________________
पचनन्दि-पञ्चविंशतिः
[256:३४सौख्यं वैषयिक सदैव तरलं मत्ताङ्गनापागायत्
तस्मादेतदुपप्लवाप्तिविषये शोकेन किं किं मुदा ॥४॥ 257) दुःखे वा समुपस्थिते ऽथ मरणे शोको न कार्यों बुधैः
संबन्धो यदि विग्रहेण यदयं संभूतिधाश्येतयोः। तस्मात्तत्परिचिन्तनीयमनिशं संसारदुःखप्रदो
येनास्य प्रभवः पुरः पुनरपि प्रायो न संभाव्यते ॥५॥ 258) दुर्वारार्जितकर्मकारणवशादिष्टे प्रणष्टे नरे
यच्छोकं कुरुते तदत्र नितरामुन्मत्तलीलायितम् । यस्मात्तत्र कृते न सिध्यति किमप्येतत्परं जायते
नश्यन्त्येव नरस्य मूढमनसो धर्मार्थकामादयः॥६॥ 259) उदेति पाताय रविर्यथा तथा शरीरमेत्तन्ननु सर्वदेहिनाम् ।
स्वकालमासाद्य निजे ऽपि संस्थिते करोति कः शोकमतः प्रबुद्धधीः ॥७॥
संनिभा जलबुद्धदसदृशा । इयं श्रीः इन्द्रजालोपमा । अत्र संसारे श्रीः लक्ष्मीः इन्द्रजालसदृशा । अत्र संसारे कान्तार्थपुत्रादयः । कीदृशाः। दुर्वाताहतवारिवाह-मेघपटलसदृशाः । अत्र संसारे सौख्यं वैषयिकं सदैव। तरलं चश्चलम् । किंवत् मत्तानापागवत् मत्तस्त्रीकटाक्षवत् चञ्चलम्। तस्मात्कारणात् । एतस्मिन्पूर्वोक्तसुखे। उपप्लवे सति विनाशे सति। शोकेन किम्।न किमपि । एतस्मिन्सुखे आप्तिविषये प्राप्ते सति । मुदा हर्षेण गर्वेण किम् । न किमपि इत्यर्थः ॥४॥ यदि चेत् । विग्रहेण शरीरेण सह । संबन्धः अस्ति । वा दुःखे । समुपस्थिते प्राप्ते सति । अथ मरणे प्राप्ते सति । बुधैः चतुरैः । शोकः न कार्यः न कर्तव्यः । यत् यस्मात्कारणात् । अयं विग्रहः शरीरः । एतयोः दुःखशोकयोः द्वयोः। संभूतिधात्री जन्मभूमिः । तस्मात्कारणात् । अनिशम् । तत् आत्मखरूपम् । परिचिन्तनीय विचारणीयम् । येन विचारेण आत्मचिन्तनेन । पुरः अग्रे । पुनरपि अस्य शरीरस्य । प्रभवः उत्पत्तिः। प्रायः बाहल्येन । न संभाव्यते न संप्राप्यते । किंलक्षणः प्रभवः । संसारदुःखप्रदः ॥५॥ दुर्वार-दुर्निवार-अर्जित-उपार्जितकर्मकारणवशादिष्टे नरे । प्रणष्टे सति विनाशे सति । अत्र संसारे । नितराम् अतिशयेन । यद्यस्मात् । नरः शोकं कुरुते । तत् उन्मत्तलीलायितं वातूलचेष्टितमस्ति । यस्मात्कारणात् । तत्र तस्मिन् शोके कृते सति । कि सिध्यति किमपि न । पर केवलम् । एतत् जायते । एतत्किम् । मूढमनसः नरस्य । धर्म-अर्थकामादयः नश्यन्ति । एव निश्चयेन ॥ ६ ॥ ननु इति वितर्के । यथा रविः ।
दुष्ट वायुसे ताड़ित मेघोंके सदृश देखते देखते ही विलीन होनेवाले हैं; तथा इन्द्रियविषयजन्य सुख सदा ही कामोन्मत्त स्त्रीके कटाक्षोंके समान चंचल है । इस कारण इन सबके नाशमें शोकसे तथा उनकी प्राप्तिके विषयमें हर्षसे क्या प्रयोजन है ? कुछ भी नहीं। अभिप्राय यह है कि जब शरीर, धन-सम्पत्ति, स्त्री एवं पुत्र
आदि समस्त चेतन-अचेतन पदार्थ स्वभावसे ही अस्थिर हैं तब विवेकी जनको उनके संयोगमें हर्ष और वियोगमें शोक नहीं करना चाहिये ॥ ४ ॥ यदि शरीरके साथ सम्बन्ध है तो दुःखके अथवा मरणके उपस्थित होनेपर विद्वान् पुरुषोंको शोक नहीं करना चाहिये । कारण यह कि वह शरीर इन दोनों (दुःख और मरण ) की जन्मभूमि है, अर्थात् इन दोनोंका शरीरके साथ अविनाभाव है । अत एव निरन्तर उस आत्मस्वरूपका विचार करना चाहिये जिसके द्वारा आगे प्रायः संसारके दुःखको देनेवाली इस शरीरकी उत्पत्तिकी फिरसे सम्भावना ही न रहे ॥ ५॥ पूर्वोपार्जित दुर्निवार कर्मके उदयवश किसी इष्ट मनुष्यका मरण होनेपर जो यहां शोक किया जाता है वह अतिशय पागल मनुष्यकी चेष्टाके समान है । कारण कि उस शोकके करनेपर कुछ भी सिद्ध नहीं होता, बल्कि उससे केवल यह होता है कि उस मूढबुद्धि मनुष्यके धर्म, अर्थ और काम पुरुषार्थ आदि ही नष्ट होते हैं ॥ ६ ॥ जिस प्रकार सूर्यका उदय अस्त
१ क मत्तानास्त्रीअपाङ्गवत् कटाक्षवद नेत्रवत् चञ्चलम् ।