________________
पभनन्दि-पञ्चविंशतिः 249 ) यहीयते जिनगृहाय धरादि किंचित् तत्तत्र संस्कृतिनिमित्तमिह प्ररूढम् ।
आस्ते ततस्तदतिदीर्घतरं हि कालं जैनं च शासनमतः कृतमस्ति दातुः ॥५१॥ 250) दानाकाशनमशोभनकर्मकार्यकार्पण्यपूर्णहृदयाय न रोचते ऽदः।
दोषोज्झितं सकललोकसुखप्रदायि तेजो रवेरिव सदा हतकौशिकाय ॥ ५२ ॥ 251) दानोपदेशनमिदं कुरुते प्रमोदमासन्नभव्यपुरुषस्य न चेतरस्य ।।
जातिः समुल्लसति दारु न भृङ्गसंगादिन्दीवरं हसति चन्द्रकरैर्न चाश्मा ॥ ५३॥ 252 ) रत्नत्रयाभरणवीरमुनीन्द्रपादपद्मद्वयस्मरणसंजनितप्रभावः ।
श्रीपद्मनन्दिमुनिराश्रितयुग्मदानपञ्चाशतं ललितवर्णचयं चकार ॥ ५४॥ पापकारकाणि ॥ ५० ॥ यत् किंचित् धरादिः । जिनगृहाय चैत्यालयनिमित्तम् । दीयते । तद्धरादिकम् । तत्र चैत्यालये। संस्कृतनिमित्तम् उपकरणादिनिमित्तम् (2)। तत् उपकरणादिकम् । इह जगति । प्ररूढं प्रादुर्भूतं प्रकटम् । आस्ते तिष्ठति । ततः चैत्यालयात् । हि यतः । जैनं शासनम् । अतिदीर्घतरं कालम् । आस्ते वर्तते । अतः कारणात् । तत् जैनं शासनं दातुः कृतम् अस्ति । जैनं शासन दात्रा निर्मापितं वर्तते ॥५१॥ अदः दानप्रकाशनम् । अशोभनकर्मकार्य पापकर्मकार्य कार्पण्यं च ताभ्यां पूर्ण हृदयं यस्य सः तस्मै अशोभनकर्मकार्यकार्पण्यपूर्णहृदयाय अदत्ताय । न रोचते कृपणस्य नरस्य न रोचत इत्यर्थः । किंलक्षणं दानप्रकाशनम् । दोषेण उज्झितं रहितम् । पुनः किंलक्षणं दानप्रकाशनम् । सकललोकसुखप्रदायि । यथा सदा हतकौशिकाय निन्द्योलूकाय । रवेः सूर्यस्य तेज इव न रोचते। तथा कृपणस्य दानं न रोचते ॥५२॥ इदं दानोपदेशनम् आसन्नभव्यपुरुषस्य । प्रमोदम् आनन्दम् । कुरुते। च पुनः । इतरस्य दूरभव्यस्य । प्रमोदं न कुरुते । यथा भृगसंगात् । जातिः जातिपुष्पम् । समलसतिदारु काष्ठम । न समलसति । यथा चन्द्रकरैः चन्द्रकिरणेः । इन्दीवर कुमदम । हसति । न चाश्मा पाषाणः न हसति ॥५३॥ श्रीपद्धनन्दिमुनिः आश्रितयुग्मदानपञ्चाशतं चकार । श्लोकद्वयाधिकपञ्चाशतं दानप्रकरणं चकार अकरोत् । किंलक्षणः मुनिः । रत्नत्रयाभरणयुक्तवीरमुनीन्द्रः तस्य वीरमुनीन्द्रस्य पादपद्मद्वयस्मरणेन संजनितप्रभावो यस्मिन् सः। किंलक्षणं दानपञ्चाशतम् । ललितवर्णचर्य ललित-अक्षरयुक्तम् ॥ ५४ ॥ इति श्रीदानपञ्चाशत् समाप्तम् ॥ पृथिवी, रथ और स्त्री आदिके दान महान् फलको देनेवाले नहीं हैं; क्योंकि, वे निश्चयसे पापोत्पादक हैं ॥ ५० ॥ जिनालयके निमित्त जो कुछ पृथिवी आदिका दान किया जाता है वह यहां धार्मिक संस्कृतिका कारण होकर अंकुरित होता हुआ अतिशय दीर्घ काल तक रहता है । इसलिये उस दाताके द्वारा जैनशासन ही किया गया है ॥ ५१ ॥ जो निर्दोष दानका प्रकाश समस्त लोगोंको सुख देनेवाला है वह पाप कर्मकी कार्यभूत कृपणता (कंजूसी ) से परिपूर्ण हृदयवाले प्रोणी ( कंजूस मनुष्य ) के लिये कभी नहीं रुचता है । जिस प्रकार कि दोषा अर्थात् रात्रिके संसर्गसे रहित होकर सम्पूर्ण प्राणियोंको सुख देनेवाला सूर्यका तेज निन्दनीय उल्लूके लिये रुचिकर प्रतीत नहीं होता ॥ ५२ ॥ यह दानका उपदेश आसन्नभव्य पुरुषके लिये आनन्दको करनेवाला है, न कि अन्य (दूरभव्य और अभव्य ) पुरुषके लिये । ठीक है- भ्रमरोंके संसर्गसे मालतीपुष्प शोभाको प्राप्त होता है, किन्तु उनके संसर्गसे काष्ठ शोभाको नहीं प्राप्त होता । इसी प्रकार चन्द्रकिरणोंके द्वारा श्वेत कमल प्रफुल्लित होता है, किन्तु पत्थर नहीं प्रफुल्लित होता ॥ ५३॥ रत्नत्रयरूप आभरणसे विभूषित श्री वीरनन्दी मुनिराजके उभय चरण-कमलोंके स्मरणसे उत्पन्न हुए प्रभावको धारण करनेवाले श्री पद्मनन्दी मुनिने ललित वर्गों के समूहसे संयुक्त इस दो अधिक दानपंचाशत् अर्थात् बावन पद्योंवाले दानप्रकरणको किया है ॥ ५४ ॥ इस प्रकार दानपंचाशत् प्रकरण समाप्त हुआ ॥
१भकश संस्कृतः।