________________
४८
पद्मनन्दि-पञ्चविंशतिः
123 ) विहाय व्यामोहं घनसदनतन्वादिविषये कुरुध्वं तत्तूर्ण किमपि निजकार्य बत बुधाः । न येनेदं जन्म प्रभवति सुतृत्वादिघटना पुनः स्यान्न स्याद्वा किमपरवचोडम्बरशतैः ॥ १२३ ॥
[128 : १-१२३
124 ) वाचस्तस्य प्रमाणं य इह जिनपतिः सर्वविद्वीतरागो रागद्वेषादिदोषैरुपहृतंमनसो नेतरस्यानृतत्वात् ।
एतन्निश्चित्य चित्ते श्रयत बत बुधा विश्वतत्त्वोपलब्धौ मुक्तेर्मूलं तमेकं भ्रमत किमु बहुष्वन्धवदुः पथेषु ॥ १२४ ॥ 125 ) यः कल्पयेत् किमपि सर्वविदो ऽपि वाचि संदिद्य तत्त्वमसमञ्जसमात्मबुद्ध्या । खे पत्रिणां विचरतां सुदृशेक्षितानां संख्यां प्रति प्रविदधाति स वादमन्धः ॥ १२५ ॥
चरितम् ॥ १२२ ॥ बत इति खेदे । भो बुधाः भो लोकाः । अपरवचोडम्बरशतैः किं वचनसहस्रैः किम् । तूर्ण शीघ्रम् । तत्कि - मपि निजकार्य कुरुध्वम् । येन कर्मणा । इदं जन्म संसारः । न प्रभवति । धनसदनतन्वादिविषये व्यामोहं विहाय त्यक्त्वा । पुनः सुनृत्वादिघटना पुनः स्यात् भवेत् । वा न स्याद् न भवेत् ॥ १२३ ॥ इह संसारे । तस्य वाचः प्रमाणं श्रेष्ठम् । यः जिनपतिः भवति । यः सर्वविद्भवति । यो वीतरागो भवति । इतरस्य देवस्य वाचः प्रमाणं न स्यात् न भवेत् । कस्मात् । अनृतत्वात् असत्य - त्वात् । किंलक्षणस्य कुदेवस्य । रागद्वेषादिदोषैः कृत्वा उपहृतमनसः रागद्वेषैः पीडितचित्तस्य । बत इति खेदे । भो बुधाः एतत्पूर्वोक्तम् । चित्ते निश्चित्य चित्ते स्थाप्य । विश्वतत्त्वोपलब्धौ सत्याम् । एकं तम् आत्मानं मुक्तेर्मूलं श्रयत आश्रयत । बहुषु दुःपथेषु अन्धवत् किमु भ्रमत ॥ १२४ ॥ यः मूर्खः आत्मबुद्धया कृत्वा । तत्त्वं प्रति संदिह्य संदेहं गत्वा । सर्वविदः वाचि सर्वज्ञस्य वचने । किमपि असमञ्जसं वैपरीत्यं । कल्पयेत् असत्यं विचारयेत् । स मूर्खः अन्धः । खे आकाशे । विचरतां गच्छताम् । पत्रिणां पक्षिणाम् । संख्यां प्रति । वादं प्रविदधाति वादं करोति । किंलक्षणानां पत्रिणाम् । सुदृशेक्षितानां दृष्टियुक्तेन जीवेन
यह सब मोहकी महती लीला है ॥ १२२ ॥ हे पण्डितजन ! धन, महल और शरीर आदिके विषयमें ममत्व बुद्धिको छोड़कर शीघ्रता से कुछ भी अपना ऐसा कार्य करो जिससे कि यह जन्म फिरसे न प्राप्त करना पड़े । दूसरे सैकड़ों वचनोंके समारम्भसे तुम्हारा कोई भी अभीष्ट सिद्ध होनेवाला नहीं है । यह जो तुम्हें उत्तम मनुष्य पर्याय आदि स्वहितसाधक सामग्री प्राप्त हुई है वह फिरसे प्राप्त हो सकेगी अथवा नहीं प्राप्त हो सकेगी, यह कुछ निश्चित नहीं है । अर्थात् उसका फिरसे प्राप्त होना बहुत कठिन है ॥ १२३ ॥ यहां जो जिनेन्द्र देव सर्वज्ञ होता हुआ राग-द्वेषसे रहित है उसका वचन प्रमाण (सत्य) है । इसके विपरीत जिसका अन्तःकरण राग-द्वेषादिसे दूषित है ऐसे अन्य किसीका वचन प्रमाण नहीं हो सकता, कारण कि वह सत्यतासे रहित है । ऐसा मनमें निश्चय करके हे बुद्धिमान् सज्जनो ! जो सर्वज्ञ हो जानेसे मुक्तिका मूल कारण है उसी एक जिनेन्द्र देवका आप लोग समस्त तत्त्वोंके परिज्ञानार्थ आश्रय करें, अन्धे समान बहुत-से कुमार्गोंमें परिभ्रमण करना योग्य नहीं है ॥ १२४ ॥ जो सर्वज्ञके भी वचनमें सन्दिग्ध होकर अपनी बुद्धिसे तत्त्वके विषयमें अन्यथा कुछ कल्पना करता वह अज्ञानी पुरुष निर्मल नेत्रोंवाले व्यक्तिके द्वारा देखे गये आकाशमें विचरते हुए पक्षियोंकी संख्या के विषयमें विवाद करनेवाले अन्धेके समान आचरण करता है ॥ १२५ ॥ जिन देवने अंगश्रुतके बारह तथा अंगबा के अनन्त भेद बतलाये हैं । इस दोनों ही प्रकारके श्रुतमें चेतन आत्माको प्रायस्वरूपसे तथा उससे भिन्न पर पदार्थोंको
है
१ अ श उपहत ।