________________
[४. एकत्वसप्ततिः] 308) चिदानन्दैकसद्भावं परमात्मानमव्ययम् । प्रणमामि सदा शान्तं शान्तये सर्वकर्मणाम् ॥१॥ 309 ) खादिपञ्चकनिर्मुक्तं कर्माष्टकविवर्जितम् । चिदात्मकं परं ज्योतिर्वन्दे देवेन्द्रपूजितम् ॥ २॥ 310) यदव्यक्तमबोधानां व्यक्तं सद्बोधचक्षुषाम् । सारं यत्सर्ववस्तूनां नमस्तस्मै चिदात्मने ॥३॥ 311) चित्तत्त्वं तत्प्रतिप्राणिदेह एव व्यवस्थितम् । तमश्छन्ना न जानन्ति भ्रमन्ति च बहिर्बहिः॥४॥ 312) भ्रमन्तोऽपि सदा शास्त्रजाले महति केचन । न विदन्ति परं तत्वं दारुणीव हुताशनम् ॥५॥ 313) केचित्केनापि कारुण्यात्कथ्यमानमपि स्फुटम् ।न मन्यन्ते न शृण्वन्ति महामोहमलीमसाः॥ 314 ) भूरिधर्मात्मकं तत्त्वं दुःश्रुतेर्मन्दबुद्धयः । जात्यन्धहस्तिरूपेण ज्ञात्वा नश्यन्ति केचन ॥७॥
अहं पद्मनन्द्याचार्यः । सदा सर्वदा। प्रणमामि। कम् । परमात्मानम् । किंलक्षणं परमात्मानम् । चिदानन्दैकसद्भाव ज्ञान-आनन्दैकस्खभावम । पुनः किंलक्षणं परमात्मानम । अव्ययं विनाशरहितम। पुनः किंलक्षणं परमात्मानम । शान्तं सर्वोपाधिवर्जितम् । एवंविधं परमात्मानं सदा प्रणमामि । कस्मै । सर्वकर्मणां शान्तये ॥ १॥ चिदात्मक ज्योतिः अहं वन्दे । किंलक्षणं ज्योतिः। खादिपैञ्चकनिर्मुक्तम् आकाशादिपञ्चद्रव्यरहितं वा पञ्चइन्द्रियरहितम् । पुनः किंलक्षणं ज्योतिः । कर्माष्टकविवर्जितम् । परम् उत्कृष्टम् । वन्दे । पुनः किंलक्षणं ज्योतिः। देवेन्द्रपूजितम् ॥२॥ तस्मे चिदात्मने नमः। यत्परंज्योतिः। अबोधाना बोधरहितानाम् । अव्यक्तम् अप्रकटम् । यत्परंज्योतिः। सद्बोधचक्षुषां सद्बोधयुक्तानाम् । व्यकं प्रकटम् । यत्परंज्योतिः सर्ववस्तूनां पदार्थानां सारम् । तस्मै चिदात्मने नमः ॥ ३ ॥ तत् । चित्तत्त्वं चैतन्यतत्त्वम् । प्रतिप्राणिदेहे प्राणिना देहे । एव निश्चितम् । व्यवस्थितम् अस्ति । तत् चैतन्यतत्त्वम् । तमश्छन्ना मिथ्यात्व-अन्धकारेण आच्छादिताः। न जानन्ति । च पुनः । बहिर्बहिः भ्रमन्ति ॥४॥ केचन मूर्खाः । सदा सर्वदा। महति शास्त्रजाले भ्रमन्तोऽपि। परे तत्त्वम् आत्मतत्त्वम् । न विदन्ति न लभन्ते। यथा दारुणि काष्ठे। हताशनं प्राप्त दुर्लभम ॥ ५॥ कारुण्यात् दयाभावात् । केनापि स्फुट व्यकं प्रकटं तत्त्वम् । कथ्यमानम अपि । केचित् मूर्खाः । न मन्यन्ते न शृण्वन्ति । किंलक्षणाः मूर्खाः । महामोहमलीमसाः महामोहेन व्याप्ताः ॥ ६॥ केचन मन्दबुद्धयः । भूरिधर्मात्मकं तत्त्वं जात्यन्धहस्तिरूपेण ज्ञात्वा नश्यन्ति । किंलक्षणा मूर्खाः । दुःश्रुतेः दुर्णयदुःशास्त्रप्रमाणात् मन्द
जिस परमात्माके चेतनस्वरूप अनुपम आनन्दका सद्भाव है तथा जो अविनश्वर एवं शान्त है उसके लिये मैं (पद्मनन्दी मुनि) अपने समस्त कर्मोंको शान्त करनेके लिये सदा नमस्कार करता हूं ॥ १ ॥ जो आकाश आदि पांच (आकाश, वायु, अग्नि, जल और पृथिवी) द्रव्योंसे अर्थात् शरीरसे तथा ज्ञानावरणादि आठ कर्मोंसे भी रहित हो चुकी है और देवोंके इन्द्रोंसे पूजित है ऐसी उस चैतन्यस्वरूप उत्कृष्ट ज्योतिको मैं नमस्कार करता हूं ॥ २ ॥ जो चेतन आत्मा अज्ञानी प्राणियोंके लिये अस्पष्ट तथा सम्यग्ज्ञानियोंके लिये स्पष्ट है और समस्त वस्तुओंमें श्रेष्ठ है उस चेतन आत्माके लिये नमस्कार हो ॥३॥ वह चैतन्य तत्त्व प्रत्येक प्राणीके शरीरमें ही स्थित है । किन्तु अज्ञानरूप अन्धकारसे व्याप्त जीव उसको नहीं जानते हैं, इसीलिये वे बाहिर बाहिर घूमते हैं अर्थात् विषयभोगजनित सुखको ही वास्तविक सुख मानकर उसको प्राप्त करनेके लिये ही प्रयत्नशील होते हैं ॥ ४ ॥ कितने ही मनुष्य सदा महान् शास्त्रसमूहमें परिभ्रमण करते हुए भी, अर्थात् बहुत-से शास्त्रोंका परिशीलन करते हुए भी उस उत्कृष्ट आत्मतत्त्वको काष्ठमें शक्तिरूपसे विद्यमान अमिके समान नहीं जानते हैं ॥ ५॥ यदि कोई दयासे प्रेरित होकर उस उत्कृष्ट तत्त्वका स्पष्टतया कथन भी करता है तो कितने ही प्राणी महामोहसे मलिन होकर उसको न मानते हैं और न सुनते भी हैं ॥ ६॥ जिस प्रकार जन्मान्ध पुरुष हाथीके यथार्थ स्वरूपको नहीं ग्रहण कर पाता है, किन्तु उसके किसी एक ही अंगको पकड़कर उसे ही हाथी मान लेता है, ठीक इसी प्रकारसे कितने ही मन्दबुद्धि मनुष्य एकान्तवादियों
१श शान्तं एवंविधं । २ श वन्दे खादि। ३ क प्रापितुं ।