥४६॥ तदेव ज्योतिः । देहिनः जीवस्य । यत्रधारागृहं लतागृहम् अस्ति । किलक्षणस्य देहिनः। संसारघोरधर्मेण संसाररुद्र-आतपेन सदा तप्तस्य दुःखितस्य । किंलक्षणं ज्योतिः । शान्तम् । पुनः किंलक्षणं ज्योतिः। हिमशीतलम् । प्रालेयवच्छीतलम् ॥ ४० ॥ तदेव एक ज्योतिः परं दुर्गम् अस्ति । किंलक्षणं ज्योतिः । कर्मविद्विषो कर्मशत्रूणाम् । अगम्यम् । तदेव ज्योतिः। एतत्कर्मशत्रणाम् । तिरस्कारं करोति तत् तिरस्कारकारि । पुनः किलक्षणं ज्योतिः । यस्मिन् निर्ज खकीयम् । सारं श्रेष्ठं बलं वर्तते ॥ ४८ ॥ तदेव ज्योतिः महती विद्या वर्तते । तदेव ज्योतिः स्फुरन्मत्रः अस्ति । तदपि ज्योतिः श्रेष्ठम्
ज्योति आवश्यक क्रिया है, तथा वही एक आत्मज्योति स्वाध्याय भी है ।। ४१ ॥ केवल उसी एक उत्कृष्ट आत्मज्योतिका अनुष्ठान करनेवाले साधुके गुणोंकी, समस्त शीलोंकी और अत्यन्त निर्मल धर्मकी भी सम्भावना है ॥ ४२ ॥ समस्त शास्त्ररूपी महासमुद्रका उत्कृष्ट रत्न वही एक आत्मज्योति है तथा वही एक आत्मज्योति सब रमणीय पदार्थोंमें आगे स्थित अर्थात् श्रेष्ठ है ।। ४३ ॥ वही एक आत्मज्योति उत्कृष्ट तत्त्व है, वही एक आत्मज्योति उत्कृष्ट पद है, वही एक आत्मज्योति भव्य जीवोंके द्वारा आराधन करने योग्य है, तथा वही एक आत्मज्योति उत्कृष्ट तेज है ॥४४॥ वही एक आत्मज्योति साधुजनोंके लिये जन्मरूपी वृक्षको नष्ट करनेवाला शस्त्र माना जाता है तथा समाधिमें स्थित योगी जनोंका अभीष्ट प्रयोजन उसी एक आत्मज्योतिकी प्राप्ति है ॥ ४५ ॥ मोक्षाभिलाषी जनोंके लिये मोक्षका मार्ग वही एक आत्मज्योति है, दूसरा नहीं है । उसको छोड़कर किसी दूसरे स्थानमें आनन्दकी भी सम्भावना नहीं है ॥ ४६॥ शान्त और बर्फके समान शीतल वही आत्मज्योति संसाररूपी भयानक घामसे निरन्तर सन्तापको प्राप्त हुए प्राणीके लिये यन्त्रधारागृह (फुव्वारोंसे युक्त घर ) के समान आनन्ददायक है ॥ ४७ ॥ वही एक आत्मज्योति कर्मरूपी शत्रुओंके लिये दुर्गम ऐसा उत्कृष्ट दुर्ग ( किला ) है तथा वही यह आत्मज्योति इन कर्मरूपी शत्रुओंको तिरस्कृत करनेवाली अपनी श्रेष्ठ सेना है ।। ४८ ॥ वही आत्मज्योति विपुल बोध है, वही प्रकाशमान मंत्र है, तथा वही
१मश प्रतिवर्तयतः। २'अस्ति' इति नास्ति ।