________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ।। ७८॥
स्वीमोक्षसिद्धिः
| योनिमतीनां पंचमगुणस्थानादुपरि गमनासंभवाद् द्वितीयोपशमसम्यक्त्वं नास्ति । “पणुसिणि पमत्तविरए आहारदुगं तु णत्थि नियमेण । अवगयवेदमणुस्सिणि सण्णा भूदगइमासज्ज ॥ ७०२ ॥ द्रव्यपुरुषभावस्त्रीरूपे प्रमत्तविरते आहारकतदंगो-४ पांगनामोदयो नियमेन नास्ति, तुशब्दादशुभवेदोदये मनःपर्यायपरिहारविशुद्धी अपि, न भावमानुष्यां चतुर्दश गुणस्थानानि, द्रव्यमानुष्यां पंचैवेति ज्ञातव्यम् । अपगतवेदानिवृत्तिकरणमानुष्यां कार्यरहिता मैथुनसंज्ञा भूतपूर्वगतिमाश्रित्य भवीत । "गरलद्धिअपज्जत्ते एक्को उ अमणुण्णगो य आलावो । इति गाथार्द्ध, तुः पुनः मनुष्यलब्ध्यपर्याप्ते एकः लब्ध्यपर्याप्तालाप एवेति तस्यार्थः। ननु किं नाम द्रव्यतः स्त्रीत्वं भावतः स्त्रीत्वं वा ? कथं चानयोर्भेदो? येन द्रव्यतः स्त्रियां पंच गुणस्थानानि भावतः स्त्रियां चतुर्दशेति चेत् न, वेदस्योभयरूपत्वेन प्रतिपादनात, गामसारे तथोक्तेः-, "पुरिसित्थिसंढवेदोदयम्मि पुरिसिस्थिसंढओ | भावे । नामोदयेण दव्वे पाएण समा कहिं विसमा ॥ २५९ ॥ पुरुषस्त्रीषण्डाख्यत्रिवेदानां चारित्रमोहभेदनोकषायप्रकृतीनामुदयेन भावे-चित्तपरिणामे यथासंख्यं पुरुषः स्त्री षण्ढश्च भवति, तथा निर्माणनामकर्मोदययुक्तांगोपांगनामकर्मविशेषोदयेन र १ द्वितीयोपशमसम्यक्त्वं मनःपर्यायज्ञानिनि स्यात् , न चाहारकर्द्धिप्राप्तनापि परिहारविशुद्धौ, त्रिंशद्वर्षेविना संयमस्यासंभवात्, द्वितीयोपशमसम्यक्त्वस्य तावत्कालमनवस्थानात , अव्यक्ततत्संयमस्योपशमश्रेणिमारोदुमपि दर्शनमोहोपशमाभावाच्च तद्द्वयसंयोगाघटनात् । २ अनिवृत्तौ प्रथमभागे गुण १ जीव १५६ प्रा १० सं २ मै । प ग १६१५का १ यो ९ वे ३ क ४ ज्ञा १ संयम २ सा छे। दं ३ ले ६ भा १ मा १सं २ |क्षा । सं | आ ११ उपयोग ७ इति गोमट्टसारे ।
॥ ७८॥
For Private and Personal Use Only