________________
११०
पद्मनन्दि-पञ्चविंशतिः
[305 : ३-५३305 ) लोकाश्चेतसि चिन्तयन्त्यनुदिनं कल्याणमेवात्मनः
कुर्यात्सा भवितव्यतागतवती तत्तत्र यद्रोचते ।। मोहोल्लासघशादतिप्रसरतो हित्वा विकल्पान् बहून्
रागद्वेषविषोज्झितैरिति सदा सद्भिः सुखं स्थीयताम् ॥ ५३॥ 306) लोका गृहप्रियतमासुतजीवितादि वाताहतध्वजपटाग्रचलं समस्तम् ।
व्यामोहमत्र परिहत्य धनादिमित्रे धर्मे मतिं कुरुत किं बहुभिर्वचोभिः ॥ ५३॥ 307) पुत्रादिशोकशिखिशान्तिकरी यतीन्द्रश्रीपद्मनन्दिवदनाम्बुधरप्रसूतिः ।
सद्बोधसस्यजननी जयतादनित्यपञ्चाशदुन्नतधियाममृतैकवृष्टिः ॥ ५५ ॥
व्याप्तं पीडितम् अस्ति । किंलक्षणे संसारे । मुहुर्मुहुः वारंवारम् । बहुविधावस्थान्तरप्रोल्लसद्वेषान्यत्वेनटीकृतागिनि बहुविधगत्यन्तरवेषैः नर्तितजीवगणे। सतः सत्परुषस्य । क्वचित्काले शोकः न कार्यः क्वचित्काले हर्षः रागद्वेषरहितैः । सद्भिः चतुरैः । सदा काले। सुखम् । स्थीयतां तिष्ठताम् । इति विकल्पान् बहून् । हित्वा त्यक्त्वा । किंलक्षणान् विकल्पान् । मोहोल्लासवशात् मोहप्रभावात् । अतिप्रसरतः । लोकाः जनाः। चेतसि विषये । अनुदिनं दिनं दिन प्रति। आत्मनः कल्याणम् एव चिन्तयन्ति । सा आगतवती भवितव्यता । तत्र लोकरोचने। यद्रोचते तत्कुर्यात् ॥ ५३ ॥ भो लोकाः गृहप्रियतमा-स्त्री-सुत-पुत्र-जीवितादि वातेन पवनेन आहतं पीडितं ध्वजपटानं तद्वत् चलं चपलम् । समस्तम् । विजानीत । अत्र धनादिषु धनादिमित्रे व्यामोहम्। परिहृत्य परित्यक्त्वा । धर्मे मतिं कुरुत । बहुभिर्वचोभिः किम् । न किमपि ॥ ५४ ॥ अनित्यपञ्चाशत् जयतात् । किंलक्षणा अनित्यपञ्चाशत् । उन्नतधियाम् उन्नतबुद्धीनाम् । अमृतैकवृष्टिः । पुनः किंलक्षणा अनित्यपञ्चाशत् । पुत्रादिशोक[ शिखि अग्नि-शान्तिकरी । पुनः किंलक्षणा अनित्यपञ्चाशत् । यतीन्द्रश्रीपद्मनन्दिवदनाम्बुधर-मेघः तस्मात् प्रसूतिः उत्पन्ना । पुनः किंलक्षणा अनित्यपञ्चाशत् । सद्बोधसस्यजननी बोधधान्यजन्मभूमिः ॥ ५५ ॥ इति अनित्यपञ्चाशत ॥३॥
कारण कि वह समझता है कि संसारका स्वरूप ही जन्म-मरण है। इसमें पूर्वोपार्जित कर्मके अनुसार प्राणियोंको कभी इष्टका संयोग और कभी उसका वियोग भी अवश्य होता है। सम्पत्ति और विपत्ति कभी किसीके नियत नहीं है- यदि मनुष्य कभी सम्पत्तिशाली होता है तो कभी वह अशुभ कर्मके उदयसे विपत्तिग्रस्त भी देखा जाता है । अतएव उनमें हर्ष और विषादको प्राप्त होना बुद्धिमत्ता नहीं है ॥ ५२ ॥ मनुष्य मनमें प्रतिदिन अपने कल्याणका ही विचार करते हैं, किन्तु आई हुई भवितव्यता (देव) वही करती है जो कि उसको रुचता है। इसलिये सज्जन पुरुष राग-द्वेषरूपी विषसे. रहित होते हुए मोहके प्रभावसे अतिशय विस्तारको प्राप्त होनेवाले बहुतसे विकल्पोंको छोड़कर सदा सुखपूर्वक स्थित रहें ।। ५३ ॥ हे भव्यजनो ! अधिक कहनेसे क्या ? जो गृह, स्त्री, पुत्र और जीवित आदि सब वायुसे ताड़ित ध्वजाके वस्त्रके अग्रभागके समान चंचल हैं उनके विषयमें तथा धन एवं मित्र आदिके विषयमें मोहको छोड़कर धर्ममें बुद्धिको करो ॥ ५४ ॥ श्री पद्मनन्दी मुनीन्द्रके मुखरूपी मेघसे उत्पन्न हुई जो अनित्यपञ्चाशत् (पचास श्लोकमय अनित्यताका प्रकरण ) रूप अद्वितीय अमृतकी वर्षा विद्वज्जनोंके लिये पुत्रादिके शोकरूपी अग्निको शान्त करके सम्यग्ज्ञानरूप सस्य (फसल) को उत्पन्न करती है वह जयवंत होवे ॥ ५५ ॥
इस प्रकार अनित्यपञ्चाशत् समाप्त हुआ ॥ ३ ॥
१ अ क श वेषान्यच्च । २ क अत्र धनादिमित्रे ।