________________
[ ३. अनित्यपञ्चाशत् ] 253 ) जयति जिनो धृतिधनुषामिषुमाला भवति योगियोधानाम् ।
यद्वाकरुणामय्यपि मोहरिपुप्रहतये तीक्ष्णा ॥१॥ 254 ) यद्येकत्र दिने विभुक्तिरथ वा निद्रा न रात्रौ भवेत्
विद्रात्यम्वुजपत्रवद्दहनतो ऽभ्यासस्थिताद्य धम् । अस्त्रव्याधिजलादितो ऽपि सहसा यच्च क्षयं गच्छति
भ्रातः कात्र शरीरके स्थितिमतिर्नाशे ऽस्य को विस्मयः॥२॥ 255 ) दुर्गन्धाशुचिधातुभित्तिकलितं संछादितं चर्मणा
विण्मूत्रादिभृतं क्षुधादिविलसहुःखाखुभिश्छिद्रितम् । क्लिष्टं कायकुटीरकं स्वयमपि प्राप्तं जरावह्निना
चेदेतत्तदपि स्थिरं शुचितरं मूढो जनो मन्यते ॥३॥ 256) अम्भोवुद्बुदसंनिभा तनुरियं श्रीरिन्द्रजालोपमा
दुर्वाताहतवारिवाहसदृशाः कान्तार्थपुत्रादयः। जिनः जयति । यद्वाक् यस्य जिनस्य वाक् वाणी । धृतिधनुषां धैर्यधनुषयुक्तानाम् । योगियोधाना.योगिसुभटानाम् । इषुमाला भवति बाणपतिर्भवति । किंलक्षणा वाणी। करुणामयी दयायुक्ता अपि। मोहरिपुप्रहतये तीक्ष्णा ॥१॥ यत् यस्मात् । एकत्र दिने । विभुक्तिः न कृता भोजनं न कृतम् । तदा रात्रौ निद्रा न भवेत् निद्रा न आगच्छति। यत् शरीरं ध्रुवं विद्राति म्लानं गच्छति । किंवत् । दहनत: अभ्यासस्थितात् समीपस्थितात् अग्नितः अम्बुजपत्रवत् । अग्नितः कमलवत् । चपुनः। यत् शरीरम् । अस्त्रग्याधिजलसंयोगतः अपि सहसा । क्षयं विनाशम् । गच्छति । भो भ्रातः अत्र शरीरे । स्थितिमतिः शाश्वती बुद्धिः का। न कापि । अथ अस्य शरीरस्य नाशे सति । कः विस्मयः क आश्चर्यः [किमाश्चर्यम् ॥२॥चेत् यदि । एतत्कायकुटीरकम् । किंलक्षणं कायकुटीरकम् । दुर्गन्धाशुचिधातुभित्तिकलितं व्याप्तम् । पुनः किंलक्षणं कायकुटीरकम् । चर्मणा संछादितम् । पुनः विट्विष्ठीमूत्रादिभृतम् । पुनः किंलक्षणं कायकुटीरकम् । क्षुत् क्षुधा आदिदुःखानि तान्येव मूषकाः तैः क्षुधादुःखमूषकैः। छिद्रितम् । पुनः किंलक्षणं कायस्टीरकम् । स्वयमपि जरावह्निना। क्लिष्टं भस्मीभावं प्राप्तम् । तदपि मूढजनः स्थिर शुचितरं शरीरं मन्यते ॥३॥ इयं तनुः अम्भोबुद्द
जिस जिन भगवान्की वाणी धीरतारूपी धनुषको धारण करनेवाले योगिजनरूपी योद्धाओंके लिये बाणपंक्तिके समान होती है, तथा जिसकी वह वाणी दयामयी होकर भी मोहरूपी शत्रुका घात करनेके लिये तीक्ष्ण तलवारका काम करती है वह जिन भगवान् जयवंत होवे ॥१॥ यदि किसी एक दिन भोजन प्राप्त नहीं होता या रात्रिमें निद्रा नहीं आती है तो जो शरीर निश्चयसे निकटवर्ती अमिसे सन्तप्त हुए कमलपत्रके समान म्लानताको प्राप्त हो जाता है तथा जो अस्त्र, रोग और जल आदिके द्वारा अकस्मात् नाशको प्राप्त होता है; हे नातः ! उस शरीरके विषयमें स्थिरताकी बुद्धि कहांसे हो सकती है, तथा उसके नष्ट हो जानेपर आश्चर्य ही क्या है ? अर्थात् उसे न तो स्थिर समझना चाहिये और न उसके नष्ट होनेपर कुछ आश्चर्य भो होना चाहिये ॥२॥ जो शरीररूपी झोंपड़ी दुर्गन्धयुक्त अपवित्र धातुओंरूप भित्तियों (दीवालों) से सहित है, चमड़ेसे ढकी हुई है, विष्ठा एवं मूत्र आदिसे परिपूर्ण है, तथा भूख-प्यास आदिके दुःखोंरूप चूहोंके द्वारा किये गये छिद्रोंसे ( बिलोंसे ) संयुक्त है; वह क्लेश युक्त शरीररूपी झोंपड़ी जब स्वयं ही वृद्धत्व ( बुढापा ) रूप अमिसे आक्रान्त हो जाती है तब भी यह मूर्ख प्राणी उसे स्थिर और अतिशय पवित्र मानता है ॥ ३ ॥ यह शरीर जलबुद्बुदके समान क्षणक्षयी है, लक्ष्मी इन्द्रजालके सदृश विनश्वर है; स्त्री, धन एवं पुत्र आदि
१ क धनुषयुक्तानाम् । २ श अमितः यथा अम्बुज। ३ श शस्त्रः । ४ श विटमूत्रादिमृतम् ।